________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
विशेषा०
पारमा
walihindidationakashidnikRADHANE
नाऽपि नयमतविकलोऽनुगम इति । यतश्च संबन्धरूप उपक्रमः संवन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय। यस्तनिक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते व्याख्यायते नानाविधाने नाभेदैनौः। तस्मादयमेवानयोग-1 द्वारक्रमः॥९१५ ।। ९१६ ॥
॥ इति क्रमप्रयोजनद्वारं समाप्तम् ॥
॥ तत्समाप्तौ च 'तस्स फल-जोग' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावीपक्रमतो विस्तरेण पुरस्तात् वक्ष्यते । तथा, आनुपूर्वी नाम-प्रमाण-वक्तव्यता-ऽर्थाऽधिकार-समवतारलक्षणैः बलिदैविस्तरेणाभिधास्यते । बिस्तरवतश्वार्थस्यैदेपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थ वक्ष्यमाणभावोपक्रमगतम्) आनुपादिषडर्थगतं च संक्षेपमाह
गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टइ किमिदं दव्वं गुणो कम्मं १ ॥९१७॥ जीवगुणोऽजीवगुणो किं नाणं दसणं चरित्तं वा । पञ्चक्खं अणुमाणं ओवम्ममहागमो वावि ॥ ९१८ ॥ लोडय लोउत्तरिओ किं सुयमत्थोऽहयोभयं होज्जा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ॥९१९॥ किं विहिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को बच्चो ? ॥९१०॥
को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेबमाईहिं ॥ ९२१॥ इह सामायिकायध्ययनार्थ शुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुमसनः स्यादिति भावोपक्रम१ गाथा २ । २ गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म १ ॥ ९१७ ॥
जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमथाऽऽगमो वापि ॥ ९१८ ॥ लौकिको लोकोत्तरिकः किं श्रुतमोऽथवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य । ॥ ९१९ ॥ किं दृष्टिबादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ १२०॥
को वा समयकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तव्यमिहैवमादिभिः ॥ ९२१ ॥ संक्षेपार्थः । परिपाटी- आनुपूर्युच्यते । सा च त्रिविधा वक्ष्यते. तद्यथा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेहाध्ययने का परिपाटी प्रोजनवती, इति प्रश्ने त्रिविधापीह सप्रयोजनेति वाच्यम् । तथा, पूर्वानुपूादिना चिन्त्यमानमिदमध्ययन कतिथम् । इति प्रष्टव्यम् । तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूा पष्ठम् , अनानुपूर्व्या पुनः सातिरेकसप्तभङ्गकशतविषयत्वादनियतमिति वक्ष्यते । इत्यानुपूर्वीसंक्षेपार्थः । नाम पुनरोदयिकादिपभावविषयत्वात् पविधं वक्ष्यते । तत्र कस्मिन् भावे इदमध्ययनं वर्तते ? इति प्रष्टव्यम् । तत्र च क्षायोपशमिक भावे वर्तत इति वक्ष्यते । इति नामसंक्षेपार्थः । प्रमाणविषयसंक्षेपमाह- 'किमिदमित्यादि' किमिदमध्ययन द्रव्यम् , गुणः, कर्यवा? इति चिन्ताय गुण इति वाच्यम् । गुणत्वेऽपि किं जीवगुणः, अजीवगुणः इति चिन्तायां जीवगुण इति वक्तव्यम् । जीवगुणवेऽपि किं ज्ञानं, दर्शनं, चारित्रं वा? इति चिन्तायां ज्ञानमिति वक्ष्यते । तदपि किं प्रत्यक्षम् , अनुमानम् ,
औपम्यम, आगमो वा ? इनि चिन्तायामागम इति वक्ष्यते । आगमत्वेऽपि किमसौ लौकिकः, लोकोत्तरोवा? इति चिन्तायां लोकोत्तर इति वक्ष्यते । लोकोत्तरत्वेऽपि कि मूत्रागमः, अर्थागमः, उभयागमो वा?; तथा, किमात्मागमः, अनन्तरागमः, परम्परागमो वा इति चिन्तायां तीर्थकराणामर्थत इदमध्ययनमात्मागमः, सूत्रतस्तु गणधराणामात्मागम इत्यादि वक्ष्यते । अपि च, लोकोत्तरागमत्वेऽपि किमिदमध्ययनं दृष्टिवादिकम् , कालिकं वा ? इति चिन्तायां कालिकमिति वाच्यम्- कालवेलावर्जे काले पठ्यत इत्यर्थः । कालि. कत्वेऽपि किमस्य मूत्रार्थपरिमाणम् ? इति वाच्यम् । इति प्रमाणसंक्षेपार्थः । स्व-परो-भयसमयानां मध्ये कोऽत्र वक्तव्यः ? इति पश्ने खसमयोऽत्र वक्तव्यः । इति वक्तव्यतासंक्षेपार्थः । स्वसमयत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाऽधिक्रियते ? इति प्रश्ने, सावद्ययोगविरतिरिहार्थाधिकार इति प्रतिवचनम् । इत्यर्थाधिकारसंक्षेपार्थः । समवतारस्त्वानुपूर्व्यादिषु विहित एवेति । एवमादिभिः प्रकाररस्याध्ययनस्योपक्रमणं निक्षेपयोग्यताऽऽपादनं कर्तव्यम् । इत्युपक्रमसंक्षेपार्थः। इति सप्तदशगाथार्थः ॥९१७॥९१८॥९१९॥९२०॥९२१॥
अथ पूर्व यदुक्तम्- 'उपक्रमः पड्भेदः । तत्र तानेव षड् भेदान् खरूपतः पाह
नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ ९२२ ॥
इह नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावोपक्रमभेदादुपक्रमः षड्भेदः। तत्र नाम-स्थापने सुगमे । द्रव्योपक्रमस्त्वागमतः, नोआगमतश्च । तत्रागमत उपक्रमपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतस्तु ज्ञशरीरद्रव्योपक्रमः, भव्यशरीरद्रव्योपक्रमः, तद्व्यतिरिक्तद्रव्योपक्रमश्च ।
१. छ. 'व्या तु ष' २ नामादिः पड्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधश्च पुनर्द्विविधः परिकर्मणि वस्तुनाशे च ॥ ९२२ ॥
For Private and Personal Use Only