Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org............ Acharya Shri Kailassagarsuri Gyanmandir 214 विशेषा० अथ तस्स फल-जोग मंगल-समुदायत्था तहेव दाराई' इत्यादिगाथाभणनक्रमायातमुपक्रमाद्यनुयोगद्वारभणनरूपं पश्चमं द्वारमभिधित्सुः, प्रथमं तावत् सामायिकाध्ययनं वर्णयबाह तत्थज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदन्वाणं ॥९०५॥ तत्र तेषु पदस्वध्ययनेषु मध्ये समभावेन लक्ष्यते समभावलक्षणं सामायिकाध्ययनं सर्वेषामपि प्रथममाघम् । कुतस्तस्य माथम्यम्, इत्याह- यद् यस्मात् कारणात् सर्वेषामपि मूलो-सरगुणानां तदेव सामायिकाध्ययनमाधारः, तस्मिन् सत्येव तद्भावात् , तदभावेच तेषामभावात् । न हि समताशून्ये प्राणिनि कापि पारमार्थिकगुणावस्थानमस्ति । यथा केषां किमाधारः, इत्याह-व्योम आकाश तदिव सर्वेषामपि धर्मास्तिकायादिद्रव्याणामिति ॥ ९०५॥ अथवा माथम्ये तस्य कारणान्तरमाह- . अहवा तब्भेय चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाण-दसण-चरणब्भहिओ जओ अस्थि ॥९०६॥ अथवा, तोंदा एवं सामायिकाध्ययनविशेषा एव शेषाणि चतुर्विंशतिस्तवाद्यध्ययनानि । कुतः १, इत्याह- यत् यस्मात् दर्शन-ज्ञान-चारित्रसामायिकभेदात् त्रिविधं सामायिकम् । यद् वक्ष्यत्ति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च' इति । अस्मिंश्च भेदत्रये सर्वाऽपि गुणजातिरन्तर्भवति, यस्माद् न ज्ञान-दर्शन-चारित्रेभ्योऽन्यः कश्चनापि चतुर्विंशतिस्तवादिगतो गुणः समस्ति । तदेवं शेषाध्ययनानां तद्भेदत्वात् सामायिकमेवादी निर्दिष्टमिति ॥९०६॥ ततः किम् ?, इत्याह- . अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो दाराइं तस्स उ मुहाई ॥ ९०७॥ १ गाथा ।। २ क.ग. 'शमद्वा' । ३ तबाध्ययनं सामायिकमिति समभावलक्षणं प्रथमम् । यत् सर्वगुणाधारी व्योमेव सर्वद्रयाणाम् ॥ ९०५॥ क.ख.ग.'थ प्रा'। ५ अथवा सन्देदा एव शेषा यद् दर्शनादिकं त्रिविधम् । न गुणश्च ज्ञान-दर्शन-चारित्राभ्यधिको यतोऽस्ति ॥ १०॥ सामायिकं च विविध सम्यक्त्वं श्रुत तथा चारित्रं च । तस्य च सामायिकाध्ययनस्य महापुरस्य द्वाराणीय चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रानुयोगः किमुच्यते ?, इत्याह- तदर्थोऽध्ययनार्थः । आह-नन्वनुयोगो व्याख्यानमुच्यते, तत् कथं तदेवाध्ययनार्थ उच्यते । सत्यम् , किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत इत्यदोपः । द्वाराणि पुनस्तत्प्रवेशमुखानि ॥ ९०७॥ .. औतामेव पुरकल्पनां द्वारकल्पना चार्थवती दर्शयत्राह अकयद्दारमनगरं कएगदारं पि दुक्खसंचारं । चउमूलहारं पुण सपडिदारं सुहाहिगमं ॥ ९०८ ॥. अकृतद्वारं नगरं संततप्राकारवलयवेष्टितमनगरमेव भवति, जनप्रवेश-निर्गमाभावात् । तथा, कृतैकद्वारमपि हस्त्य-व-रथ-जनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च भवति । कृतचतुर्मूलप्रतोलीद्वारं तु सपतिद्वारं सुखाधिगमं सुखनिर्गम-प्रवेशं भवति, कार्यानतिपत्तये च संपद्यत इति ॥ ९०८ ॥ तथा किम् ?, इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाह-- सामाइयमहपुरमवि अकयदारं तहेगदारं वा । दुरहिगम, चउदारं सपडिहारं सुहाहिगमं ॥ ९०९॥ एवं सामायिकमहापुरमप्याधिगमोपायभूतद्वारशून्यमशक्याधिगमम् , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते । विहितसमभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति ॥ ९०९॥ कानि पुनस्तान्यनुयोगद्वाराणि ?, इत्याह ताणीमाणि उवक्कम-निक्खेवा-ऽणुगम-नयसनामाइं। छ-त्ति-दु-दुविगप्पाइं पभेयओऽणेगभेयाइं ॥९१०॥ तानि चैतान्यनुयोगद्वाराणि, तद्यथा- उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः, अनुगमः, नयश्रेत्येतैर्नामभिः सनामानि साभिधानानीति ॥ ॥पञ्चमं द्वारोपन्यासहारं समाप्तम् ॥ , अकृतद्वारमनगरं कृतैकद्वारमपि दुःखसंचारम् । चतुर्मूलद्वार पुनः सप्रतिद्वारं सुखाधिगमम् ॥ २०॥ २ सामायिकमहापुरमप्यकृतद्वारं तधकद्वारं वा । दुरधिगम, चतुद्वारं सपतिद्वारं सुखाधिगमम् ॥९०९॥ ३ क. स. 'यपुरमेवं अ॥ ४ क. 'मतिकृ'। ५ तानीमानि उपक्रम-निक्षेपा-ऽधिगम-नयसनामानि । षट्-त्रि-दि-द्वि-विकल्पानि प्रभेवतोऽनेकमेवानि ॥ १०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339