________________
MI Jl Ranna Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
211 विशेषा०
अथवा, देशवचनोऽपि भवत्पत्र नोशब्दः, न कश्चिद् दोषः, इति दर्शयभाह--
'अविसेसियसंमिस्सोवओगदेसु त्ति वा सुयं काउं । नोआगमभावसुए नोसदो होज देसे वि ॥ ८९० ॥
अविशेषितश्चासौ ज्ञान-दर्शन-चारित्राणां परिपूर्णघटादिरिवाऽखण्डः संमिश्रीपयोगश्चाविशीपतसंमिश्रोपयोगस्तस्य घटादेवादिरिव श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावभुते विचार्ये नोशब्दो देशेऽपि युज्यते । इदमुक्तं भवति- यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादिनॊघट उच्यते , एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम् ॥ ८९० ॥
अथ मतान्तरमुपदर्य परिहरनाह
'नोआगमओ केई सदसहायमुवआगमिच्छति । नणु सुतरमागमत्तं हि दव्व-भावागमे जुत्तं ॥ ८९१ ॥
केचिदाचार्याः शब्दसहाय श्रुतोपयोग नोआगमतो भावश्रुतमिच्छन्ति । अयमभिप्रायः- श्रुतोपयोगपूर्वक ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् । तत्र किलोपयोग-शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात् , शब्दनिरपेक्ष तूपयोगमात्रमागमतो भावश्रुतमिति । एतच्चायुक्तमिति दर्शयति- 'नवित्यादि' नन्वत्र हि स्फुटं श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम् । आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः, आगया-ऽनागमसमुदाय एवं तस्य युज्यमानत्वादिति भावः ॥ ८९१ ॥ पराभिमायमेवाशङ्कय निराचिकीर्षुराहअह नागमो त्ति सदो नोआगमया य तदहियत्तणओ । आगमओ दव्वसुयं किह सद्दो नागमो जइ सो १ ॥८९२।
अथ परो मन्येत- शब्द आगमो न भवति, तत उपयोगस्य तदधिकत्वादनागमरूपशब्दाधिकत्वात् नोआगमता, आगमा-ऽना, गमसमुदाये आगमस्यैकदेशत्वाद् नोआगमत्वमित्यभिप्रायः। अत्र मूरिराह- हन्त ! यद्यसौ शब्द आगमो न भवति तागमतो द्रव्यश्रुतं
१ अविशेपितसंमिश्रोपयोगदेश इति वा श्रुतं कृत्वा । नोआगमभावश्रुते नोशब्दो भवेद् देशेऽपि ॥ ८९० ॥ २ क.ग. 'देसो त्ति'। ३ नोआगमतः केचित् शब्दसहायमुपयोगमिच्छन्ति । ननु सुतरामागमत्वं हि द्रव्य-भावागमयोयुक्तम् ॥ ८९१ ॥ ४ प.छ. 'व यु'।
५ अथ नागम इति शब्दो नोभागमता च तदधिकत्वतः । आगमतो द्रव्यश्रुतं कथं शब्दो नागमो यदि सः ॥ ८९२ तकथमष) स्यात् । सुमतीतमप्यस्येत्थमागमतो द्रव्यश्रुतत्वं न स्यात् , अनांगमत्वात् । तस्माद् द्रव्येत आगम एवाऽयम् , अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम् , न तु नोआगमत इति स्थितम् ॥ ८९२ ॥
अथान्यदपि मतान्तरमुपन्यस्य दूपयति
अन्ने नोआगमओ सामित्ताणासियं सुयं बोंत । जइ न सुयमणुवओगे नणु सुयरमणासियं नत्थि ॥८९३॥ . अन्ये तु केचनाऽप्याचार्याः स्वामिनमाश्रितं श्रुतोपयोग भावश्रुतं युवते, खाम्यनाश्रितं तु तमेव नोआगमतो भावभुतं ब्रुवते, एतच्चातिफलवेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम् , किन्तु विशिष्टेऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरामेवाऽनाश्रितं भावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात् , उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात् । 'स्वाम्यनाश्रितं च श्रुतं काप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किनिदेतदिति । तदेवमुक्तं नोआगमतोऽपि भावश्रुतम् ॥ ८९३ ॥
अथ श्रुतस्यैकार्थिकनामान्याह
सुय-सुत्त-गंथ-सिहंत-सासणे आण-वयण उवएसो । पण्णवण आगमो वि य एगट्ठा पज्जया सुत्ते ॥८९४॥ एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति । तदेवं विहितः श्रुतस्यापि नामादिन्यासः॥८९४ ॥ अथ स्कन्धस्य तमभिधातुमाह
खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दव्वखंधो उ । नोआगमओ जाणय-भव्वसरीरा-इरित्तोऽयं ॥८९५॥
इहापि नाम-स्थापने मुखप्ररूपणीयत्वाद् नोक्ते । द्रव्यस्कन्धस्त्वागमतः स्कन्धपदेऽनुपयुक्तो वक्ता । नोआगमतस्तु ज्ञशरीरद्रव्यस्कन्धः, भव्यशरीरद्रव्यस्कन्धः, तदुभयव्यतिरिक्तद्रव्यस्कन्धश्चेत्येवं त्रिविधोऽयमिति ॥ ८९५॥ तत्र व्यतिरिक्तद्रव्यस्कन्धः सचित्तादिभेदात पुनरपि त्रिविध इति दर्शयति
जाये नोभागनतः वामाशित शुनं युवन्ति । यदि न श्रुतमनुपयोगे ननु सुतरामनाश्रितं नास्ति ॥ ८९३ ॥ २ श्रुत-सूत्र-मन्ध-सिद्धान्त-शासनानि भाक्षा-वचने उपदेशः । प्रज्ञपनमागमोऽपि चकार्थाः पर्ययाः सूत्रे ॥ ८९४ ॥x । स्कन्धपदेऽनुपयुक्तो वक्ताऽऽगमतः स वयस्कन्धस्तु । नोआगमतो शायक-भव्यशरीरा ऽतिरिक्तोऽयम् ॥ ८९५ ॥+सत्य
त
For Private and Personal Use Only