Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 259 विशेषा० भमपि 'जानानः' इत्यत्र संघध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमजेदेष संसारिजीवः ॥ इति गाथाद्वयार्थः ॥ ११४८ ॥ ११४९ ॥ अत्र प्रेरक पाह आहण्णाणी कुम्मो पुणो निमजेज न उण तन्नाणी । सक्किरियापरिहीणो बुडुइ नाणी जहन्नाणी ॥११५०॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥११५१॥ आह परः- ननु चाज्ञानी हिता-हितविभागपरिज्ञानशून्या पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत- जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः माह- ज्ञान्यपि पुनर्भवसागरे निमज्ज तिसक्रियाविरहात, अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासो सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-ऽऽमय-मरणसलिलमवाहे ॥ इति गाथाद्वयार्थः ॥ ११५० ।। ११५१॥ अत एवाह नियुक्तिकार: सुबहु पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि १ ॥११५२॥ सुबहपि श्रुतमधीतं चरणविहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोठ्यपि प्रदीप्ता न किश्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात तयादिकोटयोऽपि ॥ इति नियुक्तिगाथार्थः ॥ ११५२ ॥ अथ भाष्यम् संत पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ ११५३ ॥ . आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सत्क्रियापरिहीशी झुडति ज्ञामी यथाऽज्ञानी ॥ ११५०॥ तु मत-- नैश्चयिकनयमतेनाऽज्ञान्येव स जानमपि । ज्ञानफलाभावात् कूर्म इव मित्रुडेद् भवौघे ॥ ११५१॥ २ क. ग. 'रामर'। ३ सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता वीपशतसहस्त्रकोटिरपि ? ॥ ११५२॥ सदपि तदज्ञान ज्ञानफलाभावतः सुबहुकमपि । सस्क्रियापरिहोणमम्धस्य प्रदीपकोदिरिव ॥ ११५३॥ गताथैव ॥ ११५३ ।। अत्र प्रेयमुत्थाप्य परिहरति अंधोऽणवबोहोच्चिय बोहफलं पुण सुयं किमण्णाणं ?। बोहो वितओ विफलो तस्स जमंधस्स व बबोहो ॥११५४॥ - आह-नन्वत्र दृष्टान्त-दान्तिकयोवैषम्यमेव, यतोऽन्धोऽनववोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधववोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिञ्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनववोध एवेति भावः, यथाऽन्धस्य 'अववोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥ व्यतिरेकमाह अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५। अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलवाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम्। यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्पतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थः॥११५५ ॥ भाष्यम्"किरियाफलसंभवओ अप्पं पि सुयं पगासयं होइ। एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संवन्धयन्नाहन हि नाणं विफलं चिय किलेसफलयं पि चरणरहियस्स।निष्फलपरिवहणाओ चंदणभारो खरस्सेव ॥११५७॥ , अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् ।। बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥११५४ ॥ २५. छ. 'दबो' । ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥ ४ क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ १५ ॥ ५ न हि ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः खरस्येव ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339