________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
241 विशेषा० न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिति; यथा भिपक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाभिप्रेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तमकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ १०३९ ।।
अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह
अहव सुहोतारुत्तारणाई दब्वे चउव्यिहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ १०४०॥
सव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तइयं च बोडियाणं चरिमं जइणं सिवफलं तु॥१०४१॥ ___ इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतार सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतार दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति माणिनस्तत् सुखावतारम्, सुखेनैव यत उत्तरन्ति-- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् । इत्याधभगवर्तितीर्थभावार्थः । एवमन्यत्रापि ।
एतच्च सरजस्कानां शैवानां संवन्धि वेदितव्यम् । तथाहि-राग-द्वेष-कषाये-न्द्रिय-परीपहो-पसर्ग-मनो-वाक्-कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात्, यथा कथञ्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव पाणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्थ सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकवाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुस्तिद्दीक्षा न परित्यजेत् । किञ्च,
"शैवो द्वादश बर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ १॥" इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात् सुखेनैव तद्दीक्षा जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥१॥ (२) द्वितीयभङ्गकवर्ति तीर्थ 'तध्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । तथाहि
"मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराहणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥"
___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुनंसि अगारंसि मणुन्नं झायए मुणी ॥ १॥" १ अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विध तीर्थम् । एवमेव भावेऽपि तनादिमकं सरजम्कानाम् ॥१०४०॥ तच्चण्णि
सौगताना द्वितीयं विषयसुखकुशासभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु॥१०४१॥वासक__२ मनोज्ञं भोजनं भुनवा मनोज शयनाऽऽसनम् । मनोज्ञेगारे मनोज्ञ ध्यायति मुनिः ॥१॥
इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात् , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: , स्वयमेव किञ्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥ २॥
(३) दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तत्तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कषायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्वातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोतारतेति ॥३॥
(४) दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अपमननया समिति-गुप्ति-शिरोलुचनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनो त्पादनात्, व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् ततीर्थस्य दुरुत्तारता ॥४॥
अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिमामिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिर्ग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात् मुखोत्तारता । साधूनां तु पूर्वोक्तकष्टानुष्ठानाद् मुक्त्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ १०४०॥१०४१ ॥
अत्र प्रेरकः प्राह
नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ १०४२ ॥
ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविघातित्वेनानिष्टार्थप्रसाधकत्वाद, लोकमतीतिबाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं मुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति प्रेरकाभिप्राय इति ॥ १०४२ ।। (+टि १६. छ. 'दुःखाता'। २ ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ १०४२ ॥(म्यम् ।
For Private and Personal Use Only