________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
234
विशेषा०
पैयमत्थवायगं जोयगं च तं नामियाइं पंचविहं । कारग-समास-तद्धिय-निरुत्तवच्चो वि य पयत्थो ॥१००३॥ परबोहहिओ वत्थो किरिया-कारगविहाणओ वच्चो । पज्जायवयणओ वि य तह भूयत्थाभिहाणेण ॥१००४॥
पञ्चक्खओऽहवा सोऽणुमाणओ लेसओ च सुत्तस्स । वच्चो व जहासंभवमागमओ हेउओ चेव ॥१००५॥
पदं द्विविधं भवति- अर्थवाचकम् , द्योतक च । तत्र 'वृक्षः, तिष्ठति' इत्यादि वाचकम् । मादिकम् , चादिकं च द्योतकम् । तथा, पुनरपि पदं सापान्येन पश्चविधं नामिकादि । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम्, 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इति मिश्रम् । एवंभूनानां पदानां विच्छेदो द्वितीयं व्याख्यानाङ्गम् । तृतीयं तु व्याख्यानाङ्गं पदार्थः । स च कारकवाच्यादिभेदाचतुर्विधः । तत्र कारकेणोच्यत इति कारकवाच्या, कारकविषय इत्यर्थः, यथा 'पचतीति पाचका' इत्यादि । समासेनोच्यते रामासवाच्यः, 'राज्ञः पुरुपो राजपुरुषः' इत्यादि । तद्धितेनोच्यते तद्धितवाच्यः, 'वसुदेवस्याऽपत्यं वासुदेव' इत्यादि । निरुक्तेनोच्यते निरुक्तवाच्यः, 'भ्रमति च रौति च भ्रमरः' इत्यादि । तदेवं पदार्थस्य चातुर्वैध्यमुक्तम् ।
अथ प्रकारान्तरेण त्रिधोऽप्येष संभवतीति दर्शयति- 'परवाहेत्यादि' त्यथवा, परेषां श्रोतृणां बोधः परबोधः, तत्र कर्तव्ये हितो योऽर्थः पदार्थः स त्रिविधोऽपि वाच्यः, तद्यथा- क्रियाकारकविधानतः, पर्यायवचनतः, भूतार्थाभिधानेन च । तत्र क्रियाकारकभेदेन यथा- 'घट चेष्टायाम्' घटतेऽसाविति घटः । पर्यायवचनैर्यथा- घटः, कुटः, कुम्भः, कलश इत्यादि । भूतः सद्भूतो यथावस्थितोऽर्थस्तदभिधानतस्तत्परूपणेन च पदार्थो वाच्यः, तद्यथा- य ऊर्यकुण्डलोष्ट आयतवृत्तग्रीवः पृथुबुनोदरः स घट उच्यत इत्यादि ।
अथवा, अन्यथा पदार्थः सूत्रस्याऽयस्त्रिविधो वाच्यः, तद्यथा- प्रत्यक्षतः, अनुमानतः, लेशतश्च । अत्र प्रत्यक्षेणैव यादृशं पुस्तकादिलिखितमुपलभ्यते, गुरुमुखाद् वा यादृशं श्रूयते, नादृशमेव साक्षाद् यत्र प्ररूप्यते, स प्रत्यक्षतः पदार्थ उच्यते; यथा-"सम्यग्दशेन ज्ञान-चारित्राणि मोक्षमार्गः" इति गुरुमुखादेः श्रवणादिप्रत्यक्षेणोपलभ्य सम्यग्दर्शनादीनां मोक्षमार्गत्वं प्ररूपयति । अनुमान विहापित्तिरूपं गृह्यते, तस्यामप्यन्यथानुपपन्नार्थादतीन्द्रियस्य साध्यार्थस्याऽनुमीयमानत्वात् । तत्र प्रत्यक्षोपलब्ध एवार्थो यमर्थापत्तिलब्ध
१ परमर्थवाचकं द्योतकं च तत् नामिकादि पक्षविधम् । कारक-समास-सद्धित-निरुक्तवाच्योऽपि च पदार्थः । १.०३ ॥+4) परपोधमिलो वाऽर्थः किया-कारकविधानतो वाश्यः । पर्यायवचनतोऽपि च तथा भूतार्थाभिधानेन ॥ १०.४॥x (वि)
प्रत्यक्षतोऽधता सोऽनुमानतो लेशनश्च सूत्रस्य । वाल्यो वा यथासंभवमागमतो हेतुनश्चैव ।।१०१५॥
... घ. छ. 'न्या ।। क. ग. सविधान'। तस्वााधिराममूतो। मर्थ कथयति, सोऽनुमानतः पदार्थ उच्यते, यथा-कथयन्ति मिथ्यादर्शनादीनि, पुनर्मोक्षमार्गो न भवति' इत्यर्थादेव गम्यत इति । तथा, लेशतः पदार्थो भवति, तत्र 'लिश श्लेषणे' लेशः श्लेषः, श्लिष्ट, समस्तमिति यावत् , तन्निर्देशात् पदार्थो गम्यते ; यथा “सम्यग्दर्शनज्ञान-चारित्राणि' इति त्रयाणामपि समस्तानां निर्देशात् 'समुदितानामेव मोक्षमार्गत्वम् , नैकैकशः' इति गम्यते । ततोऽसौ लेशेन श्लेषण मूचितो लेशतः पदार्थोऽभिधीयते । तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः पदार्थः। _ अथवा, यथासंभवमागमतः, हेतुतश्च द्विविधः पदार्थो वाच्यः, तत्र भन्या-ऽभव्य निगोदादिप्रतिपादकपदानामागमत आज्ञामावेणैवाऽर्थः प्रतिपाद्यते । न हि भव्या-ऽभव्यादिभावप्ररूपणे आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते । अतोऽयमागमतः पदार्थ उच्यते । यत्र च हेतुः संभवति, तत्र हेतुतः पदार्थोऽभिधीयते, यथा- कायप्रमाण आत्मा न सर्वगतः, कर्तृत्वात् , कुलालादिवत् , इत्यादि । ननु मूर्त आत्मा, कर्तृत्वात् , कुलालादिवत् , इत्येवं मूर्तिमत्त्वमप्यात्मनोऽनेन हेतुना सिध्यतीति चेत् । सत्यम् , इष्यत एव संसार्या स्मनो मूर्तत्वमपि, इति न किश्चिद् नः श्रूयते । इति हेतुतोऽयं पदार्थोऽभिधीयते । तदनेन
____“आणांगेझो अत्थो आणाए चेव सो कहेयन्वो । दिट्ठतिओ दिटुंता कहणविहिविराहणा इहरा ॥ १ ॥" इत्ययमर्थः समर्थितो भवतीति । तदेवमुक्तो विस्तरतः पदार्थः॥१००३ ॥१००४ ॥१००५॥ अथ पदविग्रहमाहपायं पयविच्छेओ सामासविसओ तयत्थनियमत्थं । पयविग्गहो त्ति भण्णइ सो सुद्धपए न संभवइ ॥१००६||
इह प्रायेण यः समासविषयः पदयोः पदानां वाऽनेकार्थसंभवे सतीष्टपदार्थनियमाय विच्छेदः क्रियते स पदविग्रहः, यथा-- राज्ञः पुरुषो राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता बहवो मातङ्गा यस्मिन् वने तद् मत्तबहुमातङ्ग बनमित्यादि । स च शुद्ध एकस्मिन् पदे न संभवति, अतः पदयोः, पदानां चेत्युच्यते । इह कश्चित् पदविच्छेदोऽपि समासविषयो न भवति, कचित् समासनिरोधात् यथा-व्यासः पारासर्यः, रामो जामदग्न्य इत्यादि । अतः प्रायोग्रहणमिति ॥१००६॥
, आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिविराधनेतरथा ॥३॥ २ क. ग. 'णागज्शो' लिए ३ प्रायः पदविच्छेदः समासविषयस्तदर्थनियमार्थम् । पदविग्रह इति भण्यते स शुद्धपदे न संभवति ॥ १००६ ॥+(स) ०ीति)
For Private and Personal Use Only