________________
Acharya Shri Kailassagarsuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
261 विशेषा०
न च विश्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञान-क्रिययोर्मोक्षं पति साधनत्वाभावः, किन्तु या च यावती च तर्योमोक्ष प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषा, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिः॥ इति गाथापचकार्थः॥ ११६४ ॥ एतदेवाह
संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ ।
अधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥ ११६५ ॥ ज्ञान-क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते । एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्ध-पगुदाहरणमिह वक्तव्यमा तद्यथा-कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रापि तस्करघाटीभयाद् वाहनादिकमुज्झित्वा प्रपलायितः । अन्ध-पणू पुनरनायौ तत्रैव स्थितौ । तत्र च दवाग्नौ सर्वतः प्रदीप्ते तो परस्परं संप्रयुक्तौ । पङ्गुरन्धेन खस्कन्धमारोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग् मार्गमहत्त्या क्षेमेण नगरं प्रविष्टाविति । एवं सर्वत्र संयोगात फलसिद्धिर्भाननीया ॥ इति नियुक्तिसत्तार्थः ॥ ११६५॥
अत्र भाष्यम्ढुंगसंजोगम्मि फलं सम्मकिरिओ-बलद्धिभावाओ । इट्ठपुरागमणं पिव संजोए अन्ध-पंगूणं ॥ ११६६ ॥ वइरेगो जं विफलं न तत्थ सम्मकिरिओ-बलद्धीओ । दीसति गमणविफले जहेगचक्के मुवि रहम्मि ॥११६७॥ अनेन गाथाद्वयेन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकमयोगी निर्दिष्टौ तथाहि-विक ज्ञान-क्रियालक्षणं तसंयोग एव फलं मोक्ष
। संयोगसिद्धौ फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धन पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१६५॥ . २द्विकसंयोगे फलं सम्यक्कियो-पलब्धिभावात् । इष्टपुराऽऽगमनमिष संयोगेऽन्ध-पम्वोः ॥१६॥
व्यतिरेको यर विफलंग तन्त्र सम्पक्रियो-पलब्धी। श्येते गमनविफले यथैकचके भुवि रथे॥१६॥३ क. ग. 'क्षफलं भ'। लक्षणं भवति । कुतः, अत्र संयोगे सम्यक्रियो-पलब्धिभावादिति । क्रिया चारित्ररूपा, उपलब्धिस्तु ज्ञामम् । इह यत्र यत्र सम्यक्क्रिया-ज्ञाने स्त्र तत्रेष्टफलसिद्धिः, यथाऽन्ध-पसम्यक्रिया-ज्ञानसंयोगे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः। इत्यन्वयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते- यद् विफलं न तत्र सम्यक्रिया-ज्ञाने दृश्यते, यथा भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचक्रे रथे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलप्राप्तिरिति ॥ ११६७ ॥ वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह
सहकारित्ते तेसिं किं केणोवकुरुते सहावेणं । नाण-चरणाणमहवा सहावनिद्धारणमियाणि ॥ ११६८ ॥ . ___ आह-ज्ञान-क्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते-किमविशेषेणोपकुरुतः, शिविकावाहकपुरुषसंघातवत् । आहोखिद् भिन्नखभावतया, गतिक्रियायां नयन-चरणादिवत् । अत्रोच्यते- भिन्नखभावंतया, यत आह- 'नाणं पयासयमित्यादि । इत्येका वक्ष्यमाणगाथायाः प्रस्तावना । अथवा, संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा-तयोरेव ज्ञान-चरणयोरिदानी खभावनिर्धारणं क्रियते । इति संक्षेप-विस्तरकृत एव भेदः, न तु पारमार्थिकः ॥ इति गाथात्रयार्थः ।। ११६८॥
नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पिसमाओगे मोक्खो जिणसासणे भणिओ ॥११६९॥
इह यथा किञ्चिदुद्घाटद्वारं बहुवातायनजालकच्छिद्रं वाताकृष्टादिमचुररेणु-कचंबरपूरितं शून्यगृहम् । तत्र च वस्तुकामः कोऽपि तत् शुशोधयिषुरवातायनजालकानि सर्वाण्यपि बाबरेणु-कचवरप्रवेशनिषेधार्थ स्थगयति । मध्ये च प्रदीप प्रज्वलयति । पुरुषं च कचराद्याकर्षणाय व्यापारयति । तत्र च प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगनं तु बाह्यरेवादिमचेशनिषेधेन, पुरुषस्तु रेवाधाकर्षणात् तच्छोधनेन । एवमिहापि जीवापवरक उद्धाटावद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम् , तपस्तु पुरुषस्थानीयं कर्मकचवरशोधकम् , संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतनकर्मकचवरप्रवेशनिषेधकः । एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षा जीवस्य जिनशासने भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति ॥ इति नियुक्तिगाथार्थः ॥ ११६९ ॥
१ सहकारिखे तयोः किं केनोपकरुते स्वभावेन । ज्ञान-चरणयोरथवा स्वभावनिर्धारणमिदानीम् ॥ en २ज्ञानं प्रकाशकं शोधकं तपः संयमन गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ १९॥
For Private and Personal Use Only