________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
139
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
ष्टया संज्ञया 'संज्ञी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयाऽत्र संज्ञी मोच्यते १, इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्य मनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेाऽधिक्रियते, नान्येति भावः । ततश्चैषा मनोज्ञानरूपा संज्ञा येषामस्ति ते संज्ञिनः, नान्य इति ।। ५०६ ।। ५०७ ।।
पूर्व संज्ञायास्त्रैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह-
ह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पिं । संभरइ भूयमिस्सं चिंतेइ य किह णु कायव्यं १ ॥ ५०८ ॥
इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् ' कालिकसंज्ञा ' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?" इत्येषा चिन्तामाश्रित्य दीर्घोsatar-ssनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ ५०८ ॥
एषा च संज्ञा यस्यास्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति
1
कोलियसणि तितओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नइ तल्लद्धिसंपण्णो ॥ ५०९ ॥ ' त' तकisit 'कालिकसंज्ञी' इत्यभिधीयते । यस्य किम् १, इत्याह- 'जस्स तर ति' यस्याऽसौ कालिकसंज्ञा प्राप्यते । सच को विज्ञेयः १, इत्याह- 'सोय जो मणोजोग्गेत्यादि' स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमात् मनोooriya मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तिर्यङ् मनुष्यो वा; देवः, नारकश्चेति ॥ ५०९ ॥
अस्य चैवंभूतस्य संज्ञिनः किं भवति १, इत्याह
रूवे जहोवलडी चक्खुमओ दंसिए पयासेणं । तह छव्विहोवओगो मणदव्वपयासिए अत्थे ॥ ५१० ॥
१ इह दीर्घकालिकी कालिकीति संज्ञा क्या सुदीर्घमपि । स्मरति भूतमेष्यश्चिन्तयति च कथं नु कर्तव्यम् ? ॥ ५०८ ॥
२ कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते सलब्धिसंपन्नः ॥ ५०९ ॥ ३ . छ. 'क्ष' ४. छ. 'अस्यैवं । ५ रूपे पथोपलब्धिलक्षुमतो दर्शिते प्रकाशेन । तथा पद्विधोपयोगो मनोव्यप्रकाशितेऽर्थे ॥ ५१० ॥
यथा रूपे घटपटादिसंबन्धिनि चक्षुष्पतो लोचनयुक्तस्य जन्तारुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे १, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यप्रकाशिते शब्द - रूपादिकेऽर्थे मनःषष्ठेन्द्रियपञ्चकभेदात् षद्विधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ।। ५१० ॥
अत्र विनेयः पृच्छति
नन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति १, इत्याह
अविचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥५११॥ testद्धष नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूर्च्छनजपश्चेन्द्रियस्य 'स्वल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ॥ ५११ ॥
यदि सन्मूर्च्छनजपश्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तकेन्द्रियादीनां तत् कथंभूतं भवति १, इत्याह
जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविष्णाणं । एगेंदियाण एवं सुद्धयरं बेइ दियाईणं ॥ ५९२ ॥
मूच्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादे केन्द्रियाणामपि ततः शुद्धतरं शुद्धतमं दीन्द्रियादीनामापश्चेन्द्रियसन्मूर्च्छजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनचैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते - सामर्थ्यभेदात् स च क्षयोपशमवैचित्र्यात् ॥ ५१२ ॥
ऐतदेवाह -
छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहकमहीणं न होइ सरपत्तमाईणं ॥ ५१३ ॥ ई मनोविसणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ ५१४ ॥
१. अविशुद्ध चक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंज्ञिनस्तथाऽर्थे लोकमनोद्रव्यलाब्धिमतः ॥ ५११ ॥ २क. ग. 'थं भ' | ३ यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं शुद्धतरं द्वीन्द्रियादीनाम् ॥ ५१२ ॥ ४ ६. छ. 'था सन्मू' । ५. छ. 'त' । ६ तुल्ये छेदकभावे यत् सामर्थ्य तु चरत्नस्य । ततु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ ५१३ ॥ हूति मनोविषयाणां या पटुता भवत्यवग्रहादिषु । तुल्ये वेतनभावेऽसंज्ञिनां न सा भवति ॥ ५१४ ॥
For Private and Personal Use Only