________________
Shri Mahavir Jain Aradhana Kendra
}
www.kobatirth.org
222
विशेषा०
भावार्थस्तु दिङ्मात्र दर्शनार्थं सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्श्यते तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथमोभङ्गः, तद्यथा - १ । २ । ३ । अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एककः, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उवरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः संपयते- २ । १ । ३ । अत्र च द्विकस्य विद्यत एकको ज्येष्ठः परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावेकक त्रिकौ क्रमेण स्थाप्येते 'पुव्वकमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः संजायते- १ । ३ । २ । अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उवरिमतुलं' इत्यादिवचनात्, पृष्ठतस्तु स्थापित शेषस्त्रिको व्यवस्थाप्यत इति चतुर्थो भङ्गः ३ । १ । २ । अत्र त्रिकस्य विद्यते द्विको ज्येष्ठः, एककथानुज्येष्ठः, परं तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तेः, एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य स्वस्त्येrst ज्येष्ठः स तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ द्विक त्रिकौ क्रमशः स्थाप्येते इति पञ्चमो भङ्गः - २ । ३ । १ । अत्र द्विकस्याऽस्त्येकको ज्येष्ठः किन्त्वसौ तदधस्ताद् न निक्षिप्यते, पुरतः सदृशाङ्कन्यासापच्या समयभेदमसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुलं' इति वचनात् पृष्ठतस्तु स्थापितशेषस्त्रिकः स्थाप्यत इति षष्ठो भङ्गः । एषां च षण्णामपि भङ्गानामियं स्थापना
।
१ । २ । ३ ।
२ । १ । ३ ।
Acharya Shri Kailassagarsuri Gyanmandir
१ । ३ । २ ।
३ । १ । २ ।
२ । ३ । १ ।
३ । २ । १ ।
अत्रायाद्यभङ्गस्यानुपूर्वीत्वात् अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु पञ्च-प- सप्तादीनामपि पदानामनया दिशा भङ्गकाः समानेतव्याः । तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च नामादिभेदा अनुयोगद्वारेभ्योऽवसेया इति ।। ९४३ ।।
अथ संक्षेपतो नाम विचारयन्नाह -
hi वत्थुणोऽभिहाणं पज्जयभेयानुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ ९४४ ॥
जीवादिवस्तुनोऽभिधानं तद् नामेति संवन्धः । कथंभूतम् १, इत्याह- पर्याया ज्ञान-दर्शन- चारित्र - रूप-रस- गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति १, इत्याशङ्कय तात्पर्यमाह - 'पइभेयमित्यादि' 'णम महत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति महीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ ९४४ ॥
एतच्च नाम द्विनाम-त्रिनामयावदशनामभेदाद् दशभेदम्, समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेषूक्तम् । तत्र षद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह -
विनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ ९४५ ॥
अनुयोगद्वाराध्ययने पड्नान्यौदयिकादयः पद् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एवं भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ।। ९४५ ॥
सांगतं प्रमाणमभिधित्सुराह
दैव्वाइच उन्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरइ ॥ ९४६ ॥
१. यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भणितम् ॥ ९४४ ॥
२ पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यम् श्रुतज्ञानावरणक्षयोपशमजं तत् सर्वम् ॥ ९४५ ॥
३ दुव्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययतं भाव इति भावमाने समवतरति ॥ ९४६ ॥
For Private and Personal Use Only