Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 विशेषा० "नाम ठवणा दविए खेत्ते काले य गणणअणुपुब्बी । उकित्तण-संठाणे सामायारी य भावे य ॥ १॥" इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः १, इत्याह- 'नियमेत्यादि' नियमेन निश्च- " येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूर्व्याम् , गणनानुपूर्त्यां च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूामेतत् समवतरति । गणनं तु- एक, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-द्वचादिकायां संख्यायामिदमध्ययनमवतरति । अतो गणनानुपूामस्य समवतार इति ॥ ९४०॥ यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह पुवाणुपुत्रिओ तं पढम, पच्छाणुपुविओ छठं । जायइ गणिज्जमाणं अनियमियमणाणुपुवीए ॥९४१।। __ इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूया नु षष्ठम् , अनानुपूर्व्या तु गण्यमानपनियमितं जायते-कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीयम्। इत्यमीषा षण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ ९४१॥ एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह ऐंगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमद्गहीणा परिमाणमणाणुपूवीणं ॥ ९४२ ॥ एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गछगताः समवसेयाः । तत्र पण्णां गच्छ: समुदायः षड्गच्छः, तं गतास्तत्पतिबद्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमात्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाया एकोत्तरकाः षडध्ययनविषयाः षडङ्का व्यवस्थाप्यन्ते तद्यथा-१।२।३।४।५।६। एने च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको १ नाम स्थापना व्यं क्षेत्र कालश्च गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ १॥ २ क.ग. रतात्यतो'। ३ पूर्वानुपतिस्तत् प्रथम, पश्चानुपूर्वीतः पष्टम् । जायते गण्यमानमनियमितमनानपूर्णम् ॥११॥ ४ एकाद्या एकोत्तरकाः पडगच्छगनाः परस्पराभ्यस्ताः । प्रथमा-ऽन्तिमविकहीना परिमाणमनानुपूर्वीणाम् ॥ ९४२ ॥ ५ क.ग. 'रगणि' . गुणितो जानाः पर्द, तैश्र चत्वारो गुणिताः मंजाताचतुर्विंशतिः, तया च पत्राभ्यस्ता जातं विशं शतम् । तेन च षड्गुणिताः संपमानि विंशानेसप्तभङ्गकशतानि । इह च प्रथमभङ्गः पूर्वानुपूर्वी रूपः, चरमभङ्गस्तु पश्चानुपूात्मकः, अतस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि सामान्येन सर्वसंख्यारूपमनानुपूर्वीभङ्गकपरिमाणं भवति । एवं सप्तादीनामप्यनन्तपर्यन्तानां पदानामयमेव सामान्येन सर्वभङ्गकसंख्यानयनोपाय इति ॥ ९४२ ॥ अथ विशेषतोऽनानुपूर्वीभङ्गकानामानयनोपायभूनां करणगाथामाह पुवायुपुब्बिहेट्ठा समयाभेएण कुण जहाजेठं । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो सेसो ॥ ९४३ ॥ इह विवक्षिनपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या 'हेट त्ति' अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः 'कुण त्ति' स्थापय 'एकादिपदानि' इति शेषः । कथम् , इत्याहु- ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं यो यस्यादौ स तस्य ज्येष्ठो यथा- द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वयमनुज्येष्ठः, चतुष्कादीनां त्वेकोऽपि ज्येष्ठानुज्येष्ठः; एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि । एवं च सत्युपरितनाङ्कस्याधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठः, इति गथाजेष्ठं निक्षेपं कुरु । किमनियमेन ?, न, इत्याह- समयाभेदेनेति, समयः संकेतः प्रस्तुतभङ्गकरचनव्यवस्था, तस्या अभेदोऽनतिक्रमस्तेन समयाभेदेन निक्षेपं कुरु । समयस्य च भेदस्तदा भवति, यदा तस्मिन्नेद भनके निक्षिप्ताकसदृशोऽपरोऽङ्कः पतति । तत एवंभूनं समयभेदं वर्जयन्नेव ज्येष्ठाद्यकनिक्षेपं विदध्यात् , उक्तं च ___“ अहिम्मि य निक्खेते पुणरवि सो चेव होइ कायव्वो । सो होइ समयभेओ वजेयव्यो पयत्तेण ॥ १॥" निक्षिप्तस्य चाङ्कस्य यथासंभवं 'पुरओ त्ति' अग्रत उपरितनाङ्कस्तुल्यं सदृशं यथा भवति, एवं न्यस्येत्- उपरितनाङ्कसदृशानेवाकान पुरतः स्थापयदित्यर्थः । 'पुव्यकमो सेस त्ति' निक्षिप्ताङ्कस्य यथासंभवं पृष्ठतः शेष उद्वरितशेषाङ्कानामधस्तात् तानेवोद्वरितशेषानान् पर्वक्रमेण स्थापयदित्यर्थः । यः संख्यया लघुरेककादिःस प्रथम स्थाप्यते, यस्तु तया महान् स पश्चात् स्थाप्यत इति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिनि भावः।। इति गाथार्थः ।। १ क.ख.ग. 'ट् पदभिश्चन्त्रा' । २ प.छ. 'पटतादिताः' । ३ पूर्वानुपूर्यधस्तात् समयाभेदेन कुरु यथाज्येष्ठम् । उपरिमतुल्यं पुरतो न्यस्येत् पूर्वक्रमः शेएः ॥ ९४३ ॥ । यस्मिश्च निक्षिप्ते पुनरपि स एव भवति कर्नव्यः । स भवति समयभेदो वर्जितमः प्रयत्नेन ॥१॥x(ग्रं.१००००)(घो) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339