________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org............
Acharya Shri Kailassagarsuri Gyanmandir
214 विशेषा०
अथ तस्स फल-जोग मंगल-समुदायत्था तहेव दाराई' इत्यादिगाथाभणनक्रमायातमुपक्रमाद्यनुयोगद्वारभणनरूपं पश्चमं द्वारमभिधित्सुः, प्रथमं तावत् सामायिकाध्ययनं वर्णयबाह
तत्थज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदन्वाणं ॥९०५॥
तत्र तेषु पदस्वध्ययनेषु मध्ये समभावेन लक्ष्यते समभावलक्षणं सामायिकाध्ययनं सर्वेषामपि प्रथममाघम् । कुतस्तस्य माथम्यम्, इत्याह- यद् यस्मात् कारणात् सर्वेषामपि मूलो-सरगुणानां तदेव सामायिकाध्ययनमाधारः, तस्मिन् सत्येव तद्भावात् , तदभावेच तेषामभावात् । न हि समताशून्ये प्राणिनि कापि पारमार्थिकगुणावस्थानमस्ति । यथा केषां किमाधारः, इत्याह-व्योम आकाश तदिव सर्वेषामपि धर्मास्तिकायादिद्रव्याणामिति ॥ ९०५॥
अथवा माथम्ये तस्य कारणान्तरमाह- . अहवा तब्भेय चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाण-दसण-चरणब्भहिओ जओ अस्थि ॥९०६॥
अथवा, तोंदा एवं सामायिकाध्ययनविशेषा एव शेषाणि चतुर्विंशतिस्तवाद्यध्ययनानि । कुतः १, इत्याह- यत् यस्मात् दर्शन-ज्ञान-चारित्रसामायिकभेदात् त्रिविधं सामायिकम् । यद् वक्ष्यत्ति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च' इति । अस्मिंश्च भेदत्रये सर्वाऽपि गुणजातिरन्तर्भवति, यस्माद् न ज्ञान-दर्शन-चारित्रेभ्योऽन्यः कश्चनापि चतुर्विंशतिस्तवादिगतो गुणः समस्ति । तदेवं शेषाध्ययनानां तद्भेदत्वात् सामायिकमेवादी निर्दिष्टमिति ॥९०६॥
ततः किम् ?, इत्याह- .
अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो दाराइं तस्स उ मुहाई ॥ ९०७॥ १ गाथा ।। २ क.ग. 'शमद्वा' । ३ तबाध्ययनं सामायिकमिति समभावलक्षणं प्रथमम् । यत् सर्वगुणाधारी व्योमेव सर्वद्रयाणाम् ॥ ९०५॥ क.ख.ग.'थ प्रा'। ५ अथवा सन्देदा एव शेषा यद् दर्शनादिकं त्रिविधम् । न गुणश्च ज्ञान-दर्शन-चारित्राभ्यधिको यतोऽस्ति ॥ १०॥
सामायिकं च विविध सम्यक्त्वं श्रुत तथा चारित्रं च । तस्य च सामायिकाध्ययनस्य महापुरस्य द्वाराणीय चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रानुयोगः किमुच्यते ?, इत्याह- तदर्थोऽध्ययनार्थः । आह-नन्वनुयोगो व्याख्यानमुच्यते, तत् कथं तदेवाध्ययनार्थ उच्यते । सत्यम् , किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत इत्यदोपः । द्वाराणि पुनस्तत्प्रवेशमुखानि ॥ ९०७॥ .. औतामेव पुरकल्पनां द्वारकल्पना चार्थवती दर्शयत्राह
अकयद्दारमनगरं कएगदारं पि दुक्खसंचारं । चउमूलहारं पुण सपडिदारं सुहाहिगमं ॥ ९०८ ॥.
अकृतद्वारं नगरं संततप्राकारवलयवेष्टितमनगरमेव भवति, जनप्रवेश-निर्गमाभावात् । तथा, कृतैकद्वारमपि हस्त्य-व-रथ-जनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च भवति । कृतचतुर्मूलप्रतोलीद्वारं तु सपतिद्वारं सुखाधिगमं सुखनिर्गम-प्रवेशं भवति, कार्यानतिपत्तये च संपद्यत इति ॥ ९०८ ॥
तथा किम् ?, इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाह--
सामाइयमहपुरमवि अकयदारं तहेगदारं वा । दुरहिगम, चउदारं सपडिहारं सुहाहिगमं ॥ ९०९॥
एवं सामायिकमहापुरमप्याधिगमोपायभूतद्वारशून्यमशक्याधिगमम् , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते । विहितसमभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति ॥ ९०९॥
कानि पुनस्तान्यनुयोगद्वाराणि ?, इत्याह
ताणीमाणि उवक्कम-निक्खेवा-ऽणुगम-नयसनामाइं। छ-त्ति-दु-दुविगप्पाइं पभेयओऽणेगभेयाइं ॥९१०॥
तानि चैतान्यनुयोगद्वाराणि, तद्यथा- उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः, अनुगमः, नयश्रेत्येतैर्नामभिः सनामानि साभिधानानीति ॥
॥पञ्चमं द्वारोपन्यासहारं समाप्तम् ॥ , अकृतद्वारमनगरं कृतैकद्वारमपि दुःखसंचारम् । चतुर्मूलद्वार पुनः सप्रतिद्वारं सुखाधिगमम् ॥ २०॥ २ सामायिकमहापुरमप्यकृतद्वारं तधकद्वारं वा । दुरधिगम, चतुद्वारं सपतिद्वारं सुखाधिगमम् ॥९०९॥ ३ क. स. 'यपुरमेवं अ॥ ४ क. 'मतिकृ'। ५ तानीमानि उपक्रम-निक्षेपा-ऽधिगम-नयसनामानि । षट्-त्रि-दि-द्वि-विकल्पानि प्रभेवतोऽनेकमेवानि ॥ १०॥
For Private and Personal Use Only