________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
142 विशषा
अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुत, तत्मतिपक्षभूतं मिथ्याश्रुतं चाह.. अंगा-गंगपविटं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लोउत्तरे भयणा ॥५२७॥
इहाङ्गमविष्टमाचारादि श्रुतं, अनङ्गमविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य स्वामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावधभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपपोधतो विषयविभागेन योजनात : मिथ्याष्टिपरिगृहीतं त्वाचाराधपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥५२७॥
सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम्, तथा तच्च सम्यक्त्वं पश्चधा भवति- औपशमिक, सास्वादनं, क्षयोपशमर्ज, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह
सम्मत्तपरिगहियं सम्भसुयं, तं च पंचहा सम्मं । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ ५२८ ॥
गतार्थैव, नवरमुपशमनमुपशम:- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात्, तेन वा नित्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोऽत्र द्रष्टव्यः। ततश्च सहेषत्तत्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुबन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निर्वृत्तं क्षायोपशमिकं सम्यक्त्वम् । विहितप्रायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमात्रं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निदे॒त्तं क्षायिकम् । एष तावत् संक्षेपार विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशगिकं सम्यक्त्वं तावदाह
उवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छों लहइ सम्मं ॥५२९॥ १ गापा ४५४ । २ अङ्गा-ऽनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिकं तु मिथ्याश्रुतम् । आसाथ तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ ५२७॥
३ सम्यक्स्वपरिगृहीतं सम्यश्रुतं, तक पञ्चधा सम्यक् । औपशमिकं सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ ५२८॥ ४ क.ग. 'खईयं'।
५ उपशमकनेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः ( यावः) लभते सम्यक ( स्वम् ) ॥ ५२९॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिक सम्यक्त्वं भवति । किमुपशमश्रेणिगतस्यैवैतद् भवति ?, न, इत्याह'जो वेत्यादि यो वा जन्तुरनादिमिथ्याष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वं, तरयाऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुञ्जोऽप्यविद्यमानत्रिपजो भवति अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुञ्जः सम्यक्त्वं लभते, तस्यैवीपशामिकं सम्यक्त्वमवाप्यते, क्षपितमि थ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्याष्टिस्तथा विधगुवादिसामग्रीसद्भावपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अर्धविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्ग ललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुज्जनयं कृत्वा सम्यक्त्वपञ्ज पुद्गलान् विपाकतो वेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः --
" तद्यथेह प्रदीपस्य खच्छाश्रपटलैगृहम् । न करोत्यावृति काश्चिदेवमेतद् वेरपि ॥१॥" एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः ।
__ " एकपुज्जी द्विपुञ्जीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्च कीर्तितः ॥ १॥" अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुञ्जी सन्नुभयवार सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युदलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह
___ " यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ १ ॥" इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन । ५२९॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तर्हि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह- खीणम्मि उइण्णम्मि य अणुदिज्जते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥५३०॥
इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिममाणत नीतास्वपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये
१ क्षीण उदीर्णे चानुदीयमाने च शेषमिध्यावे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ ५३ ॥+ भवेदपि।
For Private and Personal Use Only