________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
विशेषा०
263
तम्', इत्याह- 'म लभते शिवं मोक्ष श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः। कः, इत्याह'खओवसमउत्ति' क्षायोपशमिकत्वात्- श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात् , मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । यथाऽवधिज्ञाने वर्तमान इति दृष्टान्तः ॥ ११७५॥ - अत्र परः माह- ननु यद्येवम् , तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह-क्षायोपशमिके चरणसहितेऽपि ज्ञानेन भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह
सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे । सुत्तं च खओवसमे न तम्मि तो चरणजुत्ते वि॥११७६॥ - गतार्थैव ।। ११७६ ॥ . आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्न्य चित्तभाषितमेव । नैवम् , यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव, यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः समाप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह
ॐ सुयं-चरणेहिंतो खाइयनाण-चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति॥११७७॥ व्याख्याताथैव ॥ ११७७॥
ननुः कुतः पुनरिदमवसीयते यत्-क्षायोपशमिके भावे श्रुतं वर्तते । उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः', इत्याह- 'भावे खओसमिए इत्यादि इत्येवमेकया पातनयेय गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह- आहव निजिण्णे च्चिय कम्मे नाणं ति किंव चरणेणं? । न सुयं खयओ केवलनाण-चरित्ताई खइयाई॥११७८
१ सक्रियेऽपि ज्ञाने मोक्षः क्षायिके न तु क्षयोपशमे । सूत्रं च क्षयोपशमे न तस्मिस्ततश्चरणयुक्तेऽपि ॥१७॥xसुथ२ यत श्रुत-चरणाभ्यां क्षायिकज्ञान-चारित्रे लम्यते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥११७७॥ ३ गाथा- ११८०।
" आहवा मिर्जीर्ण एवं कर्मणि ज्ञानमिति किंवा चरणेन । म श्रुतं क्षयतः केवलज्ञाम-धारित्रे क्षायिके ॥ ॥१८॥ तेसुंय ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए । तं कह मीसं खइयं च केवल जं सुएऽभिहियं ॥१.१७९॥ ,
'आह व त्ति' अथवा, पर आह- ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीणे परिक्षीणे सर्वमपि ज्ञानमुत्पद्यने, न तूदयपाले । ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव क्षयमुपयास्थति, ततो ज्ञानादेव केवलाद् मोक्षो भविष्यति, किं चारित्रेण ? इति । अत्रोत्तरमाह- 'न सुयं खयउ ति सर्वमपि ज्ञानं खाचरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम्, उपलक्षणत्वाद् मत्य-ऽवधि-मनःपर्यायज्ञानानि च न स्वावरणक्षयात् , किन्तु तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिकं त्वेकमेव केवलज्ञानम् , तथा, क्षीणमोहसंबन्धि चारित्रं च क्षायिकम् । वयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहितात श्रुताद् मोक्षमाप्तेः पूर्वोक्तं न विरुध्यते । परः पाह- कयं पुनरिदं विज्ञायते- तत् श्रुतज्ञानं मिश्रं क्षायोपशमिकम् , केवलज्ञानं तु क्षायिकमिति । आचार्यः माह- यद् यस्मात् श्रुत आगमेऽभिहितमेतत् ॥ इति गाथादशकार्थः ॥ ११७९ ॥
किं तदभिहितम् , इत्याह
भावे खओवसमिए दुवालसंग पि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं ॥११८०॥
भवनं भावः, भवतीति वा भावः, तत्र भावे श्रुतज्ञानं भवति । कस्मिन् ?, इत्याह-क्षयोपशमाभ्यां नित्तः, क्षयोपशमावेन वा क्षायोपशमिकस्तत्रैव भवति, न त्वौदयिकादिके । कियत् १, इत्याह-द्वादशाङ्गानि यत्र तद् द्वादशाङ्गम् , अपिशब्दाद् बाह्यमपि सर्वम् , तथा, मत्य-ऽवधि-पनःपर्यायज्ञानत्रयमपि,तथा,क्षायिकौ-पशमिकभाववृत्तिवर्जसामायिकचतुष्टयमपि । केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः, तल्लाभः पुनः कषायाणां क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण । इह च यद्यपि घातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु । तथापि प्राधान्यख्यापनार्थ तेषामेव ग्रहणम् , तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् ॥ इति नियुक्तिगाथार्थः ॥ ११८०॥
१ सयोश्च स्थितस्य मोक्षस्ततः श्रुतमिह सचरणं तदर्थाय । तत् कथं मिश्रं शायिकं च केवलं यत् श्रुतेऽभिहितम् ॥ ११७९. २ भावे क्षायोपशमिके द्वादशाजमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षये कषायाणाम् ॥11॥
For Private and Personal Use Only