________________
Acharya Shri RAUMLUNG
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
242 विशेषा०
अत्रोत्तरमाहएवं तु दव्वतित्थं भावे दुक्खं हियं लभइ जीवो । मिच्छत्त-ऽन्नाणा-ऽविरइ-विसयसुहभावणाणुगओ॥ १०४३ ॥ पडिवण्णो उण कम्माणुभावओ भावओ परमसुद्ध। किह मोच्छिइ जाणतो परमहियं दुल्लहं च पुणो ॥१०॥
सत्यम् , द्रव्यतीर्थमेवमेवेष्यते यथैव त्वं ब्रूषे, तस्य सुखपाप्यत्वात् , सुखेनैव च मुच्यमानत्वादिति । भावतीर्थ तु नैवम् , तस्य मोक्षहेतुत्वेन जीवानां परमहितत्वात् । यच्च मोक्षहेतुत्वेन हितं, तद् दुःखं लभते जीव:- महता कष्टेन तत् जीवः प्रामोतीत्यर्थः । कथंभूतो यस्मादेष जीवः, इत्याह- 'मिच्छत्तेत्यादि' यस्मादनादिकालालीनमिथ्यात्वा-ज्ञाना-विरति-विषयसुखभावनांनुगतो जीवः, तस्मादित्थंभूतस्य जीवस्याऽनन्तसंसारदुःखव्यवच्छेदहेतुत्वाद् निःसीमनिःश्रेयसावाप्तिनिवन्धनत्वाच परमहितं भावतीर्थमतिदुरवापत्वात पूर्वोक्तकष्टानुष्ठानयुक्तत्वाच्च दुःखावतारम् , तथा, दुरुत्तारं च । कुतः१, इत्याह- 'पडिवण्णो इत्यादि' शुभकर्मपरिणत्यनुभावतः पुनः कथमपि परमशुद्ध भावतीर्थ भावतः परमार्थतः प्रतिपन्नो जीवः 'परमहितं दुर्लभं च पुनरपि एतज्जानम्नपि कथं नु नाम तद् मोक्ष्यति :कथं तत उत्तरिष्यति ?-न कथञ्चिदित्यर्थः। अतो दुरुत्तारता तस्येति । किञ्च, सद्यमयुक्तकर्कशक्रियोदाहरणतश्च भावतीर्थस्य दुःखावतारो-तारता भावनीया ॥ १०४३ ॥ १०४४ ॥
कथम् !, इत्याह
अइकक्खडं व किरियं रोगी दुक्खं पवज्जए पढमं । पडिवन्नो रोगक्खयमिच्छंतो मुंचए दुःखं ॥१०४५॥ इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं । पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं ॥१०५६॥ गाथाद्वयमपि सुवोधम् ॥ १०४५ ॥ १०४६ ॥
एवं तु द्रव्यतीर्थ भावे दुःखं हितं लभते जीवः । मिथ्यात्वा-शाना-विरति-विषयसुखभावनानुगतः ॥१३॥ प्रतिपन्नः पुनः कर्मानुभावतो भावतः परमशुद्धम् । कथं मोक्ष्यति जालन् परमहितं दुर्लभं च पुनः॥१०४४ ॥ ३ अतिकर्कशां वा क्रियां रोगी दुःखं प्रपद्यते प्रथमम् । प्रतिपन्नो रोगक्षयमिच्छन् मुखते दुःखम् ॥ १.४५॥
इति कर्मण्याधिगृहीतः संयमनियां प्रपद्यते दुःखम् । प्रतिपक्षः कर्मक्षयमिच्छन् मुमते दुःखम् ॥ १०४६ ॥ तदेवं तीर्थ प्रतिपाद्य तीर्थकरसिद्धिमाह
अणुलोम-हेउ-तस्सीलया य जे भावतित्थमेयं तु । कुव्वंति पगासंति य ते तित्थयरा हियत्थकरा ॥१०४७॥
हेतु ताच्छील्या-ऽऽनुलोम्यतो ये भावतीर्थमेतत् कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थकराः। तत्र हेतो सद्धर्मतीर्थकरणहेतवः "कृषओ हेतु-ताच्छील्या-ऽऽनुलोम्येषु" इत्यादिना टप्रत्ययविधानात् तीर्थकराः, यथा यशस्करी विद्येत्यादि । ताच्छील्ये- कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रमाणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात् तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये- स्त्री-पुरुष-बाल-वृद्ध-स्थविरकल्पिक-जिनकल्पिकादीनामनुरूपोत्सर्गा-ऽपवाददेशनयाऽनुलोमसद्धर्मतीर्थकरणात तीर्थकरा, यथा वचनकर इत्यादि । एवंभूतास्तीर्थकराः, अत एव सर्वासुमता हितस्य मोक्षार्थस्य करणात् हितार्थकराः। तान् , 'वन्दे' इति कियासंबन्धात् सर्वत्र कर्मप्राप्तिः। द्वितीयाबहुवचने च प्राकृतत्वादेकारान्तत्वमिति ॥१०४७॥
'भगवते' इत्येतद् व्याचष्टे
ईस्सरिय-रूव-सिरि-जस-धम्म-पयत्ता मया भगाभिक्खा । ते तेसिमसामण्णा संति जओ तेण भगवंते॥१०४८॥
इश्वर्यादयः षडी भगाभिख्या भगसंज्ञास्तावद् मताः प्रोक्ताः। ते च तेषां तीर्थकराणामसामान्या असाधारणाः सन्ति यस्मात् , तेन ते भगवन्तः, तान् वन्दे । तत्र खांभाविककर्मक्षयजन्य-सुरनिर्वर्तितचतुस्त्रिंशदतिशयलक्षणं तेषां परमैश्वर्यम् । तथा
"सेव्वसुरा जइ रूवं अंगुट्ठपमाणयं विउब्वेजा । जिणपायगुटुं पइ न सोहए त जहिंगालो ॥१॥ गणहर आहार अणुत्तरा य जाव वण चक्कि-वासु-बला । मंडलिया जा हीणा छट्ठाणगया भवे सेसा ॥२॥" , अनुलोम-हेतु-सच्छीलकाश्च ये भावतीर्थमेतत् तु । कुर्वन्ति प्रकाशयन्ति च तांस्तीर्थकरान् हितार्यकराम् 10॥ २ पाणिनीये ॥३२॥२०॥ ३ गाथा १०२५ ।
ऐचर्य-रूप-श्री-यशो-धर्म-अयशा मता भगाभिण्याः। ते तेषामसामान्याः सन्ति यत्तस्तेन भगवन्तः॥१.४८॥ ५ सर्वसुरा यदि रूपमनुष्टप्रमाणकं विकुरिन् । जिनपादाएं प्रति न शोभते तद् वधाजारः॥॥
गणधरा भाहारका अनुत्तराच वाव वानाश्चकि-वासु-बलाः । मण्डलिका ये हीनाः पदस्थानगता भवे शेषाः॥५॥
For Private and Personal Use Only