________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
210
विशेषा ०
सर्व निषेधवचने नोशब्देऽत्र गृहमाणे दोषः प्रसज्यते । कः 3, इत्याह- 'सव्वसुयमित्यादि' नोआगमतो भावश्रुतमिति को st :- अनागमः सर्वमपि यद् भावश्रुतमिति - सर्वनिषेधवाचकत्वे नोशब्दस्य सर्वस्यापि भावश्रुतस्याऽऽगमत्वनिषेधः स्यादिति भावः अयुक्तं चैतत् श्रुतस्यागमत्वेने सुप्रतीतत्वात् । अथवा, सर्वनिषेधवाचके नोशब्दे नोआगमतो भावश्रुतमित्ययमर्थः स्यात् । कः ? इत्यत्रोच्यते - अनागमतोऽनागमत्वात् श्रुतवर्ज मत्यादिचतुष्टयात्मकं यदनागमरूपं ज्ञानं तत् श्रुतं भावश्रुतं भवेदिति - अश्रुतरूपस्यापि मत्यादिज्ञानचतुष्टयस्य श्रुतप्रसङ्गः स्यादिति भावः ॥ ८८५ ॥
देशनिषेधवचनेऽप्यत्र नोशब्दे दूषणमाह
देसेनि सयलं नोआगमओ सुयं म पांवेज्जा । भिन्नं पिव तं देसो चरणाईणं पसज्जेज्जा | ८८६ ॥
देशनिषेधवचने नोशब्दे सकलमाप्याचारादि श्रुतं नोआगमतो भावश्रुतं न प्राप्नुयात्- न स्यात्, किन्तु तदेकदेश एव नो गमतो भावश्रुतं स्यादित्यर्थः । सर्वश्रुतस्य चैतदिष्यते, समस्तस्यापि द्वादशाङ्गगणिपिटकस्य ज्ञान-दर्शन- चारित्रपर्याय पिण्डात्मकत्वा आगमत्वेन सिद्धान्ते रूढत्वात् एतच्च मिश्रवचन एव मोशब्दे घटते, नान्यथेति भावः । अत्रैकदेशनिषेधपक्षे दूषणान्तरमाह'भिन्नं पिवेत्यादि' 'वा' इत्यथवा, भिन्नमपि पृथग्भूतमपि सत् तद् भावश्रुतं चरणादीनामेकदेशः प्रसज्येत अभिनदेश वेष्यते चरणादिभिः सह धाजनक पिशवर्णकवत् ; अन्यथा संकरैकत्वादिदोषप्रसङ्गादिति ॥ ८८६ ॥
किञ्च, देशनिषेधको नोशब्द एकदेशवाचकः, तत्र वापरोऽपि दोषः । कः १, इत्याह-
होज्ज व नोआगमओ सुअवउत्तो वि जं स देसम्मि । उवजुज्जइ न उ सव्वे तेणायं भीसभावम्मि॥८८७
यः श्रुतोपयुक्तः पूर्वमागतो भावश्रुतमुक्तः सोऽपि नोशब्दस्य देशवचनत्वे नोआगमतो भावश्रुतं भवेत् । कुतः १, इत्याहयद्यस्मात् श्रुतैकदेश एवोपयुज्यते, न तु सर्वस्मिन्नपि श्रुते, सर्वस्यापि श्रुतस्याऽनन्ताभिलाप्यार्थविषयत्वात् एतदुपयोगस्य चैकदाsभवात् । तचैकदेशवचनत्वे नोशब्दस्याऽयं नोआगमः । तस्माद् येनैवं सति आगम-नो आगमभावश्रुतयोरविशेषः प्राप्नोति, सेनाsयं नोशब्दो मिश्रभावे ग्राह्य इति ।। ८८७ ॥
१ क.ख. 'न प्र' । २ देशनिषेधे सकलं नोआगमतः श्रुतं न प्राप्नुयात् । भिन्नमपि वा तद् देशश्वरणादीनां प्रसज्येत ॥ ८८६ ॥ ३ भवेद् वा नोआगमतः श्रुतोपयुक्तोऽपि यत् स देशे । उपयुज्यते न तु सर्वस्मिन् तेनाऽयं मिश्रभावे ॥ ८८७ ॥
अथ प्रेरकाभिप्रायमाशङ्कमान आह
Acharya Shri Kailassagarsuri Gyanmandir
आ न मीस भावे नाभिहिओ, अभिहिओ य नोसदो। देसे तदन्नभावे दव्वें किरियाए भावे य ॥८८॥
आह- प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदभिहितः । किं तर्हि १, देशादिषु पञ्चस्वर्थेष्वभिहितः । तत्र देशे नोघटो घटैकदेश उच्यते, यतो घटैकदेशस्तावदघटो न वक्तव्यः, नापि घटः, किं तर्हि १, नोघटः । तथाहि घटैकदेशस्य ग्रीवादेरघट वे तदन्यदेशानामपि तद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं पटे-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः । नापि घटैकदेशो घटः, एवं हि प्रत्यवयवं घटप्राप्त्यैकस्मिन्नपि घंटे घटवाहुल्यापत्तिः, तथा च सत्येकघटविषयमवृत्ति निवृत्यादिव्यवहारोच्छेदप्रसङ्गः । तस्मात् पारिशेष्याद् घटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः । तदन्यभावेऽपि नोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिर्गम्यते । द्रव्ये तु नोशब्दो घटैकदेशवचनादि :- नो घटः, नो पटः, नो स्तम्भ इत्यादिदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः १, इति चेत् । उच्यते- तत्र घटादिसंबद्ध एव तदेकदेशो नोघटादिरुक्तः, अत्र तु स एव घटायेकदेशो ग्रीवादिः पृथग्भूतो रथ्यादिपतितः स्वतन्त्र एव गृह्यते । स च घटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम् इति द्रव्ये नोशब्दः । क्रियानिषेधवचनो नोशब्द:- 'नो पचति, नो पक्तव्यमित्यादि । भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि । भाव क्रिययोश्व विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं विवक्षावशाद्देशादिष्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति ॥ ८८८ ॥
अत्रोत्तरमाह
चमयं देसाई तहवत्थवसेण सद्दविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावे वि ॥८८९ ॥ सत्यम्, देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशाच्छन्दानां विनियोगः- यो यत्राऽर्थो घटते, तस्मिन्नर्थे तत्र ते प्रयु ज्यन्त इत्यर्थः । आह- नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते येनैवमुच्यते १, इत्याशङ्कयाह- द्योतकत्वेनापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित् श्रूयत इति ॥ ८८९ ॥
१ आह मनु मिश्रभावे नाभिहितः, अभिहितश्च मोशब्दः । देशे तदम्यभावे द्रव्ये क्रियायां भावे च ॥ ८८८ ॥ २ क.ग. 'स्वाभा' । ३ क.ग. 'टक' । ४ क.ख.ग. 'तारू' । ५ सत्यमयं देशादिषु तथाऽप्यर्थवशेन शब्दविनियोगः । अमितार्थाश्च निपाता युज्यते ततो मिश्रभावेऽपि ॥ ८८९ ॥
For Private and Personal Use Only