________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
218 विशेषा०
छायाए नालियाए च परिकम्मं से जहत्थविण्णाणं । रिक्खाइचारेहिं च तस्स विणासो विवज्जासो॥९२७॥
'सेतस्य समया-ऽऽवलिका-घटिका-मुहूर्तादिलक्षणस्य कालस्येदमेव परिकर्म। यत्, किम् ?, इत्याह- यद् यथार्थविज्ञानं यथावत् परिज्ञानम् । कया, इत्याह-शनकादिप्रतिच्छायारूपया छायया, घटिकारूपया च नाडिकया। विनाशस्तर्हि तस्य का, इत्याह- विपर्यासो वैपरीत्यभवनम्- अनिष्टफलदायकतया परिणमनमित्यर्थः। कैः, इत्याह- ऋक्ष-ग्रहादिना, तथा च वक्तारो भवन्ति- 'अमुकेन नक्षत्रेण, अमुकेन ग्रहेण चेत्थमित्थं च गच्छता विनाशितः कालः' इति । उक्तः कालोपक्रमः॥ ९२७ ॥
अथ भावोपक्रममाह
जै परहिययाकूयावधारणमुवक्कमो स भावस्स । तस्सासुभस्स मरुइणि-गणिया-मच्चादओऽभिहिया ॥९२८॥
इह यदिङ्गिताकारादिना परहृदयाकूतस्य परकीयभावस्याऽवधारणं परिज्ञानं स सामान्येन भावोपक्रमः । स च विशेषितो द्विधा- संसारकारणभूतोऽप्रशस्तः, मोक्षनिवन्धनभूतस्तु प्रशस्तः। तत्राऽशुभस्य तस्य भावोपक्रमस्य ब्राह्मणी-वेश्या-अमात्यादयो दृष्टान्ताः प्रतिपादिताः । तद्यथा
एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः। तासां च परिणयनानन्तरं तथा करोमि यथैताः मुखिता भवन्ति, इति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत् , यदुत-त्वया वासभवनसमागमे खभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्यः। हतश्च यदनुतिछति तद् ममाऽऽख्येयम् । कृतं च तया तथैव । सोऽप्यतिनेहतरलितमनाः 'अयि पियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्य. भिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार । अमुच व्यतिकरं सा मात्रे निवेदितवती । साऽप्युपक्रान्तजामात्रिकभावा हृष्टा दुहितरं प्रत्यवादीत्- पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता । तयापि च तथैव स्वभः शिरसि प्रहतः, केवलमसौ 'नैतत् कुलप्रमूतानां युज्यते' इत्यादि किश्चित् क्षणमेकमृपित्वा ध्युपरतः। तस्मिंश्च व्यतिकरे तया मातुनिवेदिते प्रोक्त मात्रा- वत्से! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं तव भर्ता क्षणमेकं मृषित्वा स्थास्यति । एवं
छायथा नाडिकया च परिकर्म सस्य यथार्थविज्ञानम् । श्ररक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ ९२७ ॥ " २ यन् परहृदयाकृतावधारणमुपक्रमः स भावस्य । तस्याशुभस्य ब्राह्मणी-गणिका-ऽमात्यादयोऽभिहिताः ॥ ९२८ ॥३५. छ. ' विजृम्भख तद्गृहे के। मिरिपाटपि मान शिक्षितया दुहित्रा तथैव महतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचित विध प्ला इत्याद्यभिधाय गाई कुट्टायत्वा निष्कासिता गृहात । तया च गत्वा सर्व मात्र निवेदितम् । ततस्तया विज्ञातजामातृवभावया तत्समीपं गत्वा 'वत्स! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा परस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्मणीदृष्टान्तः।
अथ गणिकादृष्टान्त उच्यते-- एकस्मिन् नगरे चतुःपष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत तदेव चित्रलिखितं दृष्ट्राऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति गणिकादृष्टान्तः।
___ अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्गतः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्विरमवलोकितवास्तदिति । ततश्चेगिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं सरः। अमात्यो जगाद--देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसाद चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥९२८॥
अथ प्रशस्तभावोपक्रममाह
सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवकमोऽहिगओ ॥९२९॥ x(मुह), क. ग. 'वं शि' । २ क. ख. ग. महास' । ३ शिष्यो गुरोर्भावं यदुपक्रमते श्रुतं प्रशस्तमनाः । स्वहिताथै, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ ९२९ ॥
For Private and Personal Use Only