________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 219
विशेषा०
इह यच्छिष्यः स्वहितार्थ श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वात श्रुतं गुरुभावमुपक्रामति- इजिताकारादिना जानाति, स मोक्षफलत्वात् प्रशस्तभावोपक्रमः । तेनैव चेहाधिकारः, मोक्षार्थत्वादेव सर्वस्याऽस्य प्रारम्भस्येति ।। ९२९ ॥ . अत्र परः प्राह
'को वक्खाणावसरे गुरुचित्तोवकमाहिगारोऽयं ? । भण्णइ वक्खाणंगं गुरुचित्तोबक्कमो पढमं ॥ ९३०॥
नन्यावश्यकस्यानुयोगो व्याख्यानमिह पक्रान्तम् , ततस्तदवसरे प्रस्तुते कोऽयमप्रस्तुतेन गुरुचित्तोपक्रमेणाधिकार। अत्रीतरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् , यद् व्याख्यानमिह प्रस्तुतं भवता गीयते, तद् गुरुचित्तायत्तमेव । ततश्च गुरुचित्तो-' पक्रमः प्रथममेव व्याख्यानस्याकं कारणम् , कारणमन्तरेण च कार्यस्याभावात् तस्मिन् प्रकृते तत्कारणस्याधिकाराभिधानं न किश्चिदप्रस्तुतमिति ।। ९३०॥
न केवलं गुरुचित्तोपक्रमः प्रथम व्याख्यानम् , किन्तु यानि कानिचित् सामान्येन शास्त्राशुपक्रम-पुस्तको-पाश्रया-ऽऽहार-वस्त्रपात्र-सहायादीनि व्याख्यानाङ्गानि, तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुषसनं भवति, तथा कार्यम् , इति दर्शयन्नाह
गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं । तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥ ९३१ ॥
गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोवाऽप्रस्तुत इति भावः ॥ ९३१ ।।
गुरुचित्तप्रसादनोपायानेवाहजो जेण पगारेणं तुस्सइ करण-विणया-ऽणुवत्तीहिं । आराहणाए मग्गो सो चिय अव्वाहओ तस्स ॥९३२॥
को व्याख्यानावसरे गुरुचित्तोपक्रमाधिकारोऽयम् । । भण्यते व्याख्यानाझं गुरुचित्तोपक्रमः प्रथमम् ॥ ९३०॥ गुरुचित्तायसानि ब्याण्यामानानि येन सर्वाणि । ततो येन सुप्रसनं भवति तत् तत् तथा कार्यम् ॥ ९॥
यो येन प्रकारेण तुण्यति करण-विनया-अनुवृत्तिभिः । भाराधनाया : स एवाऽव्याहतस्तस्य ॥ ९३२ ॥ (मार्गः) आगारिंगियकुसलं जइ सेयं बायसं वए पुजा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥९३३। निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्यं ॥९
तिम्रोऽपि सुगमा, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमनाऽऽसनप्रदान-पर्युपास्त्य-ऽञ्जलिबद्धानुव्रजनादिलक्षणः, अनुवृत्तिस्त्विह्नितादिना गुरुचित्तं विज्ञाय तदानुकूल्ये प्रवृत्तिः, ताभिः । द्वितीयगाथायामाकारेङ्गितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संवन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति ।
नृपपृष्टेन गुरुणा भणितो 'गङ्गा केन मुखेन वहति ? । ततो यथा सर्वमपि गुरुभणितं शिष्यः संपादितवान् , तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् । इति तृतीयगाथाऽक्षरार्थः । भावार्थस्तु कथानकेनोच्यते- कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीप्रवन्धे प्रोक्तम्- राजपुत्रा विनीताः। मूरिणा तूक्तम्-साधवः। ततो विवादे मूरिणाऽभ्यधायि-युष्मदीयः सर्वोत्कृष्टविनयगुणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया प्रसिद्धो राजपुत्रा- 'कुतोमुखी गङ्गा वहति ?' इति शोधय । तेनोक्तम्- किमिह शोधनीयम् , बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गङ्गा प्रवति' इति । राज्ञा प्रोक्तम्- किमित्यत्रापि वितण्डावादं करोपि ?, गत्वा निरीक्षस्त्र तावत् । ततो हृद्यम्यावान् बहिः संवृति कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः । सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्रक गन्तव्यम् । ततोऽसूयया मोक्तम्-अ. रण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्यतिकरः। राजपुत्रेण सर्वमपि राजादिष्ट निवेदितम् । मित्रेणोक्तम्- यदि राज्ञो ग्रहः संलग्नः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति' इति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षख, 'केन मुखेन गङ्गा वहति ?" इति। ततः 'पूर्वाभिमुखी सान वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम्' इति ।
, आकारे-जितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटयेद् विरहे च कारणं पृच्छेत् ॥ ९३३ ॥ भ्युपगत)
नृपपृष्टैन गुरुणा भणितो गङ्गा कुतोमुखी वहति ? । संपादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥ ९३४ ॥
For Private and Personal Use Only