Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 231 विशेषा० परिहारान्तरमाह नासरस व संबंधणमुवक्कमोऽयं तु सुत्तवक्खाए । संबंधोवग्धाओ भण्णइ जं सा तदंतम्मि ॥ ९९४ ॥ अथवा, न्यासस्थाऽध्ययनसंबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्पतिपादनात् । अयं तूपोद्धातः सूत्रव्याख्यायाः संबन्धस्तद्योग्यताव्यवस्थापनरूपः, यद् यस्मात् तदन्ते उपोद्घातान्ते सैव मूत्रव्याख्या भण्यते । इत्युपक्रमोपोद्वातयोविशेषः । तदेवमाभिहित संक्षेपेणोपोद्धातनियुक्तर्भावार्थमात्रम् । विस्तरार्थस्तु पुरस्तादभिधास्यते ॥ ९९४ ॥ अथ मूत्रस्पर्शिकनियुक्तेरवसर, तदाह सेंपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं। तीसेऽवसरो सा उण पत्ता विण भण्णए इह॥९९५॥ यत् सूत्रस्य व्याख्यानं सा सूत्रस्पर्शिकनियुक्तिः। सूत्रं व्याख्यानहेतोः स्पृशतीति मूत्रस्पर्शिका, सा चासो नियुक्तिश्च सूत्रस्पशिकनियुक्तिरित्यर्थः । सांप्रत तस्या भणितव्याऽवसरः, परं सा क्रममाप्ताऽपि नेह भण्यते ॥ ९९५ ।। अत्र विनेयपश्रमाशङ्कयोत्तरमाह 'किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छिइ होहिइ तीए तया भागो॥९९६॥ कि कारणम् , येन क्रमप्राप्तापि नेहासौ भण्यते । । उच्यते- येनाऽसति सूत्रे 'कस्स तई त्ति' कस्य सा प्रवर्तते ? । सूत्रं हि स्पृशतीति सूत्रस्पर्शिका भण्यते, तच्च नास्ति, तत्कथं तदवसरः । कदा पुनरसौ तर्हि भविष्यति ?, इत्याह- 'तमित्यादि' तत् मूत्र क्रमप्रामे मूत्रानुगमे यदा वक्ष्यति, तदा तस्यास्तदर्थव्याख्यारूपत्वाद् भागोऽवसरो भविष्यति, नाचोम् ॥ ९९६ ॥ पुनराह प्रेरकःअत्थाणमिदं तीसे जइ तो सा कीस भण्णए इहई । इह सा भण्णइ निज्जुत्तिमेत्तसामनओ नवरं॥९९७॥ १ न्यासस्य वा संबन्धनमुपक्रमोऽयं तु सूत्रव्याख्यायाः । संबन्ध उपोदातो भण्यते यत् सा तदन्ते ॥ ९९४ ॥ २ संप्रति सूत्रस्पर्शिकनियुकिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्तापि न भण्यत इह ॥ ९९५ ॥ कि यमामति सूत्रे कस्य मा तद् यदा क्रमप्राप्ले। सूत्रानुगमे वक्ष्यते भविष्यति तस्यास्तदा भागः ॥ ९९६ ॥ ४ अर्थानामिदं तस्या यदि ततः सा कस्माद् भण्यत इह । इह सा भण्यते नियुक्तिमात्रसामान्यतो मवरम् ॥ ९९७ ॥ तस्याः मूत्रस्पर्शिकनियुक्तर्य घेतदस्थानम् , ततः सा किमितीह भण्यते ? इति । अत्राह-नत्ररमिह नियुक्तिभणनप्रस्ताचे सा नियुक्तिमाम्यमात्रा भण्यते, न तु मूत्रस्पर्शिकत्वेन प्रवर्तते, मूत्रस्याऽयाप्यसच्चादिति । तदेवं त्रिविधापि नियुक्तिरुक्ता। ततो नियुक्त्यनुगमः समर्थितः ॥ ९९७ ।। सांगतं मूत्रानुगमो भणनीयः, इति तमेव संवन्धयाह 'तेणेदाथि सुत्तं सुत्ताणुगमेऽभिधेयमणवजं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ ९९८ ॥ येन मत्रे सत्येव मूत्रस्पर्शिकनियुक्तिः प्रवर्नते, तेनेदानी मूत्रानुगमे क्रमप्राप्ते मूत्रपभिधेयम् । कथंभूतम् , अनवद्यम्- ऊनाधिक्थादिदोषावद्यरहितम् । पुनः कथंभूतम् ?, अस्खलितादिविशुद्धम्- स्खलित-मिलितादिवक्तृषणविशुद्धम् । सह वक्ष्यमाणेन लक्षणेन प्रवर्नत इनि सलक्षणम् । तच्च लक्षणमिदम् ॥ ९९८ ॥ किं तत् ?, इत्याह-- अप्परग्रंथ-महत्थं बत्तीसादोषविरहियं जं च । लक्खणजुत्तं सुत्तं अहहि य गुणेहिं उववेयं ॥ ९९९ ॥ अल्पग्रन्थं महार्थ च मृत्रं विज्ञेयम्, “उत्पाद-व्यय-धौव्ययुक्तं सत्" इत्यादिवत् मूत्रमल्पग्रन्थ बहार्थं च भवतीत्यर्थः यच द्वात्रिंशदोपविरहितम् , तल्लक्षणयुक्तं मूत्रमुच्यते । ते चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोपाः "अलियमुबघायजणयं निरत्ययमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरत्तं वाहयमजुत्तं ॥१॥ कमभिन्न वयणभिन्नं विभत्तिभिन्नं च लिंगभिन्न च । अणमिहियमपयमेव य सहावहीणं ववाहियं च ॥ २॥ काल-जइ-छविदोसो समयविरुद्धं च वयणमत्तं च । अत्थावत्ती दोसो नेओ असमासदोसो य ॥ ३॥ तेनंदानी सूत्रं सूत्रानुगमेऽभिधेयमनवद्यम् । अस्खलितादिविशुद्ध सलक्षणं लक्षणं चेदम् ॥ ९९८ ॥ २ प. छ. 'तल्लक्ष'xदास-1 ३ अल्पग्रन्थमहाथ द्वात्रिंशदोपविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टाभिश्च गुणैरूपावेतम् ॥ ९९९ ॥ ॥ तवार्थसूत्रे ५, २९ । ५ अलीकमपघातजनकं निरर्थकमपार्थक छ दुहिलम् । निःसारमधिकमूनं पुनरुतं व्याहतमयुक्तम् ॥1॥ क्रमभिन्नं वचनभिन्न विभक्तिभिन्न प लिभिन्नं च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितं ॥२॥ काल-यति छविदोपः समयविरुद्धं च वचनमानं च । अधापत्तिदोषो ज्ञेयोऽसमासदोपश्च ॥३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339