Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 विशषा अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुत, तत्मतिपक्षभूतं मिथ्याश्रुतं चाह.. अंगा-गंगपविटं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लोउत्तरे भयणा ॥५२७॥ इहाङ्गमविष्टमाचारादि श्रुतं, अनङ्गमविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य स्वामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावधभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपपोधतो विषयविभागेन योजनात : मिथ्याष्टिपरिगृहीतं त्वाचाराधपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥५२७॥ सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम्, तथा तच्च सम्यक्त्वं पश्चधा भवति- औपशमिक, सास्वादनं, क्षयोपशमर्ज, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह सम्मत्तपरिगहियं सम्भसुयं, तं च पंचहा सम्मं । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ ५२८ ॥ गतार्थैव, नवरमुपशमनमुपशम:- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात्, तेन वा नित्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोऽत्र द्रष्टव्यः। ततश्च सहेषत्तत्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुबन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निर्वृत्तं क्षायोपशमिकं सम्यक्त्वम् । विहितप्रायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमात्रं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निदे॒त्तं क्षायिकम् । एष तावत् संक्षेपार विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशगिकं सम्यक्त्वं तावदाह उवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छों लहइ सम्मं ॥५२९॥ १ गापा ४५४ । २ अङ्गा-ऽनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिकं तु मिथ्याश्रुतम् । आसाथ तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ ५२७॥ ३ सम्यक्स्वपरिगृहीतं सम्यश्रुतं, तक पञ्चधा सम्यक् । औपशमिकं सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ ५२८॥ ४ क.ग. 'खईयं'। ५ उपशमकनेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः ( यावः) लभते सम्यक ( स्वम् ) ॥ ५२९॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिक सम्यक्त्वं भवति । किमुपशमश्रेणिगतस्यैवैतद् भवति ?, न, इत्याह'जो वेत्यादि यो वा जन्तुरनादिमिथ्याष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वं, तरयाऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुञ्जोऽप्यविद्यमानत्रिपजो भवति अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुञ्जः सम्यक्त्वं लभते, तस्यैवीपशामिकं सम्यक्त्वमवाप्यते, क्षपितमि थ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्याष्टिस्तथा विधगुवादिसामग्रीसद्भावपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अर्धविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्ग ललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुज्जनयं कृत्वा सम्यक्त्वपञ्ज पुद्गलान् विपाकतो वेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः -- " तद्यथेह प्रदीपस्य खच्छाश्रपटलैगृहम् । न करोत्यावृति काश्चिदेवमेतद् वेरपि ॥१॥" एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः । __ " एकपुज्जी द्विपुञ्जीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्च कीर्तितः ॥ १॥" अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुञ्जी सन्नुभयवार सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युदलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह ___ " यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ १ ॥" इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन । ५२९॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तर्हि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह- खीणम्मि उइण्णम्मि य अणुदिज्जते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥५३०॥ इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिममाणत नीतास्वपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये १ क्षीण उदीर्णे चानुदीयमाने च शेषमिध्यावे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ ५३ ॥+ भवेदपि। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339