Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra विशेषा० www.kobatirth.org 264 भाष्यम् - सव्वं पिकिय देसो केवलवजाणि वाविसदेणं । चत्तारि खओवसमे सामइयाई च पाएणं ॥ ११८१ ॥ . कसायावगमे केवलमिह नाण- दंसण चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥११८२ ॥ सर्वश्रुतं क्षायोपशमिकभाववर्ति, किमुत तदेशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जीनि चत्वारि ज्ञानानि, सामायिकानि च सम्यत्तव श्रुत-देश- सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिकौ पशमिकानीति । इह 'नेण्णत्थ खए कसायाणं' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं चेति । एतानि त्रीणि सर्वेषामेत्र क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिकं सम्यक्त्वं पुनस्तेषामनन्तानुबन्धिचतुष्टय रूपदेशक्षयेऽपि भवति । ततः सर्वेष्वपि ज्ञान-दर्शन- सम्यक्त्व चारित्रेषु क्षायिकेषु जातेषु सत्सु ध्रुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥ ११८१ ॥ ११८२ ॥ अथोत्तरनिर्युक्तिगाथासंबन्धनार्थमाह हमेयाणमलाभो लाभो व कमो तदावरणया वा। आवरणखउवसमो समो खओ वा कहं कस्स १ ॥ ११८३॥ कथं पुनरेतेषां सम्यक्त्वादीनामलाभः १, कथं वा लाभ:- कुतो हेतोरित्यर्थः १, को वा लाभक्रमः ?, कस्य वा किमावरम्हैं, कस्य वा कथमावरणक्षयोपशमः ? कथं दोपशमः १, क्षयो वा १ इत्येका पातना ।। ११८३ ॥ Acharya Shri Kallassagarsuri Gyanmandir पातनान्तरमाह अहवा तवा मइयं कहमारूढो तरुं जिपो कह वा । तत्तो पत्रक्खमाणा जाया जिणपवयणुत्पत्ती ? ॥ ११८४ ॥ अथवा, 'तैव-नियम- नाणरुक्खं' इत्यादि प्रागुक्तम्, तत्रेदानीमेतत् पृच्छयते तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता १ इति ॥ ११८४ ॥ १ सर्वमपि किमुत देशः केवलवर्णानि वाऽपिशब्देन चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ ११८ ॥ सर्वकषायापगमे केवलमिह ज्ञान-दर्शन- चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ ११८२ ॥ २ गाथा ११८० ॥ ३ कं.ग. 'कं पुनस्तेषां सम्यक्त्वमन' । ४ कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा ? । आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ ११८३ ॥ ५. क. ग. 'भ्यग्ज्ञानादी' । ६ अथवा तपअदिमयं कथमारूढस्तरं जिनः कथं वा । ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः १ ॥ ११८४ ॥ ७ गाथा १०९४ । er ग्रन्थगाम्भीर्यमालोक्य पौर्वापर्यमूढतां शिष्यस्याशङ्कमानः संक्षिप्य तात्पर्यमाह - १ घ. छ. 'अथ प्र' निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो । वच्चइ य वक्खमाणा समयं जिणपत्रयणुप्पत्ती ॥ ११८५ ॥ कुतः पुरुषादियं सामायिकनिर्युक्तिः प्रसूता ?, इत्येवं सामायिकनिर्युक्तिसमुत्थानप्रसङ्गतो यस्तपो नियम-ज्ञानवृक्षसमारोहः प्राक् प्रस्तुतः, या च वक्ष्यमाणा जिनप्रवचनोत्पत्तिः, एतद्वितयमप्येवं सति समकं युगपद् व्रजति- युगपत् समर्थयिष्यत इत्यर्थः ॥ इति गाथापञ्चकार्थः ॥ ११८५ ॥ सम्यक्त्वाद्यलाभकारणं तावदाह अट्ठण्हं पयडीणं उक्कोसडिईए पवट्टमाणो उ। जीवो न लहइ सामाइयं चउन्हं पि एगयरं ॥ ११८६ ॥ अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकम् । किंविशिष्टम् १, चतुर्णा सम्यक्त्वसामायिक श्रुतसामायिक- देशविरतिसामायिक सर्वविरतिसामायिकानामेकतरमन्यतरदिति । अपिशब्दाद् मत्यादि च न लभते । न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽप्यायुर्वर्ज कर्मेत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्याग एव कार्मग्रन्थिकमतेनोत्कृ स्थितीः कर्मप्रकृतीर्वध्नाति सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेः पुनरप्युत्कृष्टस्थितिबन्ध एवं न भवति; आयुषस्तूत्कृष्टस्थितौ वर्तमानः सम्यक्त्व- श्रुतसामायिकद्वयस्यानुत्तरसुर उत्पादकाले पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । तुशब्दादायुर्वर्जशेषसप्तकर्मप्रकृतीनां जघन्यस्थितावपि वर्तमानः सूक्ष्मसंपरायादिः सम्यक्त्व श्रुत-सर्वविरतिसामायिकत्रयस्य पूर्वप्रतिपन्नत्वाद् न लभते न कश्चित् प्रतिपद्यते । आयुषस्तु जघन्यस्थितौ वर्तमानो न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, आयुर्जघन्य स्थिते: क्षुल्लकभवग्रहणरूपस्वात् तद्वतां च जीवानां सम्यक्त्वाद्युभयाभावात् सास्वादनस्यापि तेष्वनुत्पादात् । इति नियुक्तिगाथार्थः ॥ ११८६ ॥ 'अष्टानां कर्मप्रकृतीनामुत्कृष्टस्थितौ' इत्युक्तम् ; तत्रोत्कृष्टे-तरभेदभिन्नां तत्स्थितिमेव भाष्यकृदाह Mata सयरोवमाणं कोडाकोडीउ नाम गोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥११८७ ॥ २ नियुक्तिसमुत्थानप्रसङ्गतो ज्ञानतरुसमारोहः । मजति च वक्ष्यमाणा समकं जिनप्रवचनोत्पत्तिः ॥ ११८५ ॥ ३ अष्टानां प्रकृतीनामुत्कृष्टस्थितौ प्रवर्तमानस्तु । ओवो न लभते सामायिकं चतुर्णामप्येकतरम् ॥ ११८६ ॥ ४ विंशतिः सागरोपमान कोटाकोव्यो नाम गोत्रयोः । सप्ततिमहस्य स्थितिः शेषाणां त्रिंशदुत्कृष्टा ॥ ११८७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339