________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
140
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
इह यथा तुल्येऽपिच्छेदकभावे चक्रवर्तिसंबन्धिनश्रक्ररत्नस्य यच्छेदनसामर्थ्यं तदन्येषां खङ्ग-दात्र- शरपत्रादीनां छेदकवस्तूनां न भवत्येव । कुतः ?, इत्याह- यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजयन्नाह - 'ईय त्ति' दीर्घत्वं प्राकृतत्वात्, इत्येवं चैतन्ये तुल्येsपि मनोविषयिणां संज्ञिनामवग्रहेहादिषु यावत्स्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीर्घकालिकसंज्ञारहितानां सन्मूर्छजपश्चेन्द्रिय- विकलेन्द्रियै केन्द्रियाणामसंज्ञिनां न भवत्येत्र, क्रमशो हीनत्वादिति ॥ ५१३ ।। ५१४ ॥
तदेवं कालिक संज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी । सांप्रतं हेतुः, निमित्तं, कारणम्, इत्यनर्थान्तरं, तस्य वदन्नं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह
'जे पुण संचितेउं इट्ठा-गिट्ठेसु विसयवत्थूसु । वट्टंति निवट्टंति य सदेहपरिपालणाउं ॥ ५१५ ॥ .. पाएण संपए श्चिय कालम्मि न याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥ ५९६ ॥
ये
पुनः संचिन्त्य संचिन्त्य इष्टा ऽनिष्टेषु च्छायाऽऽतपाऽऽहारादिविषयवस्तुषु मध्ये स्वदेहपरिपालनाहेतोरिष्टेषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव, न त्वतीतानागतकालावलम्बिनः, प्रायोग्रहणात् केचिदतीता ऽनागतावलम्बिनोsपि नातिदीर्घकालानुसारिणः, ते द्वीन्द्रियादयो हेतुवादोपदेशेन संज्ञिनो विज्ञेयाः, तथाहि - संज्ञिनो द्वीन्द्रियादयः, संचिन्त्ये संचिन्त्य यो- पादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्रेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति ।। ५१५|| ४१६ ॥
अथ दृष्टिदर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं तेन संज्ञिनमसंज्ञिनं च प्ररूपयन्नाह
सैम्मट्ठी सण्णी संते नाणे खउवसमियम्मि । असण्णी मिच्छत्तम्मि दिट्टिवाओवएसेण ॥ ५१७ ॥ दृष्टिवादोपदेशेन क्षायोपशमिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात्; मिथ्यादृष्टिस्त्वसंज्ञी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति ॥ ५१७ ॥
आह- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते १ । क्षायिक
१ ये पुनः संचिन्त्येष्टा ऽनिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालना हेतोः ॥ ५१५ ॥
प्रायेण सांप्रत एव काले न चातिदीर्घकालज्ञाः । ते हेतुवादसंज्ञिनो निश्चेष्टा भवन्त्यसंज्ञिनः ॥ ५१६ ॥ २ क. ग. 'त्य है'। सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । भसंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ॥ ५१७ ॥
ज्ञाने हि तस्य विशिष्टतराऽसौ प्राप्यते । ततस्तद्वत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते- 'संते नाणे खडवसमियम्मि' इति १ । एतदाशङ्कय पूर्वमुत्तरमाह
नाणी किं सण्णी न होइ होइ व खउवसमनाणी ? | सण्णा सरणमणागयचिंता य न सा जिणे जम्हा ॥५९८॥
आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी, केवलीत्यर्थः, असौ संज्ञी किमिति न भवति १, किमर्थं च क्षायोपशमिकज्ञानी रांज्ञी भवतीति व्याख्यायते भवता । एवं परेणोक्ते सत्याह- 'सण्णेत्यादि' केवली संज्ञी न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्तां संज्ञेोच्यते, सा च जिने केवलिनि नास्तीति सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यततित्वात् । इति क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति ।। ५१८ ॥
पुनरपि प्रकारान्तरेणाऽऽह परः
मिच्छो हिया - हियविभागनाणसण्णासमण्णिओ कोइ । दीसइ, सो किमसण्णी, सण्णा जमसोहणा तस्स ॥५१९ ॥ ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिता ऽहितविभागज्ञानात्मक स्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते । इति । गुरुराह - यद् यस्मादशोभना कुत्सिता तस्य मिध्यादृष्टेः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति ।। ५१९ ।।
आह- ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः १, इत्याह
जैह दुव्वयणमवणं कुच्छियसीलं असीलमसईए । अण्णइ तह नाणं पि हु मिच्छद्दिट्ठिस्स अण्णाणं ॥ ५२०॥ यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टेर्ज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते, संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः ।। ५२० ॥
कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति १, इत्याह
१ क्षयज्ञानी किं संज्ञी न भवति, भवति क्षयोपशमज्ञानी ? | संज्ञा स्मरणमनागतचिन्ता च न सा जिने यस्मात् ॥ ५१८ ॥ २ क. ग. 'न्ता संज्ञानं सं' । ३ मिथ्यो ( मिथ्यादृष्टिः ) हिता - हिन्र विभागज्ञानसंज्ञासमन्वितः कोऽपि । दृश्यते स किमसंज्ञी, संज्ञा यदशोभना तस्य ॥ ५१९ ॥
४ यथा दुर्वचनमवचनं कुत्सितशीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरज्ञानम् ॥ ५२० ॥
For Private and Personal Use Only