Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir विशेषा० 263 तम्', इत्याह- 'म लभते शिवं मोक्ष श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः। कः, इत्याह'खओवसमउत्ति' क्षायोपशमिकत्वात्- श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात् , मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । यथाऽवधिज्ञाने वर्तमान इति दृष्टान्तः ॥ ११७५॥ - अत्र परः माह- ननु यद्येवम् , तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह-क्षायोपशमिके चरणसहितेऽपि ज्ञानेन भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे । सुत्तं च खओवसमे न तम्मि तो चरणजुत्ते वि॥११७६॥ - गतार्थैव ।। ११७६ ॥ . आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्न्य चित्तभाषितमेव । नैवम् , यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव, यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः समाप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह ॐ सुयं-चरणेहिंतो खाइयनाण-चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति॥११७७॥ व्याख्याताथैव ॥ ११७७॥ ननुः कुतः पुनरिदमवसीयते यत्-क्षायोपशमिके भावे श्रुतं वर्तते । उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः', इत्याह- 'भावे खओसमिए इत्यादि इत्येवमेकया पातनयेय गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह- आहव निजिण्णे च्चिय कम्मे नाणं ति किंव चरणेणं? । न सुयं खयओ केवलनाण-चरित्ताई खइयाई॥११७८ १ सक्रियेऽपि ज्ञाने मोक्षः क्षायिके न तु क्षयोपशमे । सूत्रं च क्षयोपशमे न तस्मिस्ततश्चरणयुक्तेऽपि ॥१७॥xसुथ२ यत श्रुत-चरणाभ्यां क्षायिकज्ञान-चारित्रे लम्यते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥११७७॥ ३ गाथा- ११८०। " आहवा मिर्जीर्ण एवं कर्मणि ज्ञानमिति किंवा चरणेन । म श्रुतं क्षयतः केवलज्ञाम-धारित्रे क्षायिके ॥ ॥१८॥ तेसुंय ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए । तं कह मीसं खइयं च केवल जं सुएऽभिहियं ॥१.१७९॥ , 'आह व त्ति' अथवा, पर आह- ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीणे परिक्षीणे सर्वमपि ज्ञानमुत्पद्यने, न तूदयपाले । ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव क्षयमुपयास्थति, ततो ज्ञानादेव केवलाद् मोक्षो भविष्यति, किं चारित्रेण ? इति । अत्रोत्तरमाह- 'न सुयं खयउ ति सर्वमपि ज्ञानं खाचरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम्, उपलक्षणत्वाद् मत्य-ऽवधि-मनःपर्यायज्ञानानि च न स्वावरणक्षयात् , किन्तु तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिकं त्वेकमेव केवलज्ञानम् , तथा, क्षीणमोहसंबन्धि चारित्रं च क्षायिकम् । वयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहितात श्रुताद् मोक्षमाप्तेः पूर्वोक्तं न विरुध्यते । परः पाह- कयं पुनरिदं विज्ञायते- तत् श्रुतज्ञानं मिश्रं क्षायोपशमिकम् , केवलज्ञानं तु क्षायिकमिति । आचार्यः माह- यद् यस्मात् श्रुत आगमेऽभिहितमेतत् ॥ इति गाथादशकार्थः ॥ ११७९ ॥ किं तदभिहितम् , इत्याह भावे खओवसमिए दुवालसंग पि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं ॥११८०॥ भवनं भावः, भवतीति वा भावः, तत्र भावे श्रुतज्ञानं भवति । कस्मिन् ?, इत्याह-क्षयोपशमाभ्यां नित्तः, क्षयोपशमावेन वा क्षायोपशमिकस्तत्रैव भवति, न त्वौदयिकादिके । कियत् १, इत्याह-द्वादशाङ्गानि यत्र तद् द्वादशाङ्गम् , अपिशब्दाद् बाह्यमपि सर्वम् , तथा, मत्य-ऽवधि-पनःपर्यायज्ञानत्रयमपि,तथा,क्षायिकौ-पशमिकभाववृत्तिवर्जसामायिकचतुष्टयमपि । केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः, तल्लाभः पुनः कषायाणां क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण । इह च यद्यपि घातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु । तथापि प्राधान्यख्यापनार्थ तेषामेव ग्रहणम् , तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् ॥ इति नियुक्तिगाथार्थः ॥ ११८०॥ १ सयोश्च स्थितस्य मोक्षस्ततः श्रुतमिह सचरणं तदर्थाय । तत् कथं मिश्रं शायिकं च केवलं यत् श्रुतेऽभिहितम् ॥ ११७९. २ भावे क्षायोपशमिके द्वादशाजमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षये कषायाणाम् ॥11॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339