Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
224
विशेषा० द्रव्यानुयोगः । नयविचारधार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य पायो नयेगातार इति ।। ९५०॥:
संख्याप्रमाणे सर्ववतरतीदं नवा', इत्याह
'संखामाणे कालियसुयपरिमाणे परित्तपरिमाण । सुयओ तवत्थओं पुण भणियं तमणंतपज्जायं ॥ ९५१ ॥
संख्या नाम स्थापना-द्रव्य-क्षेत्र-कालौ-पम्य-परिमाण-भावभेदाऽनुयोगद्वारेयष्टया मोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा. र्यमाणे कालिकश्रुतपरिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम् -मत्रता, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययन, परी संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायस्वादनम्सपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्त संक्षेपतः ॥ ९५१ ॥
अथ वक्तव्यतामभिधित्सुराह
सेमओ जो सिद्धतो सो स-परो-भयगओ तिविहभेओ । तत्थ इमं अज्झयणं ससमयवत्तव्ययानियय॥९५२।
यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविधः- स्वसमय-परसमयी-भपसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता- स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामाविकाध्ययनं स्खसमयवक्तव्यतानियतं, खसमयस्यैवेह प्रतिपाद्यमानत्वादिति ॥ ९५२ ॥
न केवलमिदमध्ययनम् , किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतामियताम्येव । कुतः, इस्याह
परसमओ उभयं वा सम्मदिहिस्स ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तध्वनिययाइं ॥९५३॥
यतः परसमया, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावहिषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-सपयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि खसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ॥ ९५३ ।।
१ संख्यामाने कालिकश्रुतपरिमाणे परीत्तपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥१५॥ २ ममयो यः सिद्धान्तः स स्व-परो-भयगतप्रिविधभेदः । तदमध्ययनं स्वसमवनक्तव्यतानियतम् ॥ ९५२ ॥ ३ परसमय भयं वा सम्बरष्टः स्वसमयो मेन । सतः सर्वाध्ययनामि खसमयवक्तव्यनिषतानि ॥ ९५५॥
किञ्च
'मिच्छत्तमयसमूहं सम्मत्तं जं च तदुवगारम्मि । वट्टइ परसिद्धतो तो तस्स तओ ससिद्धंतो ॥ ९५४ ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-ऽक्षणिकत्वादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात सम्यक्त्वम, नान्यत् । यस्माच्च तस्य स्वसमयस्योपकारस्तदुपकारस्तस्मिन् वर्तते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्च सवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैर्यसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेव सम्यग्दृष्टेः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एव इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम । तदेवमभिहिता वक्तव्यता ।। ९५४ ॥
अथार्थाधिकारमभिधित्सुराह
सावज्जजोगविरई अज्झयणत्थाहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्बयादेसो ॥९५५॥
इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थों भण्यत इति प्रागप्युक्तमेव । स एव च खसमयनतव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः॥ ९५५॥
अथ सपवतारमभिधित्सुराह
अहुणा य समोयारो जेण समोयारियं पइदारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ ९५६ ॥
अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवउ त्ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् १, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानी पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ
, मिथ्यात्वमनसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ ९५४ ॥ २ प. छ. झ. 'त्तसमूहमयं स'।
३ क. ग. 'दिम'। '४ सावधयोगविरतिरध्ययनार्थाधिकार इह सच । भण्यते समुदायार्थः स्वसमयवक्तव्यतादेशः॥ ९५५ ॥ ' ५ अधुना च समवतारो येन समवतारितं प्रतिद्वारम् । सामायिकं सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ ९५६ मिन(मधि)-1
For Private and Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339