________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
143
विशेषा०
"जी गंठी ता पढमं गठिं समइच्छओ हवइ बीयं । अनियट्टीकरणं पुण सम्मतपुरक्खडे जीवे ॥ १ ॥ " इति ।
ततस्तत्रवृत्तिकरणे दुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीर्णे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीर्य• माने परिणाम विशुद्धिविशेषादुपशान्ते विष्कम्भतोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् १, इत्याह- अन्तर्मुहूर्तमात्रं कालमौपशfusereved लभते जीवः । अस्माच्चोपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याSकृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम् — सैद्धान्तिकानां तावदेत मतं यदुत - अनादि मिध्यादृष्टिः कोऽपि तथाविधसामग्रीसाsपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुअपुगलान् वेदयनोपशमिकं सम्यक्त्वमलब्ध्चैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अभ्यस्तु यथास्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते पुञ्जत्रयं त्वसौ न करोत्येव । ततपशमिकसम्यक्त्वा - eeyarsari मिध्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये
" आलंबणमलहंती जह सहाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छे चिय उवसमी एवं ॥ १ ॥ "
यथा गात्रे समुत्क्षिप्ते सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना माक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति पुनरपि iger प्राक्तनंस्थान एवं तिष्ठतीत्यर्थः एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृत त्रिपुञ्जत्वाद् मिश्र - शुद्धञ्जलक्षणं स्थानामानः पुनस्तदेव मिध्यात्वमा गच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत - सर्वोऽपि मिध्यादृष्टिः प्रथमसम्यक्त्वareer forgetfदकरणत्रयपूर्वकमन्तरकरणं करोति, तत्र चौपशमिकं सम्यक्त्वं लभते पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवौvasaarateeyasat क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिध्यादृष्टिर्वा भवति । इत्यलं प्रपश्चेनेति ॥ ५३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ सास्वादनसम्यक्त्वमाह
समसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ ५३१ ॥ इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनतानुबन्धिक पायोदयेनोपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं उत्कृष्टतस्तु षडावलिका + नुदीर्थ-1
१ यो ग्रन्थिः स प्रथमं ( यथाप्रवृत्तकरणं ) ग्रन्थि समतिगच्छतो भवति द्वितीयम् (अपूर्वकरणं) । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ १ ॥ २. छ. 'र्तमाग' । ३ आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतत्रिपुञ्जी मिथ्यात्वमेवोपशम्येति ॥ १ ॥ ४ उपशमसम्यक्त्वा च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादन सम्यक्त्वं तदन्तराले पडावलिकम् ॥ ५३१ ॥ सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थ भवतीति ॥ ५३१ ॥
अथ क्षायोपशमिकमाह
'मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ ५३२ ॥
यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्ण, यच्च शेषं सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भतोदयमुपनीतमिथ्या स्वभावं च शेषमिथ्यात्वं, मिध्यात्व - मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जावाश्रित्य पुनरपनीतमिथ्या स्वभावमित्यर्थः । आह- यद्येवम्, अशुद्ध-मिश्रपुञ्जद्वयरूपस्य विष्कम्भतोदयस्यैवोपशान्तस्याऽनुदीर्णता युज्यते, न तु शुद्धञ्जलक्षणस्यापनीत मिध्यात्वस्वभावस्य तस्य विपाकेन साक्षादनुभूयमानत्वादिति भवद्भिस्तु 'अणुइयं च वसंत' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम्, तदेतत् कथम् १ इति । अत्रोच्यते- सत्यमेतत् किन्त्वपनीतमिध्यात्वस्वभावत्वात् स्वरूपेणाऽनुदयात् तस्याऽप्यनुदीर्णतोपचारः क्रियते । अथवा, अनुदीर्णत्वमविशुद्ध मिश्रपुञ्जद्वयरूपस्य मिध्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीत मिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्यर्थः । कथम् १, इति चेत् । उच्यते- मिथ्यात्वं यदुदीर्णमुदयमागतं. तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्ण 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं तदुपशान्तं चेति- अपनीतमिथ्यात्वस्वभावमित्यर्थः इत्येवं सर्व सुस्थं भवति ।
9
देवदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्वमिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं, मिश्रीभाव परिणतं बेद्यमानमनुभूयमानं त्रुटितरसं गुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां निर्वृत्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवत्रमिव दृष्टेर्यथावस्थिततत्त्वरूच्यध्यवसायरूपस्य सम्यक्त्वस्याssareer न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति ।
अत्राह - नन्दीर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम्, प्रागुक्तमौपशमिकमपि तदेवंविधमेत्र, तत् कोऽनयोर्विशेषः । तदेतदसमीक्षिताभिधानम्, यतो 'मीसीभावपरिणयं वेइज्जंतं खओवसमं' इति वचनादत्र क्षायोपशमि
१ मिथ्यात्वं यदुदीर्णं तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ ५३२ ॥
२ क. ग. 'शान्तं ना' । ३ . छ. 'त्य विष्कम्भितोदयं पु' । ४क. ग. 'मधु' ५ क.ग. 'त्वशु' |
For Private and Personal Use Only