Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 216
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 203 विशेषा० 'नोआगमओ भावे लोइय लोउत्तरं पुराभिहियं । सम्मत्तपरिग्गहियं सम्मसुयं मिच्छमियर ति ॥८७९॥ नोआगमतो भावश्रुतं द्विविधम्- लौकिक, लोकोत्तरं च । तत्र लौकिक भारत-रामायणादि । इदं चेहैव पूर्व श्रुतज्ञानविचारे मोक्तम् । लोकोत्तरं त्वङ्गप्रविष्टादि, इदमपि पूर्व तत्रैवोक्तम् । एतच्च सर्व सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ॥ ८७९ ॥ अत्र प्रेरका पाह आगमओ भावसुयं जुत्तं नोआगमे कहं होइ । जइ नागमो न सुतं, अह सुत्तमणागमो किह णु?॥८८०॥ यदागमतो भावथुलमुक्तम् तद् युक्तम्- घटत एव । नोआगमतस्तु भावश्रुतं कथं भवति ?-न घटत एवैतदित्यर्थः । तथाहिमोशब्दस्तावद् निरोधवचनः, ततश्च यदि न- नैवाऽऽगमः, तर्हि न श्रुतम् , तस्याऽऽगमरूपत्वात् । अथ श्रुतम् , तीनागमः कथम् ।। तस्माद् नोआगमतो भायश्रुतमिति 'माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति ॥ ८८०॥ प्रेरक एवाऽऽशङ्कयाह 'उवओगो जम्मत्ते तं तं जइ वागमोऽवसेसं तु । नोआगमो त्ति एवं किमणुवउत्तम्मि दव्वसुयं? ॥ ८८१ ।। __ यदिवा, एवं सिद्धान्तवादी यात्- यावन्मात्रे यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम् , यत् त्ववशेषमनुपयुक्तस्याऽध्येतुः श्रुतं तद् नोआगपतो भाषश्रुतमिति सर्व सुस्थमिति | हन्त ! तर्हि 'आगपओ दब्बसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत् पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात् , तद्विषयस्येदानी नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् - निर्विषयमेव तत् स्यादिति भावः ॥ ८८१ ॥ पर एवाचार्यमतमाशङ्कय परिहरबाहअविसुद्धनयमएण ब जई लद्धिसुयमणुवउत्ते वि । भावसुयं चिय पढओ किमणुवउत्तस्स दव्वसुर्य ?॥८८२॥ नोआगमतो भावे लौकिकं लोकोत्तरं पुराभिहितम् । सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं मिथ्येतरदिति ॥ ८७९ ॥ २ आगमनो भावश्रुतं युक्तं नोआगमे कथं भवति ।। यदि नागमो न सूत्रं, भथ सूत्रमनागमः कथं नु॥ ८ ॥ ३ उपयोगो यन्माने तत्तद् यदि वाऽऽगमोऽवशेषं तु । नौआगम इत्येवं किमनुपयुक्त वष्यश्रुतम् ॥ ८॥ ४ गाथा ८७७ ॥ ५ अविशुद्ध नयमतेन या यदि लब्धिश्रुतमनुपयुक्तऽपि । मावश्रुतमेव पठतः किमनुषयुक्तस्य द्रव्यश्रुतम् ।।८८२॥ यदि च मूरिरेतद् यात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम्, इति न तस्य निर्विषयतेति भावः । इन्त । तनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् , तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतपाप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भावः। न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ ८८२ ॥ अथाचार्यः प्रतिविधानमाइ• आगम सुओवओगो सुद्धो चिय न चरणाइसंमिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥८८३॥ इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते-परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचन नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः। यदिवा, चरणादिमिश्रेषि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्थ विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्न विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥८८३ ॥ तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह चैरणाइसमेयम्मि उ उवओगो जो सुए न तओ समए। नोआगमो-त्ति भण्णइ नोसदो मीसभावम्मि ॥८८४॥ चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दवेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोऽत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात, देशनिषेधवचनो वा ॥८८४ ॥ तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसम्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु॥८८५॥ 1 आगमतः श्रुनोपयोगः शुद्ध एव न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्य चरणादिभिन्नस्य ॥ ६८३X क्षिन्यादा-1 २ चरणादिसमेने नपयोगो यः श्रुने सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ ८८४ ॥ सर्वनिषेधे दोपः सर्वश्रुतमनागमः प्रसन्गेन । भवेद् वाऽनागमतः श्रुतवजमनागमश्रुतं तु ॥ ८८५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339