________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
248 विशेषा० मूनुः स्वकुलमहासरसरसिजायमानः शतानीको नाम राजा । तस्य च चेटकराजदुहिता श्रीमहावीरजिनक्रमकमलमधुकरी च भुवनातिशायिरूपा मृगापति म पट्टमहादेवी । अन्यदा च शतानीकनरपतिना निजमनाकुविकल्पसंभावितालीकापराधेन स्त्रनगरीनिवासिनस्तोषितसाकेतपुरपतिष्ठितसुरमियाभिधानयक्षावाप्तवरस्य निरपराधस्यैवैकस्य चित्रकरस्याऽङ्गुष्ठ-प्रदेशन्योरगं छेदितम् । ततस्तेन 'निरर्थकमपमानितोऽहम्' इति गाढं प्रकुपितेनोपायं विमृश्य स्वीलोलत्वादतिबलिष्ठत्वाच्चोज्जयिनीनिवासिनश्चण्डप्रद्योतनरनाथस्य चित्रफलके वरलब्धतया यथावस्थितं मृगापतिरूपं प्रदर्शितम् । ततस्तेनातिमदनपरवशेन तद्याचनाय शतानीकान्तिके दूतःप्रेषितः। स च शतानीकेन बाढमपमान्य निर्भप च विसर्जितः । ततस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेकभटकोटिस्वामिभिर्बद्धमुकुटैश्चतुर्दशभिर्भूपालैः, महता खवलेन च सह प्रचलितः शतानीकस्योपरि । तं च तथा महाबलभरेणाऽऽगच्छन्तं श्रुत्वा, आत्मानं चारपसामग्रीकं ज्ञात्वा हृदयसन संजातातीसाररोगः पश्चत्वमुपगतः शतानीकः ।
प्रदेशि-1+ पति-1 स्थानाततो मृगापत्या चिन्तितम्- धिङ् मम रूपम् , यदर्थ मद्भर्तुस्तावद् मरणमागतम् । न चैतावता स्थास्यनीदम् , किन्तु भवकोटीष्वप्यतिदुरवापं श्रीमन्महावीरोपदेशतः सुचिरमनुपालितं मम शीलाभरणमपि विलुप्येत लग्नम् । तस्मादुपायमत्र चिन्तयामि, इति विसश्यन्त्याः स्वबुद्धिलब्धसम्यगुपायया चण्डप्रयोतस्योगकछता दूरस्थितस्यैव निरूपितः संमुखो दूतः। तेन च गत्वा मृगापतिवचनात मोक्त यथा- राजन् ! मृगापतिर्भाणयति यद्- भर्तरि मृते स्वाधीनैव तावत् तवाहम् , परं किन्त्वद्यापि राजा बाल एवाऽयमुदायननापा मत्पुत्रः । ततो यद्यस्य सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि, तदा सीमालराजादिभिरसौ परिभूयते । तस्मादिहैव दूरे स्थितोऽमुं सुस्थ कुरु । अथास्मिन्न कृतेऽप्येवमेवाऽवोग मदेशसीमायां समेष्यसि, तदा विषादिप्रयोगतो मरिष्यामि। स्य
__ ततश्चण्डप्रद्योतेनोक्तम्- माय विद्यमाने न कोऽप्यस्य संमुखमप्यपलोकयिष्यति । ततो दूतेनोक्तम्- नैवम् , यत उच्छीर्षस्थितविषधरस्य योजनशतस्थायी वैद्यः किं कुरुते ?, तस्मात् सुस्थं कुरु । तेनोक्तम्- कथं पुनरेतत् संपाते । ततो दूतेनोक्तम्- उज्जयिनीनगरीसत्का बलिष्ठा इष्टका भवन्ति, ताभिः कौशाम्म्याः प्राकारं कारय । उज्जयिन्याश्चातिरे कौशाम्बी, ततो गन्यादिवाहनैरिष्का आनेतुं न शक्यन्ते । अतः पदातिपुरुषप्राचुर्याच्चण्डप्रद्योतेन तान् परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेणष्टका आनाय्य कारितः कौशाम्ब्याः प्राकारः। ततो मृगापत्या पोक्तम्- धान्य-जल-तृणादिकं यथा नगरीमध्ये प्रचुरं भवति तथा कारय । ततो रागान्धत्वेन नष्टबुद्धिना तेन सर्व तत् तथैव कारितम् । ततो रोधकसज्जायां तस्यां नगर्यो संजातायां व्यभिचरिता मृगापतिश्चण्डप्रद्योतस्य । ततो नगरीद्वारे समायातो विलक्षीभूतस्तिष्ठत्यसौ। ततो मृगापत्या चिन्तितम्- पुत्रराज्योपद्रवव्यतिकरे निश्चिन्ता संजानाऽहं तावत , ततो धन्यास्ते ग्राम-नगरादिप्रदेशा येषु भगवान् महावीरो विचरति धन्यश्च स एव लोको यस्तत्पादरजोरञ्जितभालतलः सततं तदन्तिकोपासीनस्तचापीयूषवृष्टिभिनिर्वाप्यमानः कालं निर्वाहयति तद् यद्यत्र कथमपि भगवान् समागच्छति, ततोऽवलोकितातिदुरन्तसंसारवैरस्याऽहमप्येतत् करोमि, प्रव्रज्यां चाऽभ्युपगच्छामि । एतच्च तदाकूतं विज्ञाय समागतस्तत्र भगवान् । मृगापतिश्चण्डप्रद्योतश्च तत्र वन्दनार्थमुपगतः । धर्मकथावसाने च मृगापत्या व्रतग्रहणार्थ चण्डप्रद्योतो मुत्कलापितः । तेनापि भगवल्लज्जया तस्याश्च सदेव-पा-मुरायाः परिषदो लज्जमानेन सा मुत्कलिता, प्रव्रजिता च ।
तदेवं यथोज्जयिन्याः पुरुषपरम्परया कौशाम्म्यामिष्टकाः समायाताः, तथेयमपि नियुक्तिराचार्य परम्परयात्र समायाता, केवलमिष्टकोदाहरणे द्रव्यपरम्परकः, प्रस्तुतस्तु भावपरम्परक इति ॥ १०८२ ॥ अत्र प्रेरकः पाहदेवस्स परंपरओ जुत्तो भावसुयसंकमो कत्तो ? । सदो वि नागओऽयं स एव जिण-गणहरुञ्चरिओ ॥१०८३॥
ननु द्रव्यस्येष्टकादेः पुरुषपारम्पर्येणागमनरूपः परम्परको युक्तः, निर्युक्तेस्तु भावश्रुतरूपायाः संक्रमः कुतः ?- न घटत एवे. त्यर्थः, भावश्रुतस्य जीवपर्यायत्वात् , पर्यायस्य च वस्त्वन्तरसंक्रमायोगात् । अथ ब्रूयात्- भावश्रुतकारणस्य शब्दात्मकस्य द्रव्यश्रुतस्येत्थपागमनसंभवाद् भावश्रुतेऽप्युपचारादागतव्यपदेशः क्रियते । एतदप्ययुक्तम् , यतः शब्दोऽपि य आदौ जिन-गणधरैरुचरितः, न स एवायमत्राऽऽयातः, तस्योच्चारणानन्तरमेवोपरमात् । इति कुतस्तमप्याश्रित्याऽऽगतव्यपदेशः ? इति ॥ १०८३ ॥
अत्र प्रतिविधानमाह--
आगयमिवागयं तं तत्तो जत्तो समुब्भवो जस्स । स परंपरओ य जओ तमागयमिओ तदुवयारो ॥१०८४॥
'जत्तो त्ति' यतो यस्माद् रूपकादेर्घटादेर्वा सकाशाद् यस्य भोजनादे रूपादिविज्ञानस्य वा समुद्भव उत्पत्तिः 'तं ति तद् भोजनादिकं रूपादिज्ञानं वा वस्तु 'तत्तो त्ति' ततो रूपकादेर्घटादेर्वा सकाशादागतमिवाऽऽगतमुच्यते, हिमवतः समागतगङ्गाप्रवाहस्येव
, व्यस्य परम्परको युक्तो भावश्रुतसंक्रमः कुतः ? । शब्दोऽपि नागतोऽयं स एव जिन-गणधरोचरितः ॥ १०८३ ॥ २ आगतमिवागतं तत् ततो यतः समुद्भवो यस्य । स परम्परातश्च यतस्तदागतमितस्तदुपचारः॥ १०८४ ॥
For Private and Personal Use Only