________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
258 विशेषा० भूतः १, इत्याह-- यस्तपः-संयमात्मकान् योगान् न शक्रोति चोदुस् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूद्यः, वक्ष्यति वा ॥ इति नियुक्तिगाथार्थः ॥ ११४३ ॥
अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह
सकिरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥११४४।।
केवलमेव ज्ञान नेप्सितार्थसंपापकम् , सक्रियाशून्यत्वात् , यथा- स्वसमीहितदेशपापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलषितदेशाप्रापकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संपापकत्रातसक्रियारहितः पोत ईप्सितदिगसंपापकः, सत्क्रियाविरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् ॥ इति गाथार्थः ॥ ११४४ ॥
तथाहिजह छेयलहनिजामओ वि वाणियगइच्छियं भूमि । वारण विणा पोओ न चएइ महण्णवं तरिउं ॥११४५॥ तह नाणलद्धनिजामओ वि सिद्धिवसहि न पाउणइ। निउणो वि जीवपोओ तव-संजममारुयविहीणो॥११४६॥ संसारसागराओ उच्छुड्डो मा पुणो निबुड्डेजा। चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥११४७॥
छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां . भूमि महार्णवं तीर्खा बातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनिर्यामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपा-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति ।
तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुपिय! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा
१ सक्रियाविरहाद् नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गज्ञो वाऽचेष्टो वातविहीनोऽधवा पोतः ॥ ११४४ ॥ २ घ. छ. 'वाऽचेहो'। ३ यथा छेकलब्धनिर्यामकोऽपि बणिगिष्टा भूमिम् । वातेन विना पोतो न शक्नोति महार्णवं तरीतुम् ॥ ११५॥ तथा ज्ञानलन्धनिर्यामकोऽपि सिद्धिवसतिं न प्रामोति । निपुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ ११४६॥
संसारसागरातुम्मनो मा पुनर्निगुडी । चरणगुणविहीणो द्रुति सुववपि जानन् ॥ ११४७॥ ४ क. ग. 'विहूणो'। न्वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मान इयोन्पग्रस्त्वं वर्तसे । अतश्चरणकरणाघनुष्ठानप्रमादेन मा तत्रैव निमासीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तहलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति, यतश्चरणगुणविहीण: सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भमपहाय चरणकरणानुष्ठान एवोधमो विधेयः ॥ इति नियुक्तिगाथात्रयार्थः ॥ ११४५ ॥ ११४६ ॥ ११४७॥
तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाह
संसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज्ज ॥ ११४८ ॥
दुलहं पि जाणमाणो सयणसिणेहाइणा तयं तत्तो । संजमकिरियारहिओ तत्थेव पुणो निबुड्डेज्जा ॥११४९॥
अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलपचुरातिनिबिडसेवालाच्छादितोदकान्धकारपहाइदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्रविष्टः। अथ समाहूतशेषजलचरवृन्दस्तद्रन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिता मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-धविप्रयोगा-निष्टप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुपत्वमाप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्राक्चन्द्रिकासंगमसुखमनुभूय 'दुषापोऽयं जिनवचनबोधिलाभः' इत्येवं जाननपि खजनस्नेहविपयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडी, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति ।
_ अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवमाप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाघेति । 'तय ति' ज्ञानादिप्रकाशं दुर्ल
संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मउज्येह जैन ज्ञानादिप्रकाशमासाच ॥१५॥ दुर्लभमपि जानन् स्वजनस्नेहादिना सत् ततः। संयमक्रियारहितस्तत्रैव पुनर्निगुडेत् ॥11 ॥
For Private and Personal Use Only