________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
203 विशेषा०
'नोआगमओ भावे लोइय लोउत्तरं पुराभिहियं । सम्मत्तपरिग्गहियं सम्मसुयं मिच्छमियर ति ॥८७९॥
नोआगमतो भावश्रुतं द्विविधम्- लौकिक, लोकोत्तरं च । तत्र लौकिक भारत-रामायणादि । इदं चेहैव पूर्व श्रुतज्ञानविचारे मोक्तम् । लोकोत्तरं त्वङ्गप्रविष्टादि, इदमपि पूर्व तत्रैवोक्तम् । एतच्च सर्व सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ॥ ८७९ ॥
अत्र प्रेरका पाह
आगमओ भावसुयं जुत्तं नोआगमे कहं होइ । जइ नागमो न सुतं, अह सुत्तमणागमो किह णु?॥८८०॥
यदागमतो भावथुलमुक्तम् तद् युक्तम्- घटत एव । नोआगमतस्तु भावश्रुतं कथं भवति ?-न घटत एवैतदित्यर्थः । तथाहिमोशब्दस्तावद् निरोधवचनः, ततश्च यदि न- नैवाऽऽगमः, तर्हि न श्रुतम् , तस्याऽऽगमरूपत्वात् । अथ श्रुतम् , तीनागमः कथम् ।। तस्माद् नोआगमतो भायश्रुतमिति 'माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति ॥ ८८०॥
प्रेरक एवाऽऽशङ्कयाह
'उवओगो जम्मत्ते तं तं जइ वागमोऽवसेसं तु । नोआगमो त्ति एवं किमणुवउत्तम्मि दव्वसुयं? ॥ ८८१ ।। __ यदिवा, एवं सिद्धान्तवादी यात्- यावन्मात्रे यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम् , यत् त्ववशेषमनुपयुक्तस्याऽध्येतुः श्रुतं तद् नोआगपतो भाषश्रुतमिति सर्व सुस्थमिति | हन्त ! तर्हि 'आगपओ दब्बसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत् पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात् , तद्विषयस्येदानी नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् - निर्विषयमेव तत् स्यादिति भावः ॥ ८८१ ॥ पर एवाचार्यमतमाशङ्कय परिहरबाहअविसुद्धनयमएण ब जई लद्धिसुयमणुवउत्ते वि । भावसुयं चिय पढओ किमणुवउत्तस्स दव्वसुर्य ?॥८८२॥
नोआगमतो भावे लौकिकं लोकोत्तरं पुराभिहितम् । सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं मिथ्येतरदिति ॥ ८७९ ॥ २ आगमनो भावश्रुतं युक्तं नोआगमे कथं भवति ।। यदि नागमो न सूत्रं, भथ सूत्रमनागमः कथं नु॥ ८ ॥ ३ उपयोगो यन्माने तत्तद् यदि वाऽऽगमोऽवशेषं तु । नौआगम इत्येवं किमनुपयुक्त वष्यश्रुतम् ॥ ८॥ ४ गाथा ८७७ ॥
५ अविशुद्ध नयमतेन या यदि लब्धिश्रुतमनुपयुक्तऽपि । मावश्रुतमेव पठतः किमनुषयुक्तस्य द्रव्यश्रुतम् ।।८८२॥ यदि च मूरिरेतद् यात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम्, इति न तस्य निर्विषयतेति भावः । इन्त । तनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् , तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतपाप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भावः। न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ ८८२ ॥
अथाचार्यः प्रतिविधानमाइ• आगम सुओवओगो सुद्धो चिय न चरणाइसंमिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥८८३॥
इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते-परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचन नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः। यदिवा, चरणादिमिश्रेषि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्थ विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्न विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥८८३ ॥
तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह
चैरणाइसमेयम्मि उ उवओगो जो सुए न तओ समए। नोआगमो-त्ति भण्णइ नोसदो मीसभावम्मि ॥८८४॥
चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दवेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोऽत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात, देशनिषेधवचनो वा ॥८८४ ॥
तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसम्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु॥८८५॥
1 आगमतः श्रुनोपयोगः शुद्ध एव न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्य चरणादिभिन्नस्य ॥ ६८३X क्षिन्यादा-1 २ चरणादिसमेने नपयोगो यः श्रुने सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ ८८४ ॥ सर्वनिषेधे दोपः सर्वश्रुतमनागमः प्रसन्गेन । भवेद् वाऽनागमतः श्रुतवजमनागमश्रुतं तु ॥ ८८५॥
For Private and Personal Use Only