________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
260 विशेषा० गताथैव ॥ ११५३ ॥ अत्र मेर्यमुत्थाप्य परिहरतिअंधोऽणवबोहो च्चिय बोहफलं पुण सुर्य किमण्णाणं । बोहो वि तओ विफलो तस्स जमघरस व वबोहो ॥११५४॥
आह- नन्वत्र दृष्टान्त-दार्टान्तिकयोर्वैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाघवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्- बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्पात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥
व्यतिरेकमाह
अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५।।
अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशक भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन ध्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थः ॥ ११५५ ।।।
भाष्यम्किरियाफलसंभवओ अप्पं पि सुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह--. . ने हि नाणं विफलं चिय किलेसफलयं पिचरणरहियस्स। निष्फलपरिवहणाओ चंदणभारोखरस्सेव॥११५७।।
, अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् । । चोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ १५ ॥ १ घ. छ. 'दयो'। ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥
क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशक भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ ११५६॥
५न हि.ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाचन्दनभारः खरस्पेय ॥ ११५७ ॥ मुच्यते ?, इलाह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञान क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः-हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरपदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तच्यागं मा काच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताऽज्ञानपरिगृहीता निवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात. सर्वतः संकटप्रदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ ११६०॥११६१॥
एतदेवाह
अइसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्य । तेणं नोन्नावेक्खा साहणमिह नाण-किरियाओ ॥११६२॥ गतार्थव ॥ ११६२ ।। अत्र परः प्राह
पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं। नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६३॥
आह- ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलवत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येक ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि-मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्थापि ज्ञान-क्रियासमुदायात् प्रादुभूतिरविरुदैवेति ॥११६३॥
किश्च, "वीसुं न सव्वह च्चिय सिकतातेल्लं वसाहणाभावो। देसोवगारिया जासा समवायम्मि संपुण्णा ॥११६४॥
, अतिसंकटपुरदाहेऽन्धपरिधावनादिक्रियेव । तेनाऽन्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ १६॥ २ प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-किययोर्वक्तुं सिकतासमुदायतैलमिव ॥११६३ ॥ ३ क. ग. 'नोपपद्य' । विष्वग न सर्वथव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ ११६४॥
For Private and Personal Use Only