________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
217 विशेषा० तत्राद्यभेदद्वयं सुगमम् । तद्यतिरिक्तद्रव्योपक्रमस्तु सचित्तादिभेदात् त्रिविधः। तत्र सचित्तद्रव्योपक्रमो द्विपद-चतुष्पदादीनाम् , अचित्तद्रव्योपक्रमो गुड-खण्ड-कुसुम्भादीनाम् , मिश्रद्रव्योपक्रमस्तु तेषामेवाऽऽभरणादियुक्तानां द्विपदादीनाम् । अयं च सचित्ताग्रुपक्रमः प्रत्येकं पुनरपि द्विधा-परिकर्मणि, वस्तुनाशे चेति ॥ ९२२ ।।
तत्र परिकर्म-विनाशयोः स्वरूपमाह
परिकम्म किरियाए वत्थूणं गुणविसेसपरिणामो । तदभावे य विणासो दवाईणं जहाजोगं ॥ ९२३ ॥
इह परिकर्मोच्यते । किम् ?, इत्याह-क्रियया क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणामो गुणविशेषाधानमित्यर्थः । तद्यथा-पुरुषादीनां घृत-रसायनाशुपयोगक्रियया, स्नेहमर्दनादिक्रियया च वर्ण-बल-वयास्तम्भादयः, कर्ण-स्कन्धवर्धनादयश्च क्रियन्ते । केचित् शास्त्र-शिल्प-गन्धर्ववृत्यादिकलाऽऽपादनमपि प्रस्तुतोपक्रममाचक्षते । एतच्च विज्ञानविशेषाधानरूपत्वाद् भावोपक्रमो युज्यतेयदिवा, आत्मद्रव्यसंस्कारविवक्षया द्रव्योपक्रमेऽप्यविरोधः। एवं शुक-सारिकादीनामपि शिक्षागुणाधाने भावनीयम् । इत्युक्तः परिकर्मणि द्विपदादीनां सचित्तद्रव्योपक्रमः।
अथ वस्तुनाशोपक्रम उच्यते- 'तदभावे विणासो त्ति' तदभाचे वस्त्वभावापादने विनाशो विनाशस्योपक्रम इत्यर्थः, तेषामेव पुरुषादीनां कालान्तरभाविनो विनाशस्य खड्गादिभिरुपक्रम्येदानीमेव क्रियमाणत्वादिति । एवं चतुष्पदानामपि हस्त्य-वादीनाम् , अपदानां दाडिमा-ऽऽम्र-कपित्यादीनां परिकर्म-विनाशौ भावनीयाविति । एवं सचित्तद्रव्योपक्रमः । अचेतनस्य तु मणि-पौक्तिक-वस्त्रादेः क्षार-मृत्पुटपाकादिना परिकर्मोपक्रमः, घेनाऽऽघातादिना तु नाशोपक्रमः । मिश्रद्रव्यस्य पुनस्तस्यैव द्विपदादेवस्खालङ्कारादियुक्तस्य द्विविधोऽप्युपत्रमो भावनीयः । एवं यथा द्रव्यस्योपक्रमः, एवमादिशब्दात् क्षेत्र-कालयोरपि यथायोगं भावनीयः । अत एवोक्तम्-'दब्वाईणं जहाजोगं ति' । तं च क्षेत्र-कालोपक्रम 'नावाए उवकमण' इत्यादिना स्वत एव वक्ष्यतीति ।। ९२३ ॥
अत्र पराभिप्रायमाशङ्कय परिहरनाह'खेत्तमरूवं निच्चं न तस्स परिकम्मणा न य विणासो । आहेयगयवसेण उ करण-विणासोवयारोऽत्थ।।१२४॥
, परिकर्म क्रियया वस्तूनां गुणविशेषपरिणामः । तदभावे व विनाशो द्रव्यादीनां यथायोगम् ॥ ९२३ ॥ २ क. ग. 'घनघा' । ३ गाथा ९२५ ।
क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतवशेन न करण-विनाशोपचारोऽत्र ॥ ५२४ ॥ मां-1+स्नेहन-। क्षेत्रममूर्तम् , नित्यं च, इनि न तस्य परिकर्म-विनाशो कर्तुं शक्यते तदाधेयद्रव्यस्य तु जल-भूम्यादेस्तौ सुप्रतीतावेव । ततस्तद्गतयोस्त योरत्र क्षेत्रे 'मश्नाः क्रोशन्ति' इत्यादिन्यायादुपचारः क्रियत इति ॥ ९२४ ॥
... छ॥९३९ आधेयद्वारेणापि कथं क्षेत्रस्य तौ भवतः १, इत्याह
नावाए उवक्कमणं हल-कुलियाईहिं वा वि खेत्तस्स । संमजभूमिकम्मे पंथतलागाइयाणं च ॥ ९२५ ॥
जलाधारस्य क्षेत्रस्य नावुडुपादिभिरुपक्रमः क्रियते, भूम्याधारस्य तु तस्य हल-कुलिकादिभिः परिकर्मोपक्रमः । तत्र हलं प्रतीतम् , कुलिकं तु दन्तालवनिर्यक्कृतकाठे उभयपार्थनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनार्थ क्षेत्रेषु यद् वाहते, नल्लाटादिकृषीवलपतीतं वेदितव्यम् । एवं संमार्जन-भूमिकर्म-मार्गतडागादीनां च करणेन परिकर्मणि क्षेत्रोपक्रमः । विनाशोपक्रमस्तु क्षेत्रस्य गजबन्धनादिभिर्विज्ञेय इति ।। ९२५ ॥ - अथ कालोपक्रममाह
. जं वत्तणाइरूवो कालो दव्वाण चे पजाओ । तो तकरणविणासे कीरइ कालोवयारोऽत्थ ॥ ९२६ ॥
यद् यस्मात् कारणात् 'कालश्चेत्येके' इति वचनाद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः, न पुनरन्यः कश्चित् समयावलिकादिरूपः, ततस्तत्करण-विनाशयोईव्यस्य परिकर्म-विनाशयोः सतोरित्यर्थः, अत्रैव तत्पर्याये कालोपक्रमोपचारः क्रियते । इदमुक्तं भवति- इह केचिद् वर्तनादिरूपमेव कालमिच्छन्ति, न पुनः सगयादिरूपम् । तत्र तेन तेन घणुक-त्र्यणुकादिरूपेण परमाण्वादिद्रव्याणी वनेनं वर्तना, आदिशब्दात् परिणाम-क्रियादिपरिग्रहः, नव-पुराणादिभावेन वस्तूनां परिणमनं परिणामः। अतीता-ऽनागत-वर्तमानलक्षणा तु क्रिया । तदेष वर्तना-परिणाम-क्रियादिरूपः कालो द्रव्याणामेव पर्यायः, नान्यः । ततो द्रव्यस्य परिकर्म-विनाशौ वर्तनादिरूपे तत्पर्यायेऽप्युपचर्येते इति ॥ ९२६ ॥ __आह-ननु ये समयादिरूपं कालमिच्छन्ति, तदभिप्रेतस्य समयादिकालस्य कथं परिकर्म-विनाशौ ?, इत्याशङ्कयाह
नावोपक्रमण हल-कुलिकादिभिर्वापि क्षेत्रस्य । संमार्जभूमिकर्मणि पथितडागादिकानां च ॥ ९२५ ॥ २ यद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तस्करण-विनाशयोः क्रियते कालोपचारोऽत्र ॥९२६ ॥
यद् यस्मात् कारण विनाशयोव्यस्य परिकमावना गयादिरूपम् । तत्र तेन तनारणमन परिणामः । अती
For Private and Personal Use Only