SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 141 विशेषा. सदसदविसेसणाओ भवहेउजदिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ ५२१ ॥ भाग व्याख्याताथैव ॥ ५२१॥ आह- ननु देव-नारक-गर्भजतिर्यङ्-मनुष्यलक्षणो मिथ्यादृष्टिीर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेशसंज्ञाविचारेऽपि संझी कस्मात् नोच्यते ?, इत्याह हो न हेऊए, हेउई न कालम्मि भण्णइ सण्णा । जह कुच्छियत्तणाओ, तह कालो दिठिवायम्मि॥५२२॥ यथा ऊहः पृथिव्यादीनां संबन्धिनी ओघमात्रसंज्ञेत्यर्थः, न 'हेऊए त्ति' हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात् संज्ञा भण्यते, यथा वा 'कालम्मित्ति' दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञा न भण्यते, तथा 'कालोत्ति दीर्घकालिक्यपि संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते । अतो नेह देवादिरपि मिथ्याष्टिः संज्ञीति भावः॥५२२।। तदेवं दीर्घकालिक-हेतुवाद-दृष्टिवादोपदेशेन त्रिविधा संज्ञा निरूप्य, अर्थतासां मध्ये कस्य जन्तोः का भवति ?, इति निरूपयितुमाह पेंचण्हमूहसंण्णा हेउसण्णा बेइंदियाईणं । सुर-नारय-गब्भुन्भवजीवाणं कालिगी सण्णा ॥ ५२३ ॥ छउमत्थाणं सण्णा सम्मट्ठिीण होइ सुयनाणं । मइवावारविमुक्का सण्णाईआ उ केवलिणो ॥ ५२४ ॥ पञ्चानां पृथिव्य-प्-तेजो-वायु-वनस्पतीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति । आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव. अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात कुत्सितत्वाच्च तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता । सत्यम् , किन्त्वेकेन्द्रियाणामेषेवोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः । एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा मागेवोक्तमिति । भवत्वेवम् , तथाऽप्ये .१ गाथा ११५ । २ अहो न हेतौ, हैतुकी न काले भण्यते संज्ञा । यथा कुत्सितत्वात, तथा कालो दृष्टिवादे ॥ ५२२ ॥ ३ घ. छ. 'ग्वादेव सं' । ४ घ. 'लिकाऽपि । ५ पञ्चानामूहसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुर-नारक-गर्भोद्भवजीवानां कालिकी संज्ञा ॥ ५२३ ॥ मस्थानां संज्ञा सम्यग्दृष्टीनां भवति श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीतास्तु केवलिनः ॥ ५२४॥ केन्द्रियाणामाहार-क्रोधादिका संज्ञा दशविधा समये मोक्ता, तत्कथमेकैवोहसंज्ञाऽत्रैषामुक्ता । सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किश्चिदिति शेषोपलक्षणार्थमेषैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते । देवनारकाणां गर्भजतिर्यङ्-मनुष्याणां च कालिकी संज्ञेति । दृष्टिवादोपदेशेन च्छअस्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते । ततश्च 'तेषां तज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः । एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः, 'सिद्धिं गताश्च केवलिन एव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति ॥ ५२३ ॥ ५२४ ॥ अत्राह पर: मोत्तूण हेउ-कालिय-सम्मत्तकमं जहुत्तरविसुद्धं । किं कालिओवएसो कीरइ आईए सुत्तम्मि ? ॥ ५२५ ॥ नन्वविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञाः इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा कि कालिकसंज्ञोपदेश आदौ प्रथमं सूत्रे नन्दिलक्षणे क्रियते । तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सा सण्णा होइ तिहा कालिय-हेउ-दिद्विवाओवएसेण' इति ॥ ५२५॥ • अत्रोत्तरमाह सण्णि त्ति असण्णि त्ति य सव्वसुए कालिओवएसेणें । पायं संववहारो कीरइ तेणाईए स कओ ॥५२६॥ इह सर्वस्मिन्नपि श्रुते आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते । तेनाऽऽदी स एव कालिकोपदेशः कृतः । इदमुक्तं भवति- यतः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपञ्चेन्द्रियः संज्ञीत्यागमे व्यवहियते, असंज्ञी तु प्रसह्यपतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत् पश्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणादसंश्यप्यमनस्कसम्मृछैनपञ्चेन्द्रिय एवाऽऽगमे पायो व्यवहियते । तदेवंभूतः संज्ञा-संज्ञिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते । अतः प्रथमं स एव सूत्रे, तदनुरोधेनाऽत्र च निर्दिष्टः ॥ इति त्रयोविंशतिगाथार्थः ॥ ५२६ ॥ असंझीति असंझीति वासंता- • ॥इति संश्य-संज्ञिश्रुतं समाप्तमिति ॥ १ घ. छ. "सिद्धिग'। २ मुक्त्वा हेतु कालिक-सम्यक्त्वक्रम यथोत्तरविशुद्धम् । किं कालिकोपदेशः क्रियत आदौ सूत्रे ? ॥ ५२५॥ ३ गाथा ५०४ । १ संज्ञीति, असंज्ञीति च सर्वश्रुते कालिकोपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः॥ ५२६ ॥ ५५. छ. 'सेण+सन्मू For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy