________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राज्ञो ग्रहः संलग्न, तत्
ततो विलक्षेण राज्ञा प्रोक्तम्-
न गङ्गा वहति ?" इति। ततः
220 विशेषा०
आगारिंगियकुसलं जइ सेयं वायसं वए पुजा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥९३३॥ निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥९३४॥
तिस्रोऽपि सुगमाः, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमना-ऽऽसनप्रदान-पर्युपास्त्य-अलिबद्धानुव्रजनादिलक्षणा, अनुत्तिस्त्विगिरतादिना गुरुचिसं विज्ञाय तदानुकूल्ये प्रवृत्तिा, ताभिः । द्वितीयगाथायामाकारेजितकुशल शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संबन्धि वचो न विकूटयेतून प्रतिहन्यात । विरो तद्विषर्य कारणं पृच्छेदिति ।
नृपपृष्टेन गुरुणा भणितो 'गमा केन मुखेन वहति । ततो यथा सर्वमपि गुरुभणित शिष्यः संपादितवान् , तथा सर्वत्र सर्वपयोजनेषु कार्यम् । इति तृतीयगाथाऽक्षरार्थः। भावार्थस्तु कथानकेनोच्यते-कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीमबन्धे प्रोक्तम-राजपुत्रा विनीताः। मूरिणा तूक्तम्-साधवः। ततो विवादे मूरिणाऽभ्यधायि- युष्मदीयः सर्वोत्कृष्टविनयगणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया मसिद्धो राजपुत्रः- 'कुतोमुखी गङ्गा वहति ?" इति शोधय । तेनोक्तम्- किमिह शोधनीयम् , बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गहा प्रवहति' इति । राज्ञा मोक्तम्-किमित्यत्रापि वितण्डावादं करोषि', गत्वा निरीक्षस्व तावत् । ततो हृद्यम्यावान् वहिः संहतिं कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः। सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्रक गन्तव्यम् । ततोऽसूयया प्रोक्तम्-अरण्ये रोझाना लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्यतिकरः । राजपुत्रेण सर्वमपि राजादिष्ट निवेदितम् । मित्रेणोक्तम्- यदि राज्ञो ग्रहः संलग्रः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी बहति' इति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षेण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विपये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षस्व, 'केन मुखेन गङ्गा वहति ?' इति। ततः 'पूर्वाभिमुखी सात्र वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम' इति ।
, आकारे-लितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटये विरहे च कारणं पृच्छेत् ॥ १३३ ॥
नृपवृष्टेन गुरुणा भणितो गङ्गा कुतोमुखी वहति ।। संपादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥ १३ ॥ समाधानान्तरमाह
अहवोवक्कमसामण्णओ मया पगयनिरुवओगा वि । अण्णत्थ सोवओगा एवं चिय सव्वनिक्खेवो ॥९३८॥ . यदिवा, प्रकने प्रस्तुते निरुपयोगाः प्रकृतनिरुपयोगाः, एवंभूता अपि सन्तो नाम-स्थापना-द्रव्याशुपक्रमा उपक्रमसामान्यतोऽन मता उपन्यस्ताः । कुतः?, इत्याह- अन्यत्र स्थानान्तरे सोपयोगा इति कृत्वा, न केवलमत्रैवाऽसौ न्यायः, किन्त्वत्र शास्त्रे, अन्येषु वा शास्त्रेषु ये केचन बहुमकारा नामादिनिक्षेपास्तेषां सर्वेपामप्यपरसमाधानाभावे इदमेव समाधानं वाच्यमिति । तदेवं नामादिभेदैर्दर्शितमुपक्रमस्य षविधत्वम् ।। ९३८॥
यदिवा, अन्यथैवाऽयमुपक्रमः षड्विध इति दिदर्शयिपुः प्रस्तावनामाह
गुरुभावोवक्कमणं कयमज्झयणस्स छन्विहमियाणिं । तत्थणुपुव्वाईसुं इदमज्झयणं समोयारे ॥ ९३९ ॥
तदेवं नामादिभेदैः षद्विधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम् । तत्करणे च दर्शितमेकेन प्रकारेणोपक्रमस्य पड्विधत्वम् । इदानी प्रकारान्तरेण प्रस्तुतस्य सामायिकाध्ययनस्य षड्विधमुपक्रमणमुच्यते- आनुपूर्वी-नाम-प्रमाण-चक्तव्यता-ऽर्थाधिकारसमवतारभेदात् षविध उपक्रमोऽभिधीयत इत्यर्थः । अत एवाह-आनुपूर्व्यादिषु पञ्चम्पक्रमद्वारभेदेषु षष्ठे समवतारद्वारभेदे विचार्यमाण इदं सामायिकाध्ययनं समवतारयेत् । ततश्चानुपूादिभेदेन पविध उपक्रमोऽभिहितो भवति । इत्यष्टादशगाथार्थः ॥ ९३९ ॥ - तत्रानुपूर्वीलक्षणे प्रथमोपक्रमभेदेऽस्य सामायिकाध्ययनस्यावतारं चिन्तयितुमाह
अणुपुब्बिसमोयारो कज्जो सामाइयस्स संभवओ । नियमावतारणं पुण कित्तण-गणणाणुपुव्वीसु ॥९४०॥
आनुपूर्ध्या तावदस्य सामायिकाध्ययनस्य समवतारः संभवतो यत्र यत्रानुपूर्वीभेदे समवतारः संभवति, तत्र तत्रासौ कर्तव्यः । आह- ननु
१ अथवोपक्रमसामान्यतो मताः प्रकृतनिरुपयोगा अपि । अन्यत्र सोपयोगा एवमेव सर्वनिक्षेपः ॥ ९३८ ॥ २५.छ, 'मनओ'। ३ गुरुभावोपक्रमणं कृतमध्ययनस्य पविधमिदानीम् । तत्रानुपूर्यादिषु इदमध्ययनं समवतारयेत् ॥ ९३९ ॥ ४ आनुपूर्वीसमवतारः कार्यः सामायिकस्य संभवतः । नियमादवतारणं पुनरुत्कीर्तन-गणनानुपूर्योः ॥ ९४.०॥ .
For Private and Personal Use Only