________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobetirth.org
240 विशेषा०
तथा क्रोधश्च, लोभश्च, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाह-तृष्णा-मलाः। क्रोधो हि जीवानां मना-शरीरसंतापजनकत्वाद् दाहः, लोभस्तु विभवाविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मला; अतस्तेषां क्रोध-लोभ-कर्ममयानां दाह-तृष्णा-मलानां यदेकान्तेनाऽत्यन्त चापनयनानि करोति । तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात परकूल नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, सेन सत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंवन्धः । अपरमपि नद्यादितीर्थ तुच्छा-उनैकान्तिका-ऽऽत्यन्तिकदाह-तृष्णा-मलापनयनं विदधाति, एतत्तु संघतीर्थमनादिकालाली. नत्वेनानन्तानां दाह-तृष्णा-मलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थ स्वप्रधानस्वाद् द्रव्यतीर्थमिति भावः ॥ १०३४ ॥
अथवा, पाकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाह
दाहोवसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं संघो च्चिय उभय व विसेसणविसेस्सं ॥१०३५॥
अथवा, यद् यस्माद् यथोक्तदाहोपशम-तृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन-ज्ञान-चारित्रलक्षणेषु विष्वर्थेषु स्थित तस्विस्थं संघ एवः उभयं वा संघ-त्रिस्थितिलक्षणविशेषण-विशेष्यरूपं द्वयं त्रिस्थम् । इदमुक्तं भवति- किं त्रिस्थम् ? संघः, कश्च संघः त्रिस्थं, नान्यः, इत्येवं विशेषण-विशेष्ययोरुभयं संलुलितं त्रिस्थमुच्यत इति ॥ १०३५ ॥
अथवा, प्राकृते 'तित्थं' इत्युक्ते 'व्यर्थम्' इत्यपि लभ्यते, इत्येतद् दर्शयन्नाह
कोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था । होइ तियत्थं तित्थं तमत्थसहो फलत्थोऽयं ॥१०३६॥
क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् व्यर्थ, तच्च संघ एव तदव्यतिरिक्त ज्ञानादित्रयं वा व्यर्थ प्राकृते 'तित्थं' उच्यते। अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति- भगवान् संघः, नदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यनिषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलति, अतस्त्यर्थमुच्यत इति ।। १०३६॥ .. अथवा, वस्तुपर्यायोवार्थ इत्याह
१ दाहोपशमादिपु वा त्रिपु स्थितमथवा दर्शनादिषु । ततस्तीर्थ संघ एवोभयं वा विशेषणविशेष्यम् ॥ १०३५ ॥ २ झ. 'यं पि वि' ।
३ क्रोधाग्निदाहशमनाइयो वा त एव यस्य अयोऽर्थाः । भवति व्यर्थं तीर्थं तदर्थशब्दः फलार्थोऽयम् ॥ १०३६ ॥x त्रिस्थ:अहवा सम्मईसण-नाण-चरित्ताई तिन्नि जस्सत्था । तं तित्थं पुव्वोइयमिहे अत्थो वत्थुपज्जाओ ॥१०३७॥
अशवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् व्यर्थम् , अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः। तच्च संघ एव, तदव्यतिरिक्तत्वात् , त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहृतास्यर्थम् , संख्यापूर्वत्वात् , स्वार्थत्वाच द्विगोरिति ॥ १०३७॥
तदेवं संघो भावतस्तीर्थम् , त्रिस्थम् , व्यर्थ वा, इति प्रतिपाद्य सांप्रतमिदमेव जैन तीर्थमभिप्रेतार्थसाधकम् , नान्यत् , इति प्रमाणतः प्रतिपादयन्नाह
इह सम्मंसद्धाणो-वलद्धि-किरियासभावओ जइणं। तित्थमभिप्पेयफलं सम्मपरिच्छेयकिरिय व्व ॥ १०३८ ॥
इह जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यश्रद्धानो-पलब्धि-क्रियास्वभावत्वात्- सम्यग्दर्शन-ज्ञान-चारित्रात्मकत्वादित्यर्थः, इह यन् सम्यश्रद्धानो-पलब्धि-क्रियात्मकं तदिष्टार्थसाधकं दृष्टम्; यथा सम्यकपरिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधकं न भवति, तत् सम्यश्रद्धानो-पलब्धि-क्रियात्मकमपि न भवति, यथोन्मत्तप्रयुक्तक्रिया; तथा च शेषतीर्थानि । इदमुक्तं भवति-यथा वस्यचिद् निपुणवैद्यस्य सम्यग् रोगादिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधमयोगादिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धियिते । एवं जैनतीर्थादपीति ॥ १०३८ ॥ अन्यनीर्थान्यप्येवंविधानि भविष्यन्ति, न, इत्याहनाभिप्पेयफलाई तयंगवियलत्तओ कुतित्थाई । वियलनयत्तणओ चिय वियलाई वियलकिरिय व्व ॥१०३९॥
सुगतादिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि । कुतः १, इत्याह- 'तयंगेत्यादि' तस्याभिप्रेतार्थस्याऽङ्गानि तदङ्गानि सम्यग्..नादीनि कारणानि, तद्विकलत्वान्- तद्रहितत्वात् , नयविकलत्वाच्च विकलानि तानि । सर्वैरेव ोकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते, शेषतीर्थानि त्वेक-व्यादिनयमात्रमतावलम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकलानि, ततो
, अथवा सम्यग्दर्शन-ज्ञान-चारित्राणि त्रीणि यस्यार्थाः । तत् तीर्थ पूर्वोदितमिहाऽर्थो वस्तुपर्यायः ॥ १०३७ ॥ २ क.ग. 'हमत्थो' । ३ इह सम्यक्श्रद्धानो-पलब्धि-क्रिया-स्वभावतो जैनम् । तीर्थमभिप्रेतफलं सम्यक्परिच्छेद क्रियेव ॥ १०३८ ॥ ४ क. ग. 'र्थस्य सा' । २ नाभिप्रेतफलानि तदङ्गविकलात्वतः कुतीर्थानि । विकलनयत्वत एव विकलानि विकलक्रियेव ॥ १०३९॥
For Private and Personal Use Only