________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
243
विशेषा ०
इत्यादिग्रन्याभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीषाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्त्वादुत्तमक्षमा मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेषामिति ।। १०४८ 'अणुत्तरपरिक' इत्येतद् विवृण्वन्नाह
विरियं परिक्कमो कि परेऽरयो वा जओ तदकमणं । सोऽणुत्तरो वरो सिं अणुत्तरपैराक्कमा तो ते ॥१०४९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिः शेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कषायादयः 'जउ ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम्, ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति ।। १०४९ ।।
'अमितज्ञानिनः' इति व्याख्यानयन्नाह-
अमियमणतं नाणं तं तेसिं अभियणाणिणो तो ते । तं जेण नेयमाणं तं चाणतं जओ नेयं ॥ १०५० ॥
अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्थाssनन्त्यमित्याह - तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् तच्च ज्ञेयं सर्वमपि यतोऽनन्तम्, अतः केवलज्ञानस्यानन्त्यमिति ।। १०५० ।।
१ गाथा १०२५ ।
'ति सुगइगइगए' इत्येतद् व्याख्यानयति-
तिण्णा समइता भवण्णवं, कं गई गया तरिउं ? । सुगईण गई पत्ता सुगइगइगया तओ होंति ॥ १०५१ ॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदधिं तीर्त्वा ततस्ते कां गतिं गताः १, इत्याह- 'सुईणेत्यादि ' ज्ञानि
२ वीर्य पराक्रमः किल परेऽरयो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥ १०४९ ॥ पर-1
३. अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तथाऽनन्तं यतो ज्ञेयम् ॥ १०५० ॥
४ तीर्णाः समतिक्रान्ता भवार्णवं, कां गतिं गतास्तीयों ? सुगतीनां गतिं प्राप्ताः सुगतिगतिगतास्ततो भवन्ति ॥ १०५१ ॥ वे सति साधनिर्मुक्तत्वात् परमसुखिनः सुगतयः सिद्धाः तेषां सुगतीनां सिद्धानां तैर्गम्यमानत्वाद् गतिः सिद्धिलक्षणा, न तु नरकगत्यादिका सुगतिगतिः, तां गताः प्राप्ताः, सुगतिगतिगतास्तानिति ।। १०५१ ।।
"सिद्धिपहपएसए' इत्येतद् व्याख्यानयन्नाह -
सेत्रिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे । तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥ १०५२ ।। सिद्धानां संबन्धिनी येयमनन्तरगाथायां सुगतिगतिरुक्ता, सैवेह सिद्धिरभिप्रेता, तस्याः सिद्धेर्यः पन्था वक्ष्यमाणज्ञान-दर्शनचारित्रलक्षणः स सिद्धिपथः, तस्य सिद्धिपथस्य यतः प्रधानाः प्रकृष्टा आदौ वा देशकाः प्रदेशकास्ततः सिद्धिपथप्रदेशकास्ते, अतस्तानिति ।। १०५२ ॥
सिद्धिपथप्रदेशका इत्युक्तम्, तत्र कोऽयं सिद्धिपथः १, इत्याशङ्क्य भाष्यकार एव तमाह
सिद्धि हो उण सम्मत्त-नाण चरणाई वक्खमाणाई । भवहे उविवक्खाओ निदाणपडिकूलं किरिय व्व ॥ १०५३ ॥ सिद्धेस्तु पन्था इहैव वक्ष्यमाणानि सम्यक्त्व श्रुत चारित्रसामायिकलक्षणानि सम्यक्त्व ज्ञान चारित्राणि । कुतः १, इत्याह'भवेत्यादि । इदमुक्तं भवति- मुक्तेर्मार्गो मुक्तेः साधकानि सम्यक्त्व -ज्ञान- चारित्राणीति प्रतिज्ञा, भवस्य संसारस्य या मिथ्यात्वाज्ञानाऽविरतिलक्षणो हेतुस्तद्विपक्षत्वात् तद्विघातकत्वात् सम्यक्त्वादीनामिति हेतुः । इह यो यद्धेतुविपक्षस्वभावः स तद्विपक्षस्य साधको दृष्टः, यथा रोगनिदानस्याऽजीर्णादेर्लङ्घनादिका प्रतिपक्षभूता क्रिया नीरोगत्वस्य साधनी, भवहेतुविपक्षभूताश्च सम्यक्त्वादयः, ततो referrer मोक्षस्य साधका इति । अथवा, अन्यथा प्रयोगः क्रियते- इष्टार्थप्रसाधकमेव सम्यक्त्वादित्रयमिति प्रतिज्ञा, इष्टार्थविघातकहेतुविपक्षत्वादिति हेतु:, इह यो यस्य विघातहेतूनां विपक्षस्वभावः स तस्य साधको दृष्टः, यथा नीरोगताविघातकस्याऽजीर्णादेः प्रतिपक्षभूता लङ्घनादिक्रिया नीरोगतासाधनी, इष्टार्थस्य मोक्षस्य विघातकानां मिथ्यात्वादीनां विपक्षभूताच सम्यक्त्वादयः, ततो मोक्षलक्षणस्येष्टार्थस्य साधका इति ।। १०५३ ।।
१ गाथा १०२५ । २ सैव सुगतीनां गतिः सिद्धिः सिद्धानां यः पथस्तस्याः । तद्देशकाः प्रधानं सिद्धिपथप्रदेशकास्ततस्तान् ॥ १०५२ ॥
३ सिद्धिपथः गुनः सम्यक्त्व-ज्ञान चरणानि वक्ष्यमाणानि । भवहेतुविपक्षाद् निदानप्रतिकूलक्रियेव ॥ १०५३ ॥ x ना - 1
For Private and Personal Use Only