________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
238
विशेषा०
विशेषमात्रं तच्छिष्यः सुखेन लघु च स्वयमपि ग्रहीष्यति । अतो लाघवार्थमिह दशकालिकादीनां ग्रहणमिति ॥ १०२२॥ १०२३ ॥
अथोपसंहरंस्तात्पर्यमाह
तम्हा जेण महत्थं सत्थं सव्वाणुओगविसयमिणं । सत्थंतरमेवहवा तेण पुणो मंगलग्गहणं ॥ १०२४ ॥
तस्माद् येन कारणेन सर्वानुयोगविषयत्वादिदमुपोद्धातलक्षणं शास्त्रं महार्थम् , अथवा, बहुवक्तव्यत्वाद् वस्तुतो यस्माच्छाखान्तरमेवेदम् , न स्वावश्यकमात्रम् , तेनाऽस्थादौ पुनरपि मङ्गलग्रहणम् , इत्येष स्थितः पक्षः ॥ इत्येकादशगाथार्थः ॥ १०२४ ॥
किं पुनस्तद् मङ्गलम् , इत्याह
तित्थयरे भगवंते अणुत्तरपरक्कमे अभियनाणी । तिण्णे सुगइगइगए सिद्धिपहपएसए वंदे ॥ १.२५ ॥
तीर्यते भवोदधिरनेन, अस्मात् , अस्मिन्निति वा तीर्थ वक्ष्यमाणस्वरूपम् , तत्करणशीला: "ओ हेतुताच्छील्ये." इत्यादिना टप्रत्यये तीर्थकराः, तान् वन्दे, इति संबन्धः । कथंभूतान् ?, इत्याह- भगः समप्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवन्तोऽर्हन्तस्तान भगवतः । पुनरवि कथंभूतान् ?, इत्याह- अनुत्तरपराक्रमानिति- पराक्रयो वीर्य, तदनन्तत्वादनुत्तरं येषाम् । अथवा, परेयां क्रोधादिशत्रूणामाक्रमणं विक्षेषणं पराक्रमः सोऽनुत्तरः प्रधानरूपो येषां तेऽनुसरपराक्रमास्तानिति । तथा, अनन्तज्ञेयपरिच्छेदादमितमपरिमितं केवलरूपं ज्ञानं येषां तेऽमितज्ञानिनस्तानिति । तथा, तरन्ति स्म भवार्णवमिति तीर्णास्तानिति । तीर्वा च भवजलधि सुगतिगतिगतानिति,- तत्र राग-द्वेषविकलव-सर्वज्ञत्व-सर्वदर्शित्वादिभ्यो निरुपमसुखभागिनः सुगतयः सिद्धास्तैरेव गम्यमानत्वाद् गतिः सिद्धिस्तां गताः सुगतिमतिगतास्तानिति । तथा, तस्या एव सिद्धः पन्थाः सम्यग्दर्शन-ज्ञानादिको मार्गस्तस्य प्रकृष्टा देशकाः सिद्धिपथप्रदेशकास्तान् वन्देऽभिवादये स्तौमि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १०२५ ॥
विस्तरार्थ तु विभणिषुर्भाष्यकार एवाहतिजइ जं तेण तहिं तओ व तित्थं तयं च दवम्मि । सरियाईणं भागो निरवायो, तम्मि य पसिद्धे ॥१०२६॥
.. तस्माद् येन महार्थं शास्त्रं सर्वानुयोगविषयमिदम् । शाखामसरमेवाऽथवा सेन पुनर्मङ्गलग्रहणम् ॥ १०२४ ॥ २ तीर्थकरान् भगवतोऽमुत्तरपराक्रमाममितज्ञानान् । तीन सुगतिमलिगतान् सिविपथप्रदेशकान् वन्दे ॥ १०२५॥ ३ पाणिनीये ॥३२॥२०॥
तीर्यते यत् तेन तत्र ततो वा तीर्थ तच्च दव्ये । सरिदादिक भागो निरपाया, सस्मैिश्व प्रसिद्ध ॥ १.२६ ॥ तेरिया तरणं तरियन्वं च सिद्धाणि, तारओ पुरिसो । बाहो-डुबाइ सरणं, तरणिजं निन्नयाईयं ॥१०२७॥
यत यस्मात् तीर्यते दुस्तरं वस्तु तेन सस्मिस्ततो वेत्यतस्तीमुच्यते । तच्च माम-स्थापना-द्रव्य-भावभेदाचतुर्विधम् । तत्र नामस्थापने सुगमे । द्रव्ये द्रव्यभूतमप्रधानभूतं सरित-समुद्रादीनां निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मिंश्च प्रसिद्ध सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादेतानि नियमात् सिध्यन्ति । कानि', इत्याह- तरिता पुरुषः, तरणं चाहो डुपादि, तरणीयं तु निम्नगादिकमिति ॥ १०२७॥ कथं पुनरिदं द्रव्यतीर्थम् ?, इत्याह
देहाइतारयं जं बज्झमलावणयणाइमत्तं च । णेगंताणञ्चतियफलं च तो दव्वतित्थं तं ॥ १०२८ ॥
यस्मादिदं देहादिकमेव द्रव्यमानं तारयति- नद्यादिपरकूलमात्रं नयति, न पुनर्जीवं संसारसमुद्रस्य मोक्षलक्षणं परकूल प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् । तथा बाह्यमेव मलादिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिषातादिजन्यकर्ममलम् । तथा, अनैकान्तिकफलमेवेदं नद्यादितीर्थम्- कदाचिदनेन नद्यादेस्तरणात् , कदाचितु तत्रैव मन्जनात् । तथा, अनात्यन्तिकफलं चेदम् , तथाहिएकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च तीर्यत इत्यनात्यन्तिकफलत्वम् । आत्मना वाऽस्य नद्यादितीर्थस्य द्रव्यमात्रत्वेनाऽप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति ॥ १०२८ ।।
इह केपांचिद् मतमाशङ्कय परिहरनाहइह तारणाइफलयं ति हाण-पाणा-ऽवगाहणाईहिं । भवतारयं ति केई तं नो जीवोवघायाओ ॥ १०२९ ॥ सूणंगं पिव तमुदूहलं व न य पुण्हकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ॥१०३०॥
, तरीता तरणं तरयितव्यं च सिद्धानि, तारकः पुरुषः । वाहो-दुपादि तरणं, तरणीयं निम्नगादिकम् ॥ १.२७॥ २ देहादिनारकं यत् बाह्यमलापनयनादिमानं च । नैकान्ता-ऽऽत्यन्तिकफलं च ततो द्रव्यतीर्थ तत् ॥१०२८ ॥ ३ क. ग. 'लमनै। १ इह नारणाविफलकमिति स्नान-पाना-ऽवगाहनादिभिः । भवतारकमिति केचित् तनो जीवोपघातात् ॥१०२९॥
सूनाशामपि वा तदुदूखलमिव न च पुण्यकारणं स्नानम् । न च यतियोग्यं तद् मण्डनमिव कामानभावात् ॥ १०३०॥
For Private and Personal Use Only