________________
Shri Mahavir Jain Aradhana Kendra
}
212
www.kobatirth.org
विशेषा०
'सचित्तो अचित्तो मीसो य समासओ जहासंखं । दुपयाई दुपएसाइओ य सेणाइदेसाई || ८९६ ॥
व्यतिरिक्तद्रव्यस्कन्धः समासतः संक्षेपेण तावत् सचित्ता-चित्त-मिश्रभेदात् त्रिविधः । स च यथासंख्यं द्विपदादिर्द्रष्टव्यः, तथाहि - द्विपदा - sपद-चतुष्पदरूपः सचिचस्कन्धः । तत्र द्विपदं मनुष्य-शुक-सारिकादि, अपदं दाडिमा ऽऽम्र- बीजपूरकादि, चतुष्पदं तु गवादि । द्विमदेशिकादिरनन्ताणुक स्कन्धपर्यवसानोऽचित्तस्कन्धः सेनाया हस्त्यश्व रथ- पदाति- खड़-कुन्तायात्मकः पाश्चात्य मध्यमाsuदेशरूपो मिश्रस्कन्धः । आदिशब्दाद् ग्राम-नगर रायेकदेशपरिग्रहः ।। ८९६ ॥
अथवा व्यतिरिक्तस्कन्धस्य प्रकारान्तरेण त्रैविध्यमाह
Acharya Shri Kailassagarsuri Gyanmandir
अहवा कसिणो अकसिणो अणेगदव्बो स एव विष्णेओ । देसाऽवचिओबचिओ अणेगदव्वो विसेसोऽयं ॥ ८९७|| अथवा स एव व्यतिरिक्तस्कन्धोऽन्यथा त्रिविधो विज्ञेयः, तद्यथा- कृत्स्नस्कन्धा, अकृत्स्नस्कन्धः, अनेकद्रव्यस्कन्धश्वेति । यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्स्तः परिपूर्णः स्कन्धः कृत्स्नस्कन्धः, स च हयस्कन्धः, गजस्कन्धः, नरस्कन्ध इत्यादि । आह- यद्येवम्, प्रकारान्तरमसिद्धम्, सचिततुरङ्गमादिस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात् । नैवम्, यतः प्राक् सचित्तस्कन्धाधिकारात्. तथाsसंभविनोऽपि बुद्ध्या निकृष्य जीवा एवोक्ताः, इह तु जीव-तदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्स्नस्कन्धत्वेन विवक्षितः, अतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । अस्त्वेवम्, केवलं हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात् । नैतदेवम्, यतोऽसंख्येयमदेशात्मको जीवः, तदधिष्ठिताच शरीरपुहला इत्येवंभूतः समुदाय एव हयादिस्कन्धस्वेन विवक्षितः, जीवस्य चासंख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम् । यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्धेत सदा स्याद् गजादिस्कन्धस्य बृहन्त्वम्, तच नास्ति, समुदायस्य वृद्ध्यभावात्, केवलपुद्गलवृद्धि - हान्यो
विक्षितत्वात् इति सर्वत्र हयादी कृत्स्नस्कन्थत्वं न विरुध्यते । अन्ये तु पूर्व सचितश्कम्धविचारे जीव-तदधिष्ठितशरीर पुद्गलसमुदाय: सचित्तस्कन्धः, अत्र तु शरीराद् बुद्ध्या पृथक कृतो जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । तदत्र व्याख्याने प्रेर्यमेव नास्ति, हय-मजादि जीवानां प्रदेशतो हीनाधिक्याभावेन कृत्लस्कन्धस्वस्य सर्वत्राविरोधादिति ।
१ सचितोऽचिसो मिश्रश्र समासतो यथासंख्यम् । द्विषदादिर्द्विदेशादिकत्र सेनादिदेशादिः ॥ ८९६ ॥ ( X 5 क ० 1 ) ares resisनेकव्यः स एव विज्ञेयः । देसाऽपश्चिोपचितोऽनेकमुन्यो विशेषोऽयम् ॥ ८९७ ॥
trisen उच्यते-- यस्मादन्यो बृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकमस्कन्धः, स च द्विप्रदेशिकादिर्यावत् सर्वो त्कृष्टानन्तपरमाणुसन्तति निष्यन्न एकेन परमाणुना न्यूनस्तावद् विज्ञेयः । उत्कृष्टानन्ताणुस्कन्धापेक्षया बेकपरमाणुन्यूनोत्कृष्टानन्ताणुhisarrenधः, तदपेक्षया तु परमाणुइम्यूनोत्कृष्टानन्ताणुकोऽकृत्स्नस्कन्धः । एवमेकैकपरमाणुहान्या तावद् नेयं यावत् त्रिमदेशिकस्कन्धापेक्षया द्विदेशिकस्कम्धोऽकृत्स्नस्कम्भः । अत एव प्रागुक्ताचिचस्कन्धादस्य भेदः पूर्व हि द्विमदेशिकादेः परिपूर्णोत्कृष्टानन्तास्कन्धपर्यन्तस्य सर्वस्याप्यचित्तस्कन्धस्य सामान्येन संग्रहात् । अत्र स्वेकः परिपूर्णोत्कृष्टानन्ताणुको न संगृह्यते, तस्य कृत्स्नस्कन्धस्वादिति ।
- ५४
अनेकद्रव्यकम् उच्यते- अमेकैः सचिचाऽचितलक्षमैव्यैर्निष्पनः स्कन्धोऽमेकद्रव्यस्कन्धः । स च हय-गजादिस्कन्ध एव । कथंभूतः १, इत्याह- 'देखोऽयचिवचिओ चि' अपचितमासादुपचितश्चापचितोपचितः, देशेऽपचितोपचितो देशापचितोपचितः । इदमुकं भवति- देशे नख-दशन-केशादिलक्षणेऽपचितो जीवमदेशैर्विरहितो देशापचितः, अन्यस्मिंस्तु पृष्ठ-हृदय-बाहू-र्वादिलक्षणे देशे उपचितो जीवमदेशैर्व्याप्सो देशोपचित:- विशिषैक परिणामपरिणतसचेतना वेतन देशसमुदायात्मको हयादिस्कन्धोऽनेकद्रव्यस्कन्ध इत्यर्थः । आह- यद्येवम् कृत्स्नस्कन्धादस्य को विशेषः १ । उच्यते तत्र किल हयादिर्यावानेव जीवप्रदेशैर्व्याप्तस्तावानेव कृत्स्नस्कन्धत्वेन विवक्षितः, न तु जीवमदेशाध्यापनखायपेक्षयापि अत्र तु नखादियुक्तोऽनेकद्रव्यस्कन्धः, इति विशेषः । तर्हि पूर्वोक्ताद् मिश्रस्कन्धादस्य को भेदः १ । उच्यते तत्राऽश्व-गजादिजीवानां खङ्गाद्यजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगो विशिषैकपरिणामपरिणतानां सचेतना वेतनद्रव्याणामनेकद्रव्यस्कन्धत्वम् इति भेदः । अत एवाऽऽह- 'विसेसोsi' इति । कृत्स्रस्कन्धा मिश्रस्कन्धाश्चायमनन्तरोक्तोऽस्यानेकद्रव्यस्कन्धस्य विशेषो भेद इति । तदेवमुक्तो द्रव्यस्कन्ध इति ॥ ८९७||
अथ भावस्कन्धमाइ
आगमभाव संधी संघपयत्थोवओगपरिणामो । नोआगमओ भावम्मि नाण - किरिया गुणसमूहो ॥८९८ ॥ आगमतो भावस्कन्धः । कः ?, इत्याह- स्कन्धपदार्थोपयोगपरिणामः । नोआगमनस्तु भावस्कन्धो ज्ञान- क्रिया- गुणसमूहः । ज्ञानमत्रावश्यक-त-स्कन्धावबोधोपयोगलक्षणम्, क्रिया तदुक्तसामाचारीकरणरूपा, गुणास्तु मूलगुणोतरगुणभेदभिन्नाः तेषां समूहः समुदाय मीलको ज्ञान क्रिया-गुणसमूह इति ।। ८९८ ॥
१ आगमभायस्कन्धः स्कन्धपदार्थोपयोगपरिणामः । नोआगमतों भावे ज्ञान-क्रिया गुणसमूहः ॥ ८९८ ॥
For Private and Personal Use Only