Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 विशेषा० निरुपमसुखाः सिद्धा, ज्ञाना-ऽनाबाधाप्रकर्षादिति, उपपत्तिमात्रता चेह आविद्वदङ्गनादिलोकमतीतस्य साध्य-साधनधर्मानुगतस्य कस्यचिद् दृष्टान्तस्य दर्शयितुमशक्यत्वात्। दृष्टाश्च प्रकृष्टज्ञानाः, राग-द्वेष-क्षुत्-पिपासा-परपरिभवादिभिर्मनोबाधारहिताश्च साधवः परमसु. खिनः, अतोऽतिप्रकर्षाप्तकेवलज्ञानरूपेण ज्ञानेन, सर्वथा निराबाधत्वेन च सह यद्यपि निरुपमसुखत्वस्येहाऽन्वयो न दृश्यते, तथापि गीतार्थप्रशान्तसाधुसुखित्वदर्शनमात्रेण निरुपमसुखसमृद्धिः सिद्धानां संभाव्यते, इतीहोपपत्तिमात्रतेति । अत्र च भाष्यकृता प्रथम हेतुाख्यातः, ततो दृष्टान्तः, प्रायेणेत्थमेव प्रयोगोपन्यासात् । नियुक्तिकृता तु प्रथम दृष्टान्तम्, ततो हेतुमुपन्यस्यतैतद् दर्शितं यदुत- अस्त्ययमपि न्यायो यत् कचि तुमनभिधाय दृष्टान्त एवोपदर्यते, यथा- गतिपरिणतानां जीव-पुदलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवदिति । तथा, कापि हेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा-मदीयोऽयमश्चः, प्रागस्मदृष्टविशिष्टचिह्नान्यथानुपपत्तेः । तथा चोक्तं नियुक्तिकारण 'जिणवयणं सिद्धं चेव भण्णइ कत्थइ उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिं च भासेजा ॥१॥' इति । 'एवमित्यादि' एवमुक्तस्वरूपाणि हेतू-दाहरण-कारणानि हेतू-दाहरण-कारणाभिधायकानि यानि पदानि तेपां निवहः संघातो यस्यां नियुक्तौ सा हेतू-दाहरण-कारणपदनिवहा तो वक्ष्य इति तात्पर्यम् । हेतू-दाहरणपदव्यत्यये तु कारणमभिहितमेव । अथवा, आहरणानि चहेतवश्चाहरण-हेतवस्तेषां कारणं वाचकत्वेन कारणभूतः पदनिवह एव यस्यां सा तथाभूता, तो वक्ष्य इति भावार्थ इति॥१०७७॥१०७८॥ अथोत्तरनियुक्तिगाथासंवन्धनार्थमाह ईय सव्वसंगहाईए जेणमावासयं अहिगयं च । सामाइयं च तस्स वि तो पढमं तस्स वुच्छामि ॥१०७९॥ यस्मात् 'आवासयस्स दसकालियस्स' इत्यादिकस्याऽस्य संग्रहस्यादावावश्यकमुपन्यस्तम्, तथेदमेव च यतोत्राधिकृतम् । तस्यापि च यस्मात् सामायिकं प्रथमम् । ततस्तस्यैव प्रथममुपोद्धातनियुक्तिं वक्ष्यामि ॥ इति गाथात्रयार्थः ॥ १०७९ ॥शं. ११०००) एतदेवाह नियुक्तिकारः । जिनवचनामिद्धर्मव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि के च भाष्येत ॥ १॥x कहचि -1 (कचिद) २ इति सर्वसंग्रहादी येनावश्यकमधिकृतं च । सामायिकं च तस्यापि ततः प्रथमं तस्य वक्ष्यामि ॥ १०७९ ॥ ३ गाया १९७४ । सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुञ्चीए ॥ १०८० ॥. सामायिकस्य नियुक्तिः सामायिकनियुक्तिः, तां वक्ष्ये । कथंभूताम् ?, उपदेशितामादौ तीर्थकर-गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाट्या- जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततः शय्यंभवादि भिः । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्य परम्परागतां पश्चात् स्वकीयेनैवाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टाम् ।। इति नियुक्तिगाथार्थः॥ १०८० ॥ 'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकार: जिण-गणहरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवद्दिढें ॥१०८१॥ जिन-गणधरलक्षणेन गुरुजनेन देशितम् , ततो जम्बूस्वाम्याधाचार्यपारम्पर्येणाऽऽगताम् । अथवा, जिन-गणधरेम्य आरभ्य जम्बस्वाम्याद्याचार्यपरम्परयाऽऽगतां सती पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्वाननियुक्ति वक्ष्यामि' इति प्रक्रम इति ॥ १०८१॥ 'परंपरएण' इत्यस्य भावार्थमाह उज्जेणीओ नीया जहिटगाओ पुरा परंपरया । पुरिसेहिं कोसंबि तहागएयं परंपरया ॥ १०८२ ॥ ययोज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारगद्भिरिष्टकाः प्राकारकरणहेतोः कौशाम्वी नगरी नीताः, तथैवेयमपि नियुक्तिराचार्यपरम्परयाऽऽगता । इत्यक्षरार्थः। भावार्थस्तु कथानकगम्यः । तच्चाऽऽवश्यकवृत्तिता विस्तरतोऽबसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किश्चिदत्रापि लिख्यते । तद्यथाअत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्व दिग्वधूकण्ठनिवेशितमुक्ताफलकाण्ठकेव कौशाम्बी नाम नगरी। तत्र च सहस्रानीकराज . सामायिकनियुक्ति वक्ष्य उपदेशितां गुरुजनेन । आचार्यपरम्परकेणाऽजातामानुपूया ॥१०८०॥ २ गाथा १०८० । ३ जिन-गणधरगुरुदेशितामाचार्यपरम्परागतां ततः। आगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ १०८१ ॥ उजयिनीनो नीता यथेष्टकाः पुरा परम्परया। पुरुषैः कौशाम्बी यथागतेयं परम्परया ॥१०४२॥ (तथागत) सामा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339