Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
www.kobatirth.org
an Mahavir Jain Aradhana Kendra
257 विशेषा० सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम् , न पुनरेक क्रियारूपं कारणमिष्यते । । न खाग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः ॥ ११३८॥
यदुक्तम्- 'रागादिविणिग्गहो जो यति' । तत्राह- .
रोगाइसमो संजमकिरिय च्चिय नाणकारणा होज । तीसे फले विवाओ तं तत्तो नाणसहियाओ॥११३९॥
रागादिशमो रागादिनिग्रहस्तावत् संयमक्रियैव भण्यते, नापरं किश्चित् । सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणा ज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्रतिपत्तिः। किन्तु यत् तस्याः समनन्तरं मोक्षादिक फलमुपजायते तत्र विवदामः, तथाहि-तरिक ज्ञानादेव केवलादुपजायते, आहोस्थित् केवल क्रियातः, उत ज्ञान-क्रियोभयात् ? इति त्रयी गतिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवतापि क्रियोत्पत्तेरभ्युपगमात् । नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियानोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एन पक्षो युज्यते, अत एवाह 'तं तत्तो नाणसहियाउ त्ति' तद् मोक्षादिकार्य ततस्तस्याः क्रियायाः सकाशा दुत्पद्यते । कथंभूतायाः ?, ज्ञानसहिताया इति ॥ ११३९ ॥
यदुक्तम्- 'जं च मणोचिन्तियमंतपूयेत्यादि । तत्राह- ...
परिजवणाई किरिया मंतेसु वि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमक्किरियं ॥११४०॥
विषयात-नभोगमनादिहेतष मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं कार्यसाधिकेत्यर्थः न त तन्मात्र पन्त्रमात्रमेव तत्साधकम् । अथाभिधत्से- ननु प्रत्यक्षविरुद्धमिदम्, यतो दृष्टं कचिद् मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम् । इत्याहतज्ज्ञानाच केवलाद् मन्त्रानुस्मरणज्ञानाच न तत्फलम् , येन कारणेनाऽक्रियमेव तज्ज्ञानम् , अमूर्तत्वात् , यच्चाक्रियं न तत् कार्याणि कुरुते, यथाऽऽकाशम् , अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ?; यच्च करोति तत् सक्रियं दृष्टम् , यथा कुलालः, न चैवं ज्ञानम् , इति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम् । न हि क्रियासाहाय्यरहितं ज्ञानं कचिदपि फलमुपाहरदुपलभ्यत इति॥११४०॥
. अथ प्रेर्यमाशङ्कय परिहरनाह१ क. ग. 'हप्रस्त' । २ गाथा ११३४ । ३ रागादिशमः सयमक्रियेव ज्ञानकारणा भवेत् । तस्याः फले विवावस्तत् ततो शानसहितायाः ॥ ११३९॥ ४ घ. छ. 'यस्याः'। ५ गाथा ११३५। ६ परिजपनादिः क्रिया मन्नेष्वपि साधनं न तन्मात्रम् । तज्ज्ञामतश्च म फलं तज्ज्ञानं येनाऽक्रियम् ॥११५०॥
तो तं कत्तो, भन्नइ तं समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स ॥११४१॥
यदि केवलमन्त्रज्ञानकृतं नभोगमनादिकार्य न भवति, ततस्तहिं कुतस्तत् । इति वाच्यम् । भण्यतेऽत्रोत्तरम्- तद्नयोगमनादिकार्य समयनिवद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात् , ततो न ज्ञानोपयोगमात्रस्यैव फलमिति । इदमुक्तं भवति-समयः संकेतस्ततो यत्र यत्र देवतानां समये संकेते उपनिबद्धा मन्त्रास्तत् तद् देवताकृतमेव तत्तत् फलम् , देवताश्च सक्रिया एव । अतः सक्रिय
वताभिरुपाहृतं सत् तक्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् । .. आह- ननु देवताहानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद् भवति, न वा, इति वक्तव्यम् । यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते ।। अथ न भवति, तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् ।। अत्रोच्यते-देवताहानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात्, किन्तु पुनः पुनस्तमपन-पूजनादिक्रियासहायात् तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति ॥ ११४१॥
आह-किं ज्ञानं सर्वथैव निष्क्रियम् ?, किंवा कांचिदेव विशिष्ट क्रियामधिकृत्य तनिष्क्रियम् इति । अत्रोच्यते- वस्तुपरिच्छेदमात्र तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति, यत्तु विशिष्टं मोक्षलक्षणं कार्य, निर्वतकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाह--- .. वैत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिढे सुद्धं चिय जं तओऽभिहियं ॥११४२॥ 'किरियाफलं ति' क्रियैव फलं यस्य तत् क्रियाफलम् । शेषं सुगमम् ।। इति षोडशगाथार्थः ॥ ११४२ ।। किं पुनरभिहितम् ?, इत्याह-.. सुयनाणम्मि वि जीवो वर्सेतो सो न पाउणइ मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥११४३॥ श्रुतज्ञानेऽपि, अपिशब्दाद् मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन् न पामोति मोक्षम् , इत्यनेन प्रतिज्ञार्थः सूचितः। यः कथं
१ ततस्तत् कुतो, भण्यते तत् समयनिवदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ।। ११४॥२ क. ग'कियां सम' । ३ वस्तुपरिच्छेदफलं भवेत् क्रियाफलं च ततो ज्ञानम् । न तु निर्वतकमिष्टं शुद्धमेव यत् ततोऽभिहितम् ॥११४२॥ १ श्रुतज्ञानेऽपि जीवो वर्तमानः स म प्रामोति मोक्षम् । यस्तपः-संयममयान् योगान् म शक्नोति पीतम् ॥१३॥
For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339