________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
247
विशेषा० निरुपमसुखाः सिद्धा, ज्ञाना-ऽनाबाधाप्रकर्षादिति, उपपत्तिमात्रता चेह आविद्वदङ्गनादिलोकमतीतस्य साध्य-साधनधर्मानुगतस्य कस्यचिद् दृष्टान्तस्य दर्शयितुमशक्यत्वात्। दृष्टाश्च प्रकृष्टज्ञानाः, राग-द्वेष-क्षुत्-पिपासा-परपरिभवादिभिर्मनोबाधारहिताश्च साधवः परमसु. खिनः, अतोऽतिप्रकर्षाप्तकेवलज्ञानरूपेण ज्ञानेन, सर्वथा निराबाधत्वेन च सह यद्यपि निरुपमसुखत्वस्येहाऽन्वयो न दृश्यते, तथापि गीतार्थप्रशान्तसाधुसुखित्वदर्शनमात्रेण निरुपमसुखसमृद्धिः सिद्धानां संभाव्यते, इतीहोपपत्तिमात्रतेति ।
अत्र च भाष्यकृता प्रथम हेतुाख्यातः, ततो दृष्टान्तः, प्रायेणेत्थमेव प्रयोगोपन्यासात् । नियुक्तिकृता तु प्रथम दृष्टान्तम्, ततो हेतुमुपन्यस्यतैतद् दर्शितं यदुत- अस्त्ययमपि न्यायो यत् कचि तुमनभिधाय दृष्टान्त एवोपदर्यते, यथा- गतिपरिणतानां जीव-पुदलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवदिति । तथा, कापि हेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा-मदीयोऽयमश्चः, प्रागस्मदृष्टविशिष्टचिह्नान्यथानुपपत्तेः । तथा चोक्तं नियुक्तिकारण
'जिणवयणं सिद्धं चेव भण्णइ कत्थइ उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिं च भासेजा ॥१॥' इति । 'एवमित्यादि' एवमुक्तस्वरूपाणि हेतू-दाहरण-कारणानि हेतू-दाहरण-कारणाभिधायकानि यानि पदानि तेपां निवहः संघातो यस्यां नियुक्तौ सा हेतू-दाहरण-कारणपदनिवहा तो वक्ष्य इति तात्पर्यम् । हेतू-दाहरणपदव्यत्यये तु कारणमभिहितमेव । अथवा, आहरणानि चहेतवश्चाहरण-हेतवस्तेषां कारणं वाचकत्वेन कारणभूतः पदनिवह एव यस्यां सा तथाभूता, तो वक्ष्य इति भावार्थ इति॥१०७७॥१०७८॥
अथोत्तरनियुक्तिगाथासंवन्धनार्थमाह
ईय सव्वसंगहाईए जेणमावासयं अहिगयं च । सामाइयं च तस्स वि तो पढमं तस्स वुच्छामि ॥१०७९॥
यस्मात् 'आवासयस्स दसकालियस्स' इत्यादिकस्याऽस्य संग्रहस्यादावावश्यकमुपन्यस्तम्, तथेदमेव च यतोत्राधिकृतम् । तस्यापि च यस्मात् सामायिकं प्रथमम् । ततस्तस्यैव प्रथममुपोद्धातनियुक्तिं वक्ष्यामि ॥ इति गाथात्रयार्थः ॥ १०७९ ॥शं. ११०००) एतदेवाह नियुक्तिकारः
। जिनवचनामिद्धर्मव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि के च भाष्येत ॥ १॥x कहचि -1 (कचिद)
२ इति सर्वसंग्रहादी येनावश्यकमधिकृतं च । सामायिकं च तस्यापि ततः प्रथमं तस्य वक्ष्यामि ॥ १०७९ ॥ ३ गाया १९७४ । सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुञ्चीए ॥ १०८० ॥.
सामायिकस्य नियुक्तिः सामायिकनियुक्तिः, तां वक्ष्ये । कथंभूताम् ?, उपदेशितामादौ तीर्थकर-गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाट्या- जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततः शय्यंभवादि भिः । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्य परम्परागतां पश्चात् स्वकीयेनैवाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टाम् ।। इति नियुक्तिगाथार्थः॥ १०८० ॥
'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकार:
जिण-गणहरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवद्दिढें ॥१०८१॥
जिन-गणधरलक्षणेन गुरुजनेन देशितम् , ततो जम्बूस्वाम्याधाचार्यपारम्पर्येणाऽऽगताम् । अथवा, जिन-गणधरेम्य आरभ्य जम्बस्वाम्याद्याचार्यपरम्परयाऽऽगतां सती पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्वाननियुक्ति वक्ष्यामि' इति प्रक्रम इति ॥ १०८१॥
'परंपरएण' इत्यस्य भावार्थमाह
उज्जेणीओ नीया जहिटगाओ पुरा परंपरया । पुरिसेहिं कोसंबि तहागएयं परंपरया ॥ १०८२ ॥
ययोज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारगद्भिरिष्टकाः प्राकारकरणहेतोः कौशाम्वी नगरी नीताः, तथैवेयमपि नियुक्तिराचार्यपरम्परयाऽऽगता । इत्यक्षरार्थः। भावार्थस्तु कथानकगम्यः । तच्चाऽऽवश्यकवृत्तिता विस्तरतोऽबसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किश्चिदत्रापि लिख्यते । तद्यथाअत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्व दिग्वधूकण्ठनिवेशितमुक्ताफलकाण्ठकेव कौशाम्बी नाम नगरी। तत्र च सहस्रानीकराज
. सामायिकनियुक्ति वक्ष्य उपदेशितां गुरुजनेन । आचार्यपरम्परकेणाऽजातामानुपूया ॥१०८०॥ २ गाथा १०८० । ३ जिन-गणधरगुरुदेशितामाचार्यपरम्परागतां ततः। आगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ १०८१ ॥ उजयिनीनो नीता यथेष्टकाः पुरा परम्परया। पुरुषैः कौशाम्बी यथागतेयं परम्परया ॥१०४२॥ (तथागत)
सामा
For Private and Personal Use Only