________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
235
Acharya Shri Kailassagarsuri Gyanmandir
अथ चालना - प्रत्यवस्थाने प्राह
सुत्तगयमत्थविसयं व दूसणं चालणं मयं, तस्स । सद-त्थण्णायाओ परिहारो पञ्चवत्थाणं ॥ १००७ ॥
यत्सूत्रविषयम्, अर्थविषयं वा शिष्य-प्रेरकैर्दूषणमुद्भाव्यते, तञ्चालनं विचारो मतमभिप्रेतम् । सूरीणां 'तस्स ति' तस्य चालनस्य परिहारः प्रत्यवस्थानं दुषित सिद्धिरित्यर्थः । कस्माद् योऽसौ परिहार १, इत्याह- शब्दाऽर्थन्यायतः- शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्तया शब्दगतंदूषणस्य परिहार, अर्थविषयिणा न्यायेनाऽर्थसंभविन्या युक्तयाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानं दूषितसिद्धिरिति भावार्थः । नयमतविशेषाश्च शब्दाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् ।
इदमुक्तं भवति - 'करोमि भदन्त ! सामायिकम् इत्यादौ गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते कविचालनां करोति- नन्वेवं तर्हि गुरुवर भदन्तशब्दाऽनभिधानप्रसङ्गः, अभिधाने वाऽऽनर्थक्यादिदोषप्रसङ्गः । अत्र प्रत्यवस्थानमुच्यते- आचार्याभावे स्थापनाचार्यस्य पुरतः सर्वापि सामाचारी क्रियत इति ज्ञापनार्थमिदम्, अन्यत्रापि चोक्तम्- “ ठेवणाआयरियस्स सागायारी पउंजर यं " इत्यादि । तथा दृश्यते चार्हदभावेऽर्हत्प्रतिमोर्पवेशनमिति । अथवा, गुरुविरहेऽपि स्वातन्त्र्यनिषेधो विनयमूलधर्मोपदर्शनार्थं च गुरुगुणज्ञानोपयोगो विधेय इत्येतनानेन ज्ञाप्यते । यदि वा नाम-स्थापना द्रव्य भावभेदाच्चतुर्विध आचार्यः, तत्राचार्योपयोगरूपो योऽसौ भावाचार्यः शिष्यस्य मनसि वर्तते, तद्विषयमिदमामन्त्रणं मनोविवर्तमानगुणमयाचार्यनिबन्धनमिति भावः । अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः । इत्येवमन्यत्रापि चालना - प्रत्यवस्थाने यथासंभवमभ्यू इति । तदनेन
" संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ १ ॥”
1. इत्येतद् यदन्यत्र षड्विधं व्याख्याखरूपमुक्तम्, तदिह समर्थितमिति ॥ १००७ |
नन्दिं पद्विधं व्याख्यास्वरूपं सर्वत्रापि व्यापकम्, आहोस्वित् प्रतिनियतसूत्रविषयम् १, इत्यत्रोपसंहारगर्भमुत्तरम्, नैगगादिनयविषयं च दर्शयन्नाह-
१ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य शब्दाऽर्धन्यायात् परिहारः प्रत्यवस्थानम् || १००७ ॥ २क. 'ताविषयि । ३ क. 'थप'। ४क. ग. 'गुर्वभावे भ' । ५स्थापन (चार्यस्य सामाचारी प्रयुज्यते च । ६ क. ग. 'पसेवन' ।
ऐवम सुत्तमत्थं सव्वनयमयावयारपरिसुद्धं । भासिज्ज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ॥ १००८ ॥
एवमित्थं पविधव्याख्यानेन सूत्रं सूत्रं प्रति सर्वत्र सर्वनयावतारपरिशुद्धं निरवशेषमर्थ भाषेत - व्याख्यानयेत् पुरुष षा प्रज्ञादिगुणोपेतं प्रतीत्य यद् यस्य व्याख्यानं नयमतविचारणं वा योग्यम्, तत् तस्य वदेत् उक्तं च
"थ नएहिं वित्तं अत्थो य जिणमये किंपि । आसज्ज उ सोयारं नए नयविसारओ बूया || १ ||" इति । नवेषु षट्सु व्याख्यानभेदेषु मध्ये सूत्रानुगमादीनां कः कस्य विषयः १, इत्याशङ्कयाह
होइ इत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावन्नासो नामाइन्नासविणिओगं ॥ १००९ ॥ सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो चिय नेगमनयाइमयगोयरो होइ ॥ १०१० ॥
अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीय भेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । 'सुत्तप्फासियेत्यादि' वक्ष्यमाणं मायग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना- प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिक नियुक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेत्र कथ्यमाने नैगमादिनयमवृत्तेरिति ॥१००१ ॥१०१०॥
अथवा प्रायोग्रहणस्य फलमाह -
पायं पयविच्छेओ उ सुत्तप्फासोवसंघिओ जेण । कत्थइ तयत्थ-कारण-कालाइगई तओ चैत्र ॥१०११॥
न केवलं पदार्थादयः, किन्तु प्रायः पदविच्छेदोऽपि सूत्रस्पर्शिकनियुक्त्युपसंहृत एव तत्क्रोडीकृतस्तदन्तर्भाव्येव मन्तव्य इत्यर्थः,
१ एवमनुसृत्रमर्थं सर्वनयमतविचारपरिशुद्धम् । भाषेत निरवशेषं पुरुषं वा प्रतीत्य यद् योग्यम् ॥ १००८ ॥ २क. ग. 'भासेज' ।
३ नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किमपि । आसाद्य तु श्रोतारं नयानू नयविशारदो ब्रूयात् ॥ १ ॥ x (कयाथो)
* भवति कृतार्थ उक्तत्वा सपदच्छेदं श्रुतं श्रुतानुगमः । सूत्रालापन्यासो नामादिन्यासविनियोगम् ॥ १००९ ॥ सूत्रस्पर्शिक नियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एवं नैगमनयादिमतगोचरो भवति ॥ १०१० ॥
६ प्रायः पदविच्छेदस्तु सूत्रस्पर्शोपसंहृतो येन । कुत्रचित् तदर्थ कारक-कालादिगतिस्तत एव ॥ १०११
For Private and Personal Use Only
५ क. ग. 'थ प्रा' ।