Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra विशेषा० www.kobatirth.org 235 Acharya Shri Kailassagarsuri Gyanmandir अथ चालना - प्रत्यवस्थाने प्राह सुत्तगयमत्थविसयं व दूसणं चालणं मयं, तस्स । सद-त्थण्णायाओ परिहारो पञ्चवत्थाणं ॥ १००७ ॥ यत्सूत्रविषयम्, अर्थविषयं वा शिष्य-प्रेरकैर्दूषणमुद्भाव्यते, तञ्चालनं विचारो मतमभिप्रेतम् । सूरीणां 'तस्स ति' तस्य चालनस्य परिहारः प्रत्यवस्थानं दुषित सिद्धिरित्यर्थः । कस्माद् योऽसौ परिहार १, इत्याह- शब्दाऽर्थन्यायतः- शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्तया शब्दगतंदूषणस्य परिहार, अर्थविषयिणा न्यायेनाऽर्थसंभविन्या युक्तयाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानं दूषितसिद्धिरिति भावार्थः । नयमतविशेषाश्च शब्दाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् । इदमुक्तं भवति - 'करोमि भदन्त ! सामायिकम् इत्यादौ गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते कविचालनां करोति- नन्वेवं तर्हि गुरुवर भदन्तशब्दाऽनभिधानप्रसङ्गः, अभिधाने वाऽऽनर्थक्यादिदोषप्रसङ्गः । अत्र प्रत्यवस्थानमुच्यते- आचार्याभावे स्थापनाचार्यस्य पुरतः सर्वापि सामाचारी क्रियत इति ज्ञापनार्थमिदम्, अन्यत्रापि चोक्तम्- “ ठेवणाआयरियस्स सागायारी पउंजर यं " इत्यादि । तथा दृश्यते चार्हदभावेऽर्हत्प्रतिमोर्पवेशनमिति । अथवा, गुरुविरहेऽपि स्वातन्त्र्यनिषेधो विनयमूलधर्मोपदर्शनार्थं च गुरुगुणज्ञानोपयोगो विधेय इत्येतनानेन ज्ञाप्यते । यदि वा नाम-स्थापना द्रव्य भावभेदाच्चतुर्विध आचार्यः, तत्राचार्योपयोगरूपो योऽसौ भावाचार्यः शिष्यस्य मनसि वर्तते, तद्विषयमिदमामन्त्रणं मनोविवर्तमानगुणमयाचार्यनिबन्धनमिति भावः । अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः । इत्येवमन्यत्रापि चालना - प्रत्यवस्थाने यथासंभवमभ्यू इति । तदनेन " संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ १ ॥” 1. इत्येतद् यदन्यत्र षड्विधं व्याख्याखरूपमुक्तम्, तदिह समर्थितमिति ॥ १००७ | नन्दिं पद्विधं व्याख्यास्वरूपं सर्वत्रापि व्यापकम्, आहोस्वित् प्रतिनियतसूत्रविषयम् १, इत्यत्रोपसंहारगर्भमुत्तरम्, नैगगादिनयविषयं च दर्शयन्नाह- १ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य शब्दाऽर्धन्यायात् परिहारः प्रत्यवस्थानम् || १००७ ॥ २क. 'ताविषयि । ३ क. 'थप'। ४क. ग. 'गुर्वभावे भ' । ५स्थापन (चार्यस्य सामाचारी प्रयुज्यते च । ६ क. ग. 'पसेवन' । ऐवम सुत्तमत्थं सव्वनयमयावयारपरिसुद्धं । भासिज्ज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ॥ १००८ ॥ एवमित्थं पविधव्याख्यानेन सूत्रं सूत्रं प्रति सर्वत्र सर्वनयावतारपरिशुद्धं निरवशेषमर्थ भाषेत - व्याख्यानयेत् पुरुष षा प्रज्ञादिगुणोपेतं प्रतीत्य यद् यस्य व्याख्यानं नयमतविचारणं वा योग्यम्, तत् तस्य वदेत् उक्तं च "थ नएहिं वित्तं अत्थो य जिणमये किंपि । आसज्ज उ सोयारं नए नयविसारओ बूया || १ ||" इति । नवेषु षट्सु व्याख्यानभेदेषु मध्ये सूत्रानुगमादीनां कः कस्य विषयः १, इत्याशङ्कयाह होइ इत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावन्नासो नामाइन्नासविणिओगं ॥ १००९ ॥ सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो चिय नेगमनयाइमयगोयरो होइ ॥ १०१० ॥ अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीय भेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । 'सुत्तप्फासियेत्यादि' वक्ष्यमाणं मायग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना- प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिक नियुक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेत्र कथ्यमाने नैगमादिनयमवृत्तेरिति ॥१००१ ॥१०१०॥ अथवा प्रायोग्रहणस्य फलमाह - पायं पयविच्छेओ उ सुत्तप्फासोवसंघिओ जेण । कत्थइ तयत्थ-कारण-कालाइगई तओ चैत्र ॥१०११॥ न केवलं पदार्थादयः, किन्तु प्रायः पदविच्छेदोऽपि सूत्रस्पर्शिकनियुक्त्युपसंहृत एव तत्क्रोडीकृतस्तदन्तर्भाव्येव मन्तव्य इत्यर्थः, १ एवमनुसृत्रमर्थं सर्वनयमतविचारपरिशुद्धम् । भाषेत निरवशेषं पुरुषं वा प्रतीत्य यद् योग्यम् ॥ १००८ ॥ २क. ग. 'भासेज' । ३ नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किमपि । आसाद्य तु श्रोतारं नयानू नयविशारदो ब्रूयात् ॥ १ ॥ x (कयाथो) * भवति कृतार्थ उक्तत्वा सपदच्छेदं श्रुतं श्रुतानुगमः । सूत्रालापन्यासो नामादिन्यासविनियोगम् ॥ १००९ ॥ सूत्रस्पर्शिक नियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एवं नैगमनयादिमतगोचरो भवति ॥ १०१० ॥ ६ प्रायः पदविच्छेदस्तु सूत्रस्पर्शोपसंहृतो येन । कुत्रचित् तदर्थ कारक-कालादिगतिस्तत एव ॥ १०११ For Private and Personal Use Only ५ क. ग. 'थ प्रा' ।

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339