Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 218
________________ MI Jl Ranna Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 211 विशेषा० अथवा, देशवचनोऽपि भवत्पत्र नोशब्दः, न कश्चिद् दोषः, इति दर्शयभाह-- 'अविसेसियसंमिस्सोवओगदेसु त्ति वा सुयं काउं । नोआगमभावसुए नोसदो होज देसे वि ॥ ८९० ॥ अविशेषितश्चासौ ज्ञान-दर्शन-चारित्राणां परिपूर्णघटादिरिवाऽखण्डः संमिश्रीपयोगश्चाविशीपतसंमिश्रोपयोगस्तस्य घटादेवादिरिव श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावभुते विचार्ये नोशब्दो देशेऽपि युज्यते । इदमुक्तं भवति- यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादिनॊघट उच्यते , एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम् ॥ ८९० ॥ अथ मतान्तरमुपदर्य परिहरनाह 'नोआगमओ केई सदसहायमुवआगमिच्छति । नणु सुतरमागमत्तं हि दव्व-भावागमे जुत्तं ॥ ८९१ ॥ केचिदाचार्याः शब्दसहाय श्रुतोपयोग नोआगमतो भावश्रुतमिच्छन्ति । अयमभिप्रायः- श्रुतोपयोगपूर्वक ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् । तत्र किलोपयोग-शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात् , शब्दनिरपेक्ष तूपयोगमात्रमागमतो भावश्रुतमिति । एतच्चायुक्तमिति दर्शयति- 'नवित्यादि' नन्वत्र हि स्फुटं श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम् । आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः, आगया-ऽनागमसमुदाय एवं तस्य युज्यमानत्वादिति भावः ॥ ८९१ ॥ पराभिमायमेवाशङ्कय निराचिकीर्षुराहअह नागमो त्ति सदो नोआगमया य तदहियत्तणओ । आगमओ दव्वसुयं किह सद्दो नागमो जइ सो १ ॥८९२। अथ परो मन्येत- शब्द आगमो न भवति, तत उपयोगस्य तदधिकत्वादनागमरूपशब्दाधिकत्वात् नोआगमता, आगमा-ऽना, गमसमुदाये आगमस्यैकदेशत्वाद् नोआगमत्वमित्यभिप्रायः। अत्र मूरिराह- हन्त ! यद्यसौ शब्द आगमो न भवति तागमतो द्रव्यश्रुतं १ अविशेपितसंमिश्रोपयोगदेश इति वा श्रुतं कृत्वा । नोआगमभावश्रुते नोशब्दो भवेद् देशेऽपि ॥ ८९० ॥ २ क.ग. 'देसो त्ति'। ३ नोआगमतः केचित् शब्दसहायमुपयोगमिच्छन्ति । ननु सुतरामागमत्वं हि द्रव्य-भावागमयोयुक्तम् ॥ ८९१ ॥ ४ प.छ. 'व यु'। ५ अथ नागम इति शब्दो नोभागमता च तदधिकत्वतः । आगमतो द्रव्यश्रुतं कथं शब्दो नागमो यदि सः ॥ ८९२ तकथमष) स्यात् । सुमतीतमप्यस्येत्थमागमतो द्रव्यश्रुतत्वं न स्यात् , अनांगमत्वात् । तस्माद् द्रव्येत आगम एवाऽयम् , अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम् , न तु नोआगमत इति स्थितम् ॥ ८९२ ॥ अथान्यदपि मतान्तरमुपन्यस्य दूपयति अन्ने नोआगमओ सामित्ताणासियं सुयं बोंत । जइ न सुयमणुवओगे नणु सुयरमणासियं नत्थि ॥८९३॥ . अन्ये तु केचनाऽप्याचार्याः स्वामिनमाश्रितं श्रुतोपयोग भावश्रुतं युवते, खाम्यनाश्रितं तु तमेव नोआगमतो भावभुतं ब्रुवते, एतच्चातिफलवेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम् , किन्तु विशिष्टेऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरामेवाऽनाश्रितं भावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात् , उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात् । 'स्वाम्यनाश्रितं च श्रुतं काप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किनिदेतदिति । तदेवमुक्तं नोआगमतोऽपि भावश्रुतम् ॥ ८९३ ॥ अथ श्रुतस्यैकार्थिकनामान्याह सुय-सुत्त-गंथ-सिहंत-सासणे आण-वयण उवएसो । पण्णवण आगमो वि य एगट्ठा पज्जया सुत्ते ॥८९४॥ एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति । तदेवं विहितः श्रुतस्यापि नामादिन्यासः॥८९४ ॥ अथ स्कन्धस्य तमभिधातुमाह खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दव्वखंधो उ । नोआगमओ जाणय-भव्वसरीरा-इरित्तोऽयं ॥८९५॥ इहापि नाम-स्थापने मुखप्ररूपणीयत्वाद् नोक्ते । द्रव्यस्कन्धस्त्वागमतः स्कन्धपदेऽनुपयुक्तो वक्ता । नोआगमतस्तु ज्ञशरीरद्रव्यस्कन्धः, भव्यशरीरद्रव्यस्कन्धः, तदुभयव्यतिरिक्तद्रव्यस्कन्धश्चेत्येवं त्रिविधोऽयमिति ॥ ८९५॥ तत्र व्यतिरिक्तद्रव्यस्कन्धः सचित्तादिभेदात पुनरपि त्रिविध इति दर्शयति जाये नोभागनतः वामाशित शुनं युवन्ति । यदि न श्रुतमनुपयोगे ननु सुतरामनाश्रितं नास्ति ॥ ८९३ ॥ २ श्रुत-सूत्र-मन्ध-सिद्धान्त-शासनानि भाक्षा-वचने उपदेशः । प्रज्ञपनमागमोऽपि चकार्थाः पर्ययाः सूत्रे ॥ ८९४ ॥x । स्कन्धपदेऽनुपयुक्तो वक्ताऽऽगमतः स वयस्कन्धस्तु । नोआगमतो शायक-भव्यशरीरा ऽतिरिक्तोऽयम् ॥ ८९५ ॥+सत्य त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339