________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
236 विशेषा० इति पूर्वगाथायां मायोग्रहणमकारि । कस्मात् पुनः पदविच्छेदोऽपि तद्विषयः १, इत्याह- येन कारणेन तेषां विच्छिापदानामर्थस्तदर्थस्तस्य, तथा, कारक-काल-क्रियादीनां च गतिरवबोधस्तत एव पदच्छेदमात्रादेव जायते । ततस्तत्र पदविच्छेदमात्रमेव सूत्रस्पर्शिकनियुक्तिः करोति, तावतैव तव्यापारपरिसमाप्तेः। अता पदच्छेदोऽपि तदन्तर्भाव्येव । उपलक्षणं चैतत् , ततो न केवल पदार्थादिरंव नैगमादिनयविषयः, किन्तु पदच्छेद-सूत्रालापकन्यासादयोऽपि मायस्तद्विषयः, तत्रापि सद्विचारमत्तेरिति । तदेवमुक्तोऽनुगमः, तनणनमसङ्गतो नयावाभिहिताः । तथा च समाप्तान्यनुयोगद्वाराणि ॥ १.११ ॥ (सति समाप्तानि चत्वारि अनुः
अत आइ.. अणुओगद्दाराणं परूवणं तप्पओयणं जं च । इह चेव परिसमाणियमव्यामोहत्थमत्थाणे ॥ १०१२ ॥
यद्यप्यध्ययनसमाप्तावेवाऽनुयोगद्वाराणां सामस्त्येन समाप्तिरिष्यते, तथापि यच्चतुर्णामप्यनुयोगद्वाराणां मरूपणम् , यच्च तत्मयोजनम् , तदिहाऽऽदावस्थान एव शिष्याणामव्यामोहाथ परिसमापितम्। अन्यथा सध्ययनस्याऽऽदाबुपक्रमः समाप्येत, ततो दरव्यवधानेन कचिद् निक्षेपः, काप्यनुगमः, कचित्तु नयाः परिसमाप्येरन् । एवं चातिग्रन्थव्यवधानेनाऽनुयोगद्वाराणां समाप्ती व्यामुह्येयुर्विनेयाः॥१.१२
कथं पुनरित्थं समाप्तौ तेषामव्यामोहः १, इत्याह
दाइयदारविभागो संखेवेणेह, वित्थरेणावि । दाराणं विणिओगं नाहिइ काउं जहाजोगं ॥ १.१३ ॥
इहैव संक्षेपेण दर्शितानुयोगद्वारविभागो विनेयः पुरस्ताद् विस्तरेणापि यथायोग्यं यथास्थानं स्वयमेव ज्ञास्यति विनियोग । कर्तुम् , न तु मोहमनुभविष्यति ॥ इति त्रयोदशगाथार्थः ॥ १०१३ ॥
॥ अनुयोगद्वाराणि समाप्तानि ॥ इदानी 'तित्थयरे भगवंते' इत्यादिवक्ष्यमाणग्रन्थस्य प्रस्तावनामुपरचयन्नाहसंपयमत्थाणुगमे सत्थोवग्घायवित्थरं वोच्छं । कयमंगलोवयारो सोऽतिमहत्थो त्ति काऊणं ॥१.१४॥ , अनुयोगद्वाराणां प्ररूपणं तत्प्रयोजनं यच्च । इहैव परिसमापितमव्यामोहार्थमस्थाने ॥१.१२ ॥
दर्शितद्वारविभागः संक्षेपेणेह, विस्तरेणापि । द्वाराणां विनियोग ज्ञास्यति कर्तुं यथायोगम् ॥ १.१३॥ ४ गाथा १०२५।।
५ सांप्रतमांनुगमे शास्त्रोपोद्धातविस्तरं वक्ष्ये । कृतमङ्गलोपचारः सोऽसिमहार्थ इति कृत्वा ॥१.१४॥ अर्थानुगानुगमाख्ये तृतीयेऽनुयोगद्वारे 'उद्देसे निदेसे य निग्गमे इत्यादिना यः पूर्व संक्षेपेण शास्त्रस्योपोद्धात उक्तः, तस्यैव सांप्रतमहं विस्तरं वक्ष्ये । कथंभूतः सन् ?, इत्याह- कृतमङ्गलोपचारः कृततीर्थकरादिनमस्कारः सन् । किम् ?, इत्याह- समस्तसिद्धान्तानुयोगसाधारणत्वात् सोऽतिमहार्थ इति कृत्वा ॥१०१४ ॥
अत्र प्रेरकः प्राह----
नेणु मंगलं कयं चिय किं भुज्जो, अह कयं पि कायव्वं । दारे दारे कीरइ तो कीस न मंगलग्गहणं ? ॥ १.१५॥
नवादी 'आभिणिवोहियनाणं' इत्यादिना मङ्गलं कृतमेव, तत् किमिति भूयस्तदारम्भः। अथ कृतमपि पुनः कर्तव्यं तत् , नहि प्रत्यध्ययनम् , प्रत्युद्देशकम् , प्रतिमूत्रं च द्वारे द्वारे उपक्रमादिके किमिति न मङ्गलग्रहणं क्रियते ? इति ॥ १०१५ ॥
अत्र कश्चिदाचार्यदेशीयोऽन्तरभाषया प्रतिविधानमाह
नेणु मज्झम्मि वि मंगलमाइदं तं च मज्झमेयं ति । सत्थमणारई चिय एवं कत्तोच्चयं मझं ? ॥१०१६॥
ननु शास्त्रस्यादौ, मध्ये, अवसाने च मङ्गलं कर्तव्यत्वेन पूर्वमूरिभिरादिष्टम् , तत्रादौ विहितं मङ्गलम् । एतच्च शास्त्रस्य मध्यम ततो मध्यमङ्गलमत्र कर्तव्यमेव, किमनेन प्रेर्येण ? इति । तदेतदुत्तरमयुक्तमेव, इत्याचार्यो दर्शयति- 'सत्थमित्यादि नन्वादिमङ्गलार्थ नन्दिरु तः, ततोऽनुयोगद्वाराण्यभिहितानि, यत्तु सामायिकाध्ययनलक्षणं शास्त्रं तदनारब्धमेव, तस्याऽद्याप्यक्षरमपि न व्याख्यायते, कौतस्त पुनस्तन्मध्यं, येन मध्यमङ्गलताऽस्य भवेत् ? इति ।। १०१६ ॥
अत्राचार्यदेशीय एव शास्त्रस्य मध्यता समर्थयन्नाहचउरणओगदारं जं सत्थं तस्स तेण मज्झमिणं । साहइ मंगलगहणं सत्थस्संगाई दाराणि ॥ १०१७॥
२ क. ग. 'रितीष्य'।
१ गाथा ९७३। २ ननु मङ्गलं कृतमेव किं भूयः, अथ कृतमपि कर्तव्यम् । द्वार द्वारे क्रियते ततः कस्मात् न मङ्गलग्रहणम् ॥ १.१५॥ ३ गाथा ७५। । ननु मध्येऽपि मामलमादिष्ट तच्च मध्यमेतदिति । शाखमनारब्धमेवैतत् कौतस्त्वं मध्यम् ? ॥१०१६ ॥ ५ क.ग. 'लमेव त' । ६. प.छ. 'आचा' । ७ चतुरनुयोगहारं यत, शाम्न तम्य तेन मध्यमिदम । कथयति मालमहणं शाखस्याङ्गानि द्वाराणि ॥ १.१७॥
For Private and Personal Use Only