________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
262 विशेषा.
आह- ननु जीवापवरफशोधने किमिति ज्ञानादीनां त्रितयमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छद्धिर्भविष्यति', इत्याशङ्ककैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तत्सिद्धिं समर्थयन्नाह भाष्यकार:
असहायमसोहिकरं नाणमिह पगासमेत्तभावाओ । सोहेइ घरकयारं जह सुपगासो वि न पईवो ॥११७०॥ नय सव्वविसोहिकरी किरिया वि जमपगासधम्मा सा । जह न तमोगेहमलं नरकिरिया सव्वहा हरइ॥११७१॥ दीवाइपयासं पुण सकिरियाए विसोहियकयारं । संवरियकयारागमदारं सुद्धं घरं होइ ॥ ११७२ ॥ तह नाणदीवविमलं तवकिरियासुद्धकम्मयकयारं । संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥ ११७३ ॥
इह न मानमसहायमेकाक्येव शोधयितुमलम्, प्रकाशमात्रस्वभावस्थात् , यदक्रियं प्रकाशमात्रस्वभावं न त विशुद्धिकरं हष्टम् , यथा न गृहरजो-मलविशुद्धिकृद् दीपः, यच्च विशुद्धिकरं न तत् प्रकाशमात्रस्वभावम् , यथेष्टा-निष्टप्राप्ति-परिहारपरिस्पन्दवान् नयनादिप्रकाशधमा देवदत्तः, प्रकाशमात्रस्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिकरं तदिति । क्रियाप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकरम् , यथा न समस्तगृहरजो-मलविशुद्धयेज्यक्रिया, चक्षुष्मतो वा क्रिया यथा तमोयुक्तं गृहं तमोगृहं तस्य न सर्वविशुद्धयेऽलम् , या च सर्वविशुद्धयेऽलं न साप्रकाशस्वभावा, यथा चक्षुष्मतो नरस्य वित्तमस्कगृहे समस्तरजो-मलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतो न सर्वविशुद्धिकरीति ।
त्रितयादपि समुदितात् तर्हि शुद्धिर्न भविष्यतीति चेत् । नैवम् , इत्याह-दीपादिप्रकाश पुनर्यक्षा गृह सक्रियया विशोधितकचवरं संवृतकचबरागमहेतुभूतद्वारं सर्वथा शुद्धं भवति तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरं संयमेन संतृतसमस्ताश्रवद्वारं जीवगृह सुविशुद्ध सिद्धिसुखसंदोहनिवासयोग्यं भवतीत्यर्थ इति ॥ ११७० ॥ ११७१ ॥ ११७२ ॥ ११७३ ॥ आह- ननु पूर्व ज्ञान-क्रियालक्षणाद् द्वयात् मोक्षः, इदानीं तु ज्ञान-तपः-संयमरूपात् त्रितयादसावुच्यते, इति कथं न पूर्वा
१ असहायमशुनिकर ज्ञानमिह प्रकाशमात्रभावात् । शोधयति गृहकचवरं यथा सुप्रकाशोऽपि न प्रदीपः ॥१७॥ म च सर्वषिशुद्धिकरी क्रियाऽपि यदप्रकाशाधर्मा सा । यथा न तमोगहमलं नरक्रिया सर्वथा हरति ॥10॥ दीपादिप्रकाश पुनः सक्रियया विशोधिसकचवरम् । संवृत्तकनवरागमद्वारं भुखं गृहं भवति ॥ १७२॥
तथा ज्ञान-दीपविमलं तपःक्रियाशुद्धकर्मकचवरम् । संयमसंदृतमुख जीवरावं भवति सुविशुद्धम् ॥ परविरोधः ?, इत्याशङ्कयाह
संजम-तवोमई जं संबरनिजरफला मया किरिया । तो तिगसंजोगो वि हु ताउ च्चिय नाण-किरियाओ ॥११७४॥
संयम-तपोमयी संबर-निर्जरफला च यद् यस्मात् तीर्थकर-गणधराणां मता संमता क्रिया, ततस्तस्माज्ज्ञान-तप-संयमरूपत्रिकसंयोगोऽप्यसौ ते एव पूर्वोक्त ज्ञान-क्रिये, नाधिकं किञ्चिदिति । इदमुक्तं भवति- एकैव चारित्रक्रिया संयम-तपोभेदाद् द्विधा भियते, तपः-संयमरूपत्वाचारित्रस्य । अत एव संवरो निर्जरा च तस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तपसस्तु कमेनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपः-संयमयोः क्रियायामेवैकस्यामन्तर्भावासान-क्रियालक्षणद्वयादेवाऽयम्, इति न कश्चिद् विरोधः। .
अपरस्त्वाह- ननु “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति प्रसिद्धम् , अत्र तु शान-चारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोधः । एतदप्ययुक्तम् , अभिमायापरिज्ञानात् , यतो ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याऽप्यभावात, मिथ्यादृष्टिज्ञानस्याऽज्ञानत्वेनाऽसकृत्यतिपादनात् । तथा, ज्ञानविशेष एव सम्यक्त्वम् , इति-मागत्राप्युक्तमेव, तद्यथा- ...
'नाणमवाय-धिईओ दंसणमिटुं जहोग्गहे-हाओ। तह तत्तई सम्म रोइज्जइ जेण तं नाणं ॥१॥ तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम्, अतो ज्ञानग्रहणात् तत् गृहीतमेव, इत्यलं प्रसङ्गेन । तदेवं व्याख्याता 'नाणं पयासर्य' इत्यादिगाथा ॥ ११७४ ।।..
अथ भावे खओवसमिए' इत्याद्युत्तरगाथासंघन्धनार्थभाहने लहइ सिवं सुयम्मि वि वर्सेतो अचरणो त्ति जं तस्स । हेऊ खओवसमओ जह वटुंतोऽवहिण्णाणे ॥११७५॥ जतिसुयनाणम्मि वि जीवो वस॒तो सोन पाउणइ मोक्ख' इत्यादिगाथायां यत पूर्व प्रतिज्ञातमित्यर्थः । किं प्रतिज्ञा
, संयम-तपोमयी यत् संवर-निर्जराफला मसा क्रिया । सतस्विकसंयोगोऽपि खलु ते एव ज्ञान-क्रिये ॥11 ॥ २ तत्वार्थाधिगमसूत्रे, २ गाथा ५३६। ३ गाथा ११६९। ४ गाथा ११८. ५न लभते शिवं श्रुतेऽपि वर्तमानोऽचरण इति यत् तस्य । हेतुः क्षयोपशमतो यथा वर्तमानोऽवधिज्ञाने ॥ ११७५॥ . गाथा ११४३ ।
For Private and Personal Use Only