________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
221 विशेषा०
"नाम ठवणा दविए खेत्ते काले य गणणअणुपुब्बी । उकित्तण-संठाणे सामायारी य भावे य ॥ १॥" इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः १, इत्याह- 'नियमेत्यादि' नियमेन निश्च- " येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूर्व्याम् , गणनानुपूर्त्यां च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूामेतत् समवतरति । गणनं तु- एक, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-द्वचादिकायां संख्यायामिदमध्ययनमवतरति । अतो गणनानुपूामस्य समवतार इति ॥ ९४०॥
यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह
पुवाणुपुत्रिओ तं पढम, पच्छाणुपुविओ छठं । जायइ गणिज्जमाणं अनियमियमणाणुपुवीए ॥९४१।। __ इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूया नु षष्ठम् , अनानुपूर्व्या तु गण्यमानपनियमितं जायते-कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीयम्। इत्यमीषा षण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ ९४१॥
एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह
ऐंगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमद्गहीणा परिमाणमणाणुपूवीणं ॥ ९४२ ॥
एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गछगताः समवसेयाः । तत्र पण्णां गच्छ: समुदायः षड्गच्छः, तं गतास्तत्पतिबद्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमात्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाया एकोत्तरकाः षडध्ययनविषयाः षडङ्का व्यवस्थाप्यन्ते तद्यथा-१।२।३।४।५।६। एने च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको
१ नाम स्थापना व्यं क्षेत्र कालश्च गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ १॥ २ क.ग. रतात्यतो'। ३ पूर्वानुपतिस्तत् प्रथम, पश्चानुपूर्वीतः पष्टम् । जायते गण्यमानमनियमितमनानपूर्णम् ॥११॥
४ एकाद्या एकोत्तरकाः पडगच्छगनाः परस्पराभ्यस्ताः । प्रथमा-ऽन्तिमविकहीना परिमाणमनानुपूर्वीणाम् ॥ ९४२ ॥ ५ क.ग. 'रगणि' . गुणितो जानाः पर्द, तैश्र चत्वारो गुणिताः मंजाताचतुर्विंशतिः, तया च पत्राभ्यस्ता जातं विशं शतम् । तेन च षड्गुणिताः संपमानि विंशानेसप्तभङ्गकशतानि । इह च प्रथमभङ्गः पूर्वानुपूर्वी रूपः, चरमभङ्गस्तु पश्चानुपूात्मकः, अतस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि सामान्येन सर्वसंख्यारूपमनानुपूर्वीभङ्गकपरिमाणं भवति । एवं सप्तादीनामप्यनन्तपर्यन्तानां पदानामयमेव सामान्येन सर्वभङ्गकसंख्यानयनोपाय इति ॥ ९४२ ॥
अथ विशेषतोऽनानुपूर्वीभङ्गकानामानयनोपायभूनां करणगाथामाह
पुवायुपुब्बिहेट्ठा समयाभेएण कुण जहाजेठं । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो सेसो ॥ ९४३ ॥
इह विवक्षिनपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या 'हेट त्ति' अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः 'कुण त्ति' स्थापय 'एकादिपदानि' इति शेषः । कथम् , इत्याहु- ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं यो यस्यादौ स तस्य ज्येष्ठो यथा- द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वयमनुज्येष्ठः, चतुष्कादीनां त्वेकोऽपि ज्येष्ठानुज्येष्ठः; एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि । एवं च सत्युपरितनाङ्कस्याधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठः, इति गथाजेष्ठं निक्षेपं कुरु । किमनियमेन ?, न, इत्याह- समयाभेदेनेति, समयः संकेतः प्रस्तुतभङ्गकरचनव्यवस्था, तस्या अभेदोऽनतिक्रमस्तेन समयाभेदेन निक्षेपं कुरु । समयस्य च भेदस्तदा भवति, यदा तस्मिन्नेद भनके निक्षिप्ताकसदृशोऽपरोऽङ्कः पतति । तत एवंभूनं समयभेदं वर्जयन्नेव ज्येष्ठाद्यकनिक्षेपं विदध्यात् , उक्तं च
___“ अहिम्मि य निक्खेते पुणरवि सो चेव होइ कायव्वो । सो होइ समयभेओ वजेयव्यो पयत्तेण ॥ १॥"
निक्षिप्तस्य चाङ्कस्य यथासंभवं 'पुरओ त्ति' अग्रत उपरितनाङ्कस्तुल्यं सदृशं यथा भवति, एवं न्यस्येत्- उपरितनाङ्कसदृशानेवाकान पुरतः स्थापयदित्यर्थः । 'पुव्यकमो सेस त्ति' निक्षिप्ताङ्कस्य यथासंभवं पृष्ठतः शेष उद्वरितशेषाङ्कानामधस्तात् तानेवोद्वरितशेषानान् पर्वक्रमेण स्थापयदित्यर्थः । यः संख्यया लघुरेककादिःस प्रथम स्थाप्यते, यस्तु तया महान् स पश्चात् स्थाप्यत इति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिनि भावः।। इति गाथार्थः ।। १ क.ख.ग. 'ट् पदभिश्चन्त्रा' । २ प.छ. 'पटतादिताः' । ३ पूर्वानुपूर्यधस्तात् समयाभेदेन कुरु यथाज्येष्ठम् । उपरिमतुल्यं पुरतो न्यस्येत् पूर्वक्रमः शेएः ॥ ९४३ ॥
। यस्मिश्च निक्षिप्ते पुनरपि स एव भवति कर्नव्यः । स भवति समयभेदो वर्जितमः प्रयत्नेन ॥१॥x(ग्रं.१००००)(घो)
For Private and Personal Use Only