________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
239
विशेषा०
इह केचित् तीर्थका मन्यन्ते नद्यादेः संबन्धि द्रव्यतीर्थं किल स्नान- पाना-ज्वगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयमापकं भवत्येव । कुतः १, तारणादिफलमिति कृत्वा शरीरतारण-मलक्षालन-तृव्यवच्छेद- देहोपशमादिफलत्वादित्यर्थः ; अनेन चाध्यक्षसमीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः । तदेतद् नोपपद्यते, स्नानादे जीवोपघातहेतुत्वात् खड़ा-सि- धेनु- शूलादिवदिति । एतदुक्तं भवति जीवोपघातहेतुत्वाद् दुर्गतिफला एव स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना वध्यभूम्यादीनामपि भवतारकत्वमसङ्गात् । इति । इतश्च नद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वाद- सूनाप्रकारत्वात् उदूखलादिवदिति । न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत् कामाङ्गत्वात् मण्डनवत् अन्यथा ताम्बूलभक्ष- पुष्पबन्धन - देहादिधूपनाऽभ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः । न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितमाण्युपमदेवाधितत्वाश्च इत्याद्यभ्यूव स्वधियाऽत्र दोपजालमभिधानीयमिति ।। १०२९ ।। १०३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ परो ब्रूयात् किम् ?, इत्याह
देहोत्रगारि वा तेण तित्थमिह दानासणाईहिं । महु-मज्ज - मंस- वेस्सादओ वि तो तित्थमावन्नं ॥ १०३ ॥ यदि प्रेरको मन्येत - जाह्नवी जलादिकं तीर्थमेव, दाहनाश-पिपासोपशमादिभिर्देहोपकारित्वात् । अत्रोच्यते एवं सति ततो मधु-म-मांस- वेश्यादयोऽपि तीर्थमापयन्ते तेषामपि देहोपकारित्वाविशेषादिति । उक्तं द्रव्यतीर्थम् ।। १०३१ ।
(च)
अथ भावतीर्थमाह
भावे तित्थं संघो सुविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियव्त्रं भवसमुद्दोऽयं ॥ १०३२ ॥ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, ""तिस्थं भंते ! तित्थं तित्थवरे तित्थं १ ।
अथम्।
१ क. ग. 'पयुज्यते ' । १ देहोपकारि वा तेन तीर्थमिह दाह-नाशनादिभिः । मधु-मय-मांस- वेश्यादयोऽपि ततस्तीर्थमापन्नम् ॥ १०३१ ॥ २ भावे सीधे संघः श्रुतविहितं तारकस्तत्र साधुः । ज्ञानादित्रिकं तरणं तरयितव्यं भवसमुद्रः ॥ १३२ ॥ * समीहित- 1 ३ तीर्थं भगवम् ! तीर्थं तीर्थंकरस्तीर्थम् १ । गौतम ! अर्हन्तस्तावद् नियमात् तीर्थहरा, सीधे पुनश्चासुवर्णः श्रमणसंघः 1 +(दाहो) tear ! अरहा ताव नियमा तिर्थकरे, तिस्थं पुण चावन्नो समणसंयो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिष्यन्त एव । सह संघ तीर्थे तद्विशेषभूत एव तारका साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्सरतोsन्यता, अनन्यता च विवक्षात्रशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतापाप ज्ञानादित्रयं तु तरणम् । तरणीयं त्वादयिकादिभावपरिणामात्मकः संसारसमुद्र इति ।। १०३२ ।।
कस्मात् पुनः संघो भावतीर्थम् १, इत्याह
जं नाण- दंसण चरित भावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १०३३ ॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति १, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान-दर्शन-चारित्राणां विपक्षोऽज्ञान- मिथ्यात्वाविरमणानि तद्विपक्षस्तलक्षणो भात्रो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः १, इत्याह- ज्ञान-दर्शन- चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावान् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावाद् भवभावाच्च भव्यस्तारयति, तस्मादसौ संघो भावतीर्थमितीह - तात्पर्यम्; उक्तं च-
" रागाद्यम्भाः प्रमादव्यसनशतचलदीर्घकल्लोलमालः क्रोधेवाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ १ ॥ इति ।। १०३३ ।।
उपपत्यन्तरमाह -
कोह- लोह - कम्ममयदाह - तरहा- मलावणयणाई । एगंतेणच्चंतं च कुणइ य सुद्धिं भवोघाओ ॥ १०३४ ।'
१ यज्ज्ञान-दर्शन- चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ १०३३ ॥
२ तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धिं भवौघात् ॥ १०३४ ॥
For Private and Personal Use Only