Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 243 विशेषा ० इत्यादिग्रन्याभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीषाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्त्वादुत्तमक्षमा मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेषामिति ।। १०४८ 'अणुत्तरपरिक' इत्येतद् विवृण्वन्नाह विरियं परिक्कमो कि परेऽरयो वा जओ तदकमणं । सोऽणुत्तरो वरो सिं अणुत्तरपैराक्कमा तो ते ॥१०४९ ॥ Acharya Shri Kailassagarsuri Gyanmandir पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिः शेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कषायादयः 'जउ ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम्, ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति ।। १०४९ ।। 'अमितज्ञानिनः' इति व्याख्यानयन्नाह- अमियमणतं नाणं तं तेसिं अभियणाणिणो तो ते । तं जेण नेयमाणं तं चाणतं जओ नेयं ॥ १०५० ॥ अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्थाssनन्त्यमित्याह - तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् तच्च ज्ञेयं सर्वमपि यतोऽनन्तम्, अतः केवलज्ञानस्यानन्त्यमिति ।। १०५० ।। १ गाथा १०२५ । 'ति सुगइगइगए' इत्येतद् व्याख्यानयति- तिण्णा समइता भवण्णवं, कं गई गया तरिउं ? । सुगईण गई पत्ता सुगइगइगया तओ होंति ॥ १०५१ ॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदधिं तीर्त्वा ततस्ते कां गतिं गताः १, इत्याह- 'सुईणेत्यादि ' ज्ञानि २ वीर्य पराक्रमः किल परेऽरयो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥ १०४९ ॥ पर-1 ३. अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तथाऽनन्तं यतो ज्ञेयम् ॥ १०५० ॥ ४ तीर्णाः समतिक्रान्ता भवार्णवं, कां गतिं गतास्तीयों ? सुगतीनां गतिं प्राप्ताः सुगतिगतिगतास्ततो भवन्ति ॥ १०५१ ॥ वे सति साधनिर्मुक्तत्वात् परमसुखिनः सुगतयः सिद्धाः तेषां सुगतीनां सिद्धानां तैर्गम्यमानत्वाद् गतिः सिद्धिलक्षणा, न तु नरकगत्यादिका सुगतिगतिः, तां गताः प्राप्ताः, सुगतिगतिगतास्तानिति ।। १०५१ ।। "सिद्धिपहपएसए' इत्येतद् व्याख्यानयन्नाह - सेत्रिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे । तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥ १०५२ ।। सिद्धानां संबन्धिनी येयमनन्तरगाथायां सुगतिगतिरुक्ता, सैवेह सिद्धिरभिप्रेता, तस्याः सिद्धेर्यः पन्था वक्ष्यमाणज्ञान-दर्शनचारित्रलक्षणः स सिद्धिपथः, तस्य सिद्धिपथस्य यतः प्रधानाः प्रकृष्टा आदौ वा देशकाः प्रदेशकास्ततः सिद्धिपथप्रदेशकास्ते, अतस्तानिति ।। १०५२ ॥ सिद्धिपथप्रदेशका इत्युक्तम्, तत्र कोऽयं सिद्धिपथः १, इत्याशङ्क्य भाष्यकार एव तमाह सिद्धि हो उण सम्मत्त-नाण चरणाई वक्खमाणाई । भवहे उविवक्खाओ निदाणपडिकूलं किरिय व्व ॥ १०५३ ॥ सिद्धेस्तु पन्था इहैव वक्ष्यमाणानि सम्यक्त्व श्रुत चारित्रसामायिकलक्षणानि सम्यक्त्व ज्ञान चारित्राणि । कुतः १, इत्याह'भवेत्यादि । इदमुक्तं भवति- मुक्तेर्मार्गो मुक्तेः साधकानि सम्यक्त्व -ज्ञान- चारित्राणीति प्रतिज्ञा, भवस्य संसारस्य या मिथ्यात्वाज्ञानाऽविरतिलक्षणो हेतुस्तद्विपक्षत्वात् तद्विघातकत्वात् सम्यक्त्वादीनामिति हेतुः । इह यो यद्धेतुविपक्षस्वभावः स तद्विपक्षस्य साधको दृष्टः, यथा रोगनिदानस्याऽजीर्णादेर्लङ्घनादिका प्रतिपक्षभूता क्रिया नीरोगत्वस्य साधनी, भवहेतुविपक्षभूताश्च सम्यक्त्वादयः, ततो referrer मोक्षस्य साधका इति । अथवा, अन्यथा प्रयोगः क्रियते- इष्टार्थप्रसाधकमेव सम्यक्त्वादित्रयमिति प्रतिज्ञा, इष्टार्थविघातकहेतुविपक्षत्वादिति हेतु:, इह यो यस्य विघातहेतूनां विपक्षस्वभावः स तस्य साधको दृष्टः, यथा नीरोगताविघातकस्याऽजीर्णादेः प्रतिपक्षभूता लङ्घनादिक्रिया नीरोगतासाधनी, इष्टार्थस्य मोक्षस्य विघातकानां मिथ्यात्वादीनां विपक्षभूताच सम्यक्त्वादयः, ततो मोक्षलक्षणस्येष्टार्थस्य साधका इति ।। १०५३ ।। १ गाथा १०२५ । २ सैव सुगतीनां गतिः सिद्धिः सिद्धानां यः पथस्तस्याः । तद्देशकाः प्रधानं सिद्धिपथप्रदेशकास्ततस्तान् ॥ १०५२ ॥ ३ सिद्धिपथः गुनः सम्यक्त्व-ज्ञान चरणानि वक्ष्यमाणानि । भवहेतुविपक्षाद् निदानप्रतिकूलक्रियेव ॥ १०५३ ॥ x ना - 1 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339