________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
259 विशेषा० भमपि 'जानानः' इत्यत्र संघध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमजेदेष संसारिजीवः ॥ इति गाथाद्वयार्थः ॥ ११४८ ॥ ११४९ ॥
अत्र प्रेरक पाह
आहण्णाणी कुम्मो पुणो निमजेज न उण तन्नाणी । सक्किरियापरिहीणो बुडुइ नाणी जहन्नाणी ॥११५०॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥११५१॥
आह परः- ननु चाज्ञानी हिता-हितविभागपरिज्ञानशून्या पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत- जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः माह- ज्ञान्यपि पुनर्भवसागरे निमज्ज तिसक्रियाविरहात, अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासो सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-ऽऽमय-मरणसलिलमवाहे ॥ इति गाथाद्वयार्थः ॥ ११५० ।। ११५१॥
अत एवाह नियुक्तिकार:
सुबहु पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि १ ॥११५२॥
सुबहपि श्रुतमधीतं चरणविहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोठ्यपि प्रदीप्ता न किश्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात तयादिकोटयोऽपि ॥ इति नियुक्तिगाथार्थः ॥ ११५२ ॥ अथ भाष्यम्
संत पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ ११५३ ॥ . आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सत्क्रियापरिहीशी झुडति ज्ञामी यथाऽज्ञानी ॥ ११५०॥ तु मत--
नैश्चयिकनयमतेनाऽज्ञान्येव स जानमपि । ज्ञानफलाभावात् कूर्म इव मित्रुडेद् भवौघे ॥ ११५१॥ २ क. ग. 'रामर'। ३ सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता वीपशतसहस्त्रकोटिरपि ? ॥ ११५२॥
सदपि तदज्ञान ज्ञानफलाभावतः सुबहुकमपि । सस्क्रियापरिहोणमम्धस्य प्रदीपकोदिरिव ॥ ११५३॥ गताथैव ॥ ११५३ ।। अत्र प्रेयमुत्थाप्य परिहरति
अंधोऽणवबोहोच्चिय बोहफलं पुण सुयं किमण्णाणं ?। बोहो वितओ विफलो तस्स जमंधस्स व बबोहो ॥११५४॥ - आह-नन्वत्र दृष्टान्त-दान्तिकयोवैषम्यमेव, यतोऽन्धोऽनववोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधववोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिञ्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनववोध एवेति भावः, यथाऽन्धस्य 'अववोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥
व्यतिरेकमाह
अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५।
अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलवाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम्। यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्पतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थः॥११५५ ॥
भाष्यम्"किरियाफलसंभवओ अप्पं पि सुयं पगासयं होइ। एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संवन्धयन्नाहन हि नाणं विफलं चिय किलेसफलयं पि चरणरहियस्स।निष्फलपरिवहणाओ चंदणभारो खरस्सेव ॥११५७॥
, अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् ।। बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥११५४ ॥ २५. छ. 'दबो' । ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥ ४ क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ १५ ॥ ५ न हि ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः खरस्येव ॥१५॥
For Private and Personal Use Only