________________
Shri Mahavir Jain Aradhana Kendra
'
www.kobatirth.org
203
विशेषा०
वासकम् । अथवा, यथा वस्त्रं वास-धूपादयः, तथा गुणैरा समन्तादात्मानं वासयति भावयति रञ्जयतीत्यावासकम् । यदि वा आच्छादने' गुणैरा समन्तादात्मानं च्छादयति- 'छद खट्ट संवरणे' इति दोषेभ्यः संवृणोतीत्यावासकमिति । तदेवं 'आवस्सयं' इत्याद्यं पर्यायनाम व्याख्यातम् ।। ८७४ ।। ८७५ ।।
शेषाण्यतिदिशन्नाह—
एवं चिय सेसाई विउसा सुय-लक्खणाणुसारेण । कमसो वत्तव्वाई तहा सुय क्खंघनामाई ॥ ८७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव शेषाण्यध्यवश्यकरणीयादिनामानि सिद्धान्त-लक्षणानुसारेण क्रमशो विदुषा वक्तव्यानि तद्यथा- मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते; तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय- कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति 'ध्रुवनिग्रहः' इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्याssत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्यनात्मकत्वादध्ययनपदकम् । 'तुजी वर्जने' दृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु षडध्ययनकलापात्मकत्वात् 'अध्ययनपटूबर्गः' इतीदमध्येकमेव पर्याय नाम ब्रुवते । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वाद् न्यायः अथवा, जीव-कर्मसंबन्धापनयनाद् न्यायः । अयमभिप्रायः- यथा कारणिकैर्दृष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसंवन्धं चिरकालीनमप्यपनयतीति, एवं जीव- कर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसंबन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । मोक्षाऽऽराधना हेतुत्वादाराधना । मोक्षपुरमापकत्वाद मार्ग इव मार्ग इति ।
अतिदेशप्रस्तावाद् वक्ष्यमाणान्यप्यैकार्थिकनामान्यतिदिशमाह- 'तहा सुयवखंघनामाई ति' तथा तेनैवोक्तप्रकारेण श्रुतमन्थ- सिद्धान्त-प्रवचन-ऽऽज्ञोपदेशा ऽऽगमादीनि श्रुतैकार्थिकनामानि गण-काम-निकाय-स्कन्ध-वर्ग-राश्यादीनि च स्कन्धैकार्थिकनामानि श्रुतानुसारेण, लक्षणानुसारेण चाऽर्थतो विदुषा वक्तव्यानीत्यर्थ इति । तदेवं विहितो नामादिन्यास आवश्यकपदस्य ।। ८७६ ॥ अथ श्रुतपदस्य तं चिकीर्षुरिदमाह
"आगमओ दव्वसुयं वत्ता सुत्तोपओगनिरबेक्खो । नोआगमओ जाणय भव्वसरीरा ऽइरित्तमिदं ॥ ८७७॥
१ एवमेव शेषाणि विदुषा श्रुत-लक्षणानुसारेण । क्रमशी वक्तव्यानि तथा श्रुत-स्कन्धनामानि ॥ ४७६ ॥
२ भागमतो व्यश्रुतं वा श्रुतोपयोगनिरपेक्षः । नोभागमतो ज्ञायक भव्यशरीराऽतिरिक्तमिदम् ॥ ८७७ ॥
इह नाम स्थापने सुगमत्वाद् नोक्ते । द्रव्यश्रुतं त्वागमतः, मोआगमतश्च । तत्राऽगमतो द्रव्यश्रुतं वक्ता तदुपयोगनिरपेक्ष:
अनुपयुक्त इत्यर्थः । नोआगमतस्तु त्रिविधम्- ज्ञशरीरद्रव्यश्रुतम् भव्यशरीरद्रव्यश्रुतम्, तद्व्यतिरिक्तं द्रव्यश्रुतं चेति । तत्राद्यभेदद्वयमावश्यकत्रदेव बोद्धव्यम् ॥ ८७७ ॥
तद्व्यतिरिक्तं विदं किम् १, इत्याह
पत्ताइगयं सुतं सुतं च जमंडजाइ पंचविहं । आगमओ भावसुयं सुउवउत्तो तओऽणण्णो ॥ ८७८ ॥
इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे । तत्र तल-ताल्यादिप्रभवानि पत्राणि प्रतीतानि तेषु गतं लिखितं सूत्रं पत्रादिगतम् ; आदिशब्दात् पत्रसंघातनिष्पन्नाः पुस्तकः, बखादयथ गृह्यन्तेः तेष्वपि लिखितं सूत्रं ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुच्यते । अथवा, अण्डाद्यपि यदागमे पञ्चविधं सूत्रमुक्तम् ; तद्यथा-- "अंडए, बोंडए, कीडए, वालए, बागए" * । एतदपि सूत्राभिधानसास्याद् व्यतिरिक्तं द्रव्यश्रुतमुच्यते । तत्राण्डाच्चतुरिन्द्रियकीटविशेष निर्वर्तितकोशकाररूपाज्जातमण्डजं लोकमतीतं चटकसूत्रमित्यर्थः । नोडं वमनीफलं तस्माज्जातं वोण्डजं कर्पासमूत्रमित्यर्थः । कीटजं तु पश्चविधम्, तद्यथा- "पेंट्टे, मलए, अंसुए, चीर्णसुए, किमिराए"* एते पञ्चापि पट्टसूत्रविशेषाः । वालजमपि पश्चविधम्, तद्यथा- 'उण्णिए, उट्ठिए, मिगलोमिए, कोतवे, किट्टिसे' । तत्र मूषिकलोarose कॉतवम् ऊर्णाद्युदरित किट्टिसनिष्पन्नं सूत्रं किट्टिसम्; अथवा, ऊर्णादीनां द्विकादिसंयोगनिष्पन्नं किट्टिसम्; यदिवा, उक्तशेपाऽश्वादिजीवलोपनिष्पन्नं किट्टिसम् । शेषं प्रतीतम् । सणा-तस्यादिप्रभवं वल्कजम्। तदेतत् सर्वमपि व्यतिरिक्तं द्रव्यश्रुतम् ।
भावमपि द्विधा - आगमतः, नोआगमतश्च । तत्र श्रुतोपयुक्तस्तदध्येताऽऽगमतो भावश्रुतम् । ननूपयोग एव भावश्रुतं युज्यते, तत्कथमिह तद्वान् गृह्यते १, इत्याह 'तओऽणण्णो चि' ततः श्रुतोपयोगादनन्य इति कृत्वोपचारतः स एव भावश्रुतमुच्यत इति ॥ ८७८ ॥
नो आगमनो भावश्रुतमाह
१ पत्रादिगतं सूत्रं सूत्रं च यदण्डजादि पञ्चविधम् । आगमतो भावश्रुतं श्रुतोपयुक्तस्ततोऽनन्यः ॥ ८७८ ॥ * (अनुयोगद्वारसूत्रे)
२ पुस्तकशब्दस्य पौं न दोषाय, "पुस्तक-सुस्तक " इति लिङ्गानुशासने तस्य पुंनपुंसकत्वेनाऽनुशासनात् ।
३ अण्डजम् वोण्डजम्, कीटजम्, वालजम्, वल्कजम्। ४ पट्टम्, मलयम्, अंशुक्रम्, चीनांशुकम्, कृमिरागम् । ५र्णिकम् अष्टिकम्, मृगलोमिकम्, कौतवम्, किट्टिसम्।
अनुयोगद्वारसूत्रस्थोऽयं पाठः ।
For Private and Personal Use Only