Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
256 विशेषा० लाभे वि जस्स मोक्खो न होइ जस्स य स होइ स पहाणो। एवं चिय सुद्धनया निव्वाणं संजमं बेंति ॥११३२॥
यस्य मत्यादिज्ञानपञ्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः । यल्लाभानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानाः शुद्धनया ऋजुमूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात् । न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तम्
___ 'तैवसंजमो अणुमओ निग्गंथं पवयण च वबहारो । सद्द-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ इति ॥११३२॥ प्रेरकः माह
आह पहाणं नाणं न चरितं, नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं जम्हा॥११३३॥
ज्ञानवादी पाह- ज्ञानमेव प्रधान मोक्षकारणम् , न चारित्रम् । यदिवा, शुद्ध ज्ञानमेवैकं मोक्षस्य कारणं, न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकार्यमेव । ततश्च यथा मृत्तिका घटस्य कारणं भवन्त्यपि तदपान्तरालवर्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविना सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम् , तथा शेपमपि यक्रियानन्तरभावि मोक्षादिकम् , यन्च कियाया अर्वाग्भावि बोधिलाभकाले तत्यपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनप्रत्यक्षं मनश्चिन्तितमहामन्त्रपूतविपभक्षण-भूत-शाकिनीनिग्रहादिकं तत् सर्वे कियारहितस्य ज्ञानस्यैव कार्यम् । अतो दृष्टनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥ ११३३॥
एतद् दर्शयन्नाहजह सा नाणस्स फलं तह सेस पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥११३४॥
१ लाभेऽपि यस्य मोक्षो न भवति, यस्य च स भवति स प्रधानम् । एवमेव शुद्धनया निर्वाणं संयम बुक्ते ॥ ११३२॥ . २ तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-र्जुश्रुतयोः पुननिर्वाण संयम एव ॥१॥
संवर। ३ आह प्रधानं ज्ञानं न चारित्रं, ज्ञानमेव वा शुद्धम् । कारणमिह न तु क्रिया सापि खलु ज्ञानफलं यस्मात् ॥ ११३३॥
४ यथा सा ज्ञानस्य फलं तथा शेषमपि तथा बोधकालेऽपि । ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च ॥ ११३४॥ जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पच्चक्खं किरियारहियरस नाणस्स ॥११३५॥ वे अप्युक्ताऽर्थे एव ॥११३४।। ११३५।।
एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः प्राहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥११३६॥
यनैव च यस्मादेव कारणात ज्ञानात क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते तत एव ते ज्ञानक्रिय द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात्, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव झगित्यभीष्टफलं केवलमपि प्रसाधयेत् , क्रियावदिति ॥११३६॥
अपिच,
नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥११३७॥
यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानन्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधानं कारणं युक्तम् । अथ : समकं युगपद् द्वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ ११३७ ॥
किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा?। यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात . क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह
कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? । सहचारित्ते व कहं कारणमेकं न पुणरेकं ? ॥११३८॥
नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम् ? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-ऽनन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तद्देवं हन्त ! द्वयोरपि
१ यच्च मनश्चिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलामह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ ११३५ ॥ २ येनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रियारहितमेव तत् प्रसाधयेत् ॥ ११३६॥ ३ ज्ञान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो वे युक्ते ॥ ११३७ ॥ ४ कारणमन्त्या मोक्नु क्रियामनन्त्यं कथं मतं ज्ञानम् ? । सहचारित्वे वा कथं कारणमेकं न पुनरेकम् ॥११३८॥
For Private and Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339